ततः
शासनमाज्ञाय
भ्रातुः
शुभतरं
प्रियम् ।
गत्वा
स
प्रविवेशाशु
सुयज्ञस्य
निवेशनम् ॥ १ ॥
तं
विप्रमग्न्यगारस्थं
वन्दित्वा
लक्ष्मणोऽब्रवीत् ।
सखेऽभ्यागच्छ
पश्य
त्वं
वेश्म
दुष्करकारिणः ॥ २ ॥
ततः
सन्ध्यामुपास्याशु
गत्वा
सौमित्रिणा
सह ।
जुष्टं
तत्प्राविशल्लक्ष्म्या
रम्यं
रामनिवेशनम् ॥ ३ ॥
तमागतं
वेदविदं
प्राञ्जलिः
सीतया
सह ।
सुयज्ञमभिचक्राम
राघवोऽग्निमिवार्चितम् ॥ ४ ॥
जातरूपमयैर्मुख्यैरङ्गदैः
कुण्डलैः
शुभैः ।
सहेमसूत्रैर्मणिभिः
केयूरैर्वलयैरपि ॥ ५ ॥
अन्यैश्च
रत्नैर्बहुभिः
काकुत्स्थः
प्रत्यपूजयत् ।
सुयज्ञं
स
तदोवाच
रामः
सीताप्रचोदितः ॥ ६ ॥
हारं
च
हेमसूत्रं
च
भार्यायै
सौम्य
हारय ।
रशनां
चाधुना
सीता
दातुमिच्छति
ते
सखे ॥ ७ ॥
अङ्गदानि
विचित्राणि
केयूराणि
शुभानि
च ।
प्रयच्छति
सखे
तुभ्यं
भार्यायै
गच्छती
वनम् ॥ ८ ॥
पर्यङ्कमग्र्यास्तरणं
नानारत्नविभूषितम् ।
तमपीच्छति
वैदही
प्रतिष्ठापयितुं
त्वयि ॥ ९ ॥
नागः
शत्रुञ्जयो
नाम
मातुलोऽयं
ददौ
मम ।
तं
ते
गजसहस्रेण
ददामि
द्विजपुङ्गव ॥ १० ॥
इत्युक्तः
स
हि
रामेण
सुयज्ञः
प्रतिगृह्य
तत् ।
रामलक्ष्मणसीतानां
प्रयुयोजाशिषः
शुभाः ॥ ११ ॥
अथ
भ्रातरमव्यग्रं
प्रियं
रामः
प्रियंवदः ।
सौमित्रिं
तमुवाचेदं
ब्रह्मेव
त्रिदशेश्वरम् ॥ १२ ॥
अगस्त्यं
कौशिकञ्चैव
तावुभौ
ब्राह्मणोत्तमौ ।
अर्चयाहूय
सौमित्रे
रत्नैः
सस्यमिवाम्बुभिः ॥ १३ ॥
तर्पयस्व
महाबाहो
गोसहस्रैश्च
मानद ।
सुवर्णै
रजतैश्चैव
मणिभिश्च
महाधनैः ॥ १४ ॥
कौसल्यां
च
य
आशीर्भिभक्तः
पर्युपतिष्ठति ।
आचार्यस्तैत्तिरीयाणामभिरूपश्च
वेदवित् ॥ १५ ॥
तस्य
यानं
च
दासीश्च
सौमित्रे
सम्प्रदापय ।
कौशेयानि
च
वस्त्राणि
यावत्तुष्यति
स
द्विजः ॥ १६ ॥
तोषयैनं
महार्हेश्च
रर्त्नैर्वस्त्रैर्धनैस्तथा ।
पशुकाभिश्च
सर्वाभिर्गवां
दशशतेन
च ॥ १७ ॥
ये
चेमे
कठकालापा
बहवो
दण्डमाणवाः ।
अलसाः
स्वादुकामाश्च
महतां
चापि
सम्मताः ॥ १८ ॥
तेषामशीतियानानि
रत्नपूर्णानि
दापय ।
शालिवाहसहस्रं
च
द्वे
शते
भद्रकांस्तथा ॥ १९ ॥
व्यञ्जनार्थं
च
सौमित्रे
गोसहस्रमुपाकुरु ।
मेखलीनां
महासङ्घः
कौसल्यां
समुपस्थितः ॥ २० ॥
तेषां
सहस्रं
सौमित्रे
प्रत्येकं
सम्प्रदापय ।
अम्बा
यथा
च
सा
नन्देत्
कौसल्या
मम
दक्षिणाम् ॥ २१ ॥
तथा
द्विजातींस्तान्
सर्वाल्लँक्ष्मणार्चय
सर्वशः ।
ततः
स
पुरुषव्याघ्रस्तद्धनं
लक्ष्मणः
स्वयम् ॥ २२ ॥
यथोक्तं
ब्राह्मणेन्द्राणामददाद्धनदो
यथा ।
अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः ॥ २३ ॥
सम्प्रदाय
बहुद्रव्यमेकैकस्योपजीवनम् ।
लक्ष्मणस्य
च
यद्वेश्म
गृहं
च
यदिदं
मम ॥ २४ ॥
अशून्यं
कार्यमेकैकं
यावदागमनं
मम ।
इत्युक्त्वा
दुःखितं
सर्वं
जनं
तमुपजीविनम् ॥ २५ ॥
उवाचेदं
धनाध्यक्षं
धनमानीयतामिति ।
ततोऽस्य
धनमाजह्रुः
सर्वमेवोपजीविनः ॥ २६ ॥
स
राशिः
सुमहांस्तत्र
दर्शनीयो
ह्यदृश्यत ।
ततः
स
पुरुषव्याघ्रस्तद्धनं
सहलक्ष्मणः ॥ २७ ॥
द्विजेभ्यो
बालवृद्धेभ्यः
कृपणेभ्यो
ह्यदापयत् ।
तत्रासीत्
पिङ्गलो
गार्ग्यस्त्रिजटो
नाम
वै
द्विजः ॥ २८ ॥
उञ्छवृत्तिर्वने
नित्यं
फालकुद्दाललाङ्गली ।
तं
वृद्धं
तरुणी
भार्या
बालानादाय
दारकान् ॥ २९ ॥
अब्रवीद्ब्राह्मणं
वाक्यं
दारिद्र्येणाभिपीडिता ।
अपास्य
फालं
कुद्दालं
कुरुष्व
वचनं
मम ॥ ३० ॥
रामं
दर्शय
धर्मज्ञं
यदि
किञ्चिदवाप्स्यसि ।
स
भार्यावचनं
श्रुत्वा
शाटीमाच्छाद्य
दुश्छदाम् ॥ ३१ ॥
स
प्रातिष्ठत
पन्थानं
यत्र
रामनिवेशनम् ।
भृग्वङ्गिरसमं
दीप्त्या
त्रिजटं
जनसंसदि ॥ ३२ ॥
आ
पञ्चमायाः
कक्ष्यायाः
नैनं
कश्चिदवारयत् ।
निर्द्धनो
बहुपुत्रोऽस्मि
राजपुत्र
महायशः ॥ ३३ ॥
उञ्छवृत्तिर्वने
नित्यं
प्रत्यवेक्षस्व
मामिति ।
तमुवाच
ततो
रामः
परिहाससमन्वितम् ॥ ३४ ॥
गवां
सहस्रमप्येकं
न
तु
विश्राणितं
मया ।
परिक्षिपसि
दण्डेन
यावत्तावदवाप्स्यसि ॥ ३५ ॥
स
शाटीं
त्वरितः
कट्यां
सम्भ्रान्तः
परिवेष्ट्य
ताम् ।
आविध्य
दण्डं
चिक्षेप
सर्वप्राणेन
वेगितः ॥ ३६ ॥
स
तीर्त्वा
सरयूपारं
दण्डस्तस्य
कराच्च्युतः ।
गोव्रजे
बहुसाहस्रे
पपातोक्षणसन्निधौ ॥ ३७ ॥
तं
परिष्वज्य
धर्मात्मा
आ
तस्मात्
सरयूतटात् ।
आनयामास
ता
गोपैस्त्रिजटायाश्रमं
प्रति ॥ ३८ ॥
उवाच
च
ततो
रामः
तं
गार्ग्यमभिसान्त्वयन् ।
मन्युर्न
खलु
कर्त्तव्यः
परिहासो
ह्ययं
मम ॥ ३९ ॥
इदं
हि
तेजस्तव
यद्दुरत्ययं
तदेव
जिज्ञासितुमिच्छता
मया ।
इमं
भवानर्थमभिप्रचोदितो
वृणीष्व
किं
चेदपरं
व्यवस्यति ॥ ४० ॥
ब्रवीमि
सत्येन
न
तेऽस्ति
यन्त्रणा
धनं
हि
यद्यन्मम
विप्रकारणात् ।
भवत्सु
सम्यक्
प्रतिपादनेन
तन्मयार्जितं
प्रीतियशस्करं
भवेत् ॥ ४१ ॥
ततः
सभार्यस्त्रिजटो
महामुनिर्गवामनीकं
प्रतिगृह्य
मोदितः ।
यशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः
प्रत्यवदन्महात्मनः ॥ ४२ ॥
स
चापि
रामः
प्रतिपूर्णमानसो
महद्धनं
धर्मबलैरुपार्जितम् ।
नियोजयामास
सुहृज्जने
चिराद्यथार्हसम्मानवचः
प्रचोदितः ॥ ४३ ॥
द्विजः
सुहृद्भृत्यजनोऽथवा
तदा
दरिद्रभिक्षाचरणश्च
योऽभवत् ।
न
तत्र
कश्चिन्न
बभूव
तर्पितो
यथार्हसम्माननदानसम्भ्रमैः ॥ ४४ ॥