ततो
निर्द्धूय
सहसा
शिरो
निश्वस्य
चासकृत् ।
पाणिं
पाणौ
विनिष्पिष्य
दन्तान्
कटकटाप्य
च ॥ १ ॥
लोचने
कोपसंरक्ते
वर्णं
पूर्वोचितं
जहत् ।
कोपाभिभूतः
सहसा
सन्तापमशुभं
गतः ॥ २ ॥
मनः
समीक्षमाणश्च
सूतो
दशरथस्य
सः ।
कम्पयन्निव
कैकेय्या
हृदयं
वाक्छरैः
शितैः ॥ ३ ॥
वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव
चाशुगैः ।
कैकेय्याः
सर्वमर्माणि
सुमन्त्रः
प्रत्यभाषत ॥ ४ ॥
भर्त्ता
सर्वस्य
जगतः
स्थावरस्य
चरस्य
च ।
न
ह्यकार्यतमं
किञ्चित्तव
देवीह
विद्यते ॥ ५ ॥
पतिघ्नीं
त्वामहं
मन्ये
कुलघ्नीमपि
चान्ततः ।
यन्महेन्द्रमिवाजय्यं
दुष्प्रकम्प्यमिवाचलम् ॥ ६ ॥
महोदधिमिवाक्षोभ्यं
सन्तापयसि
कर्मभिः ।
मावमंस्था
दशरथं
भर्त्तारं
वरदं
पतिम् ॥ ७ ॥
भर्तुरिच्छा
हि
नारीणां
पुत्रकोट्यां
विशिष्यते ।
यथावयो
हि
राज्यानि
प्राप्नुवन्ति
नृपक्षये ॥ ८ ॥
इक्ष्वाकुकुलनाथेऽस्मिंस्तल्लोपयितुमिच्छसि ।
राजा
भवतु
ते
पुत्रो
भरतः
शास्तु
मेदिनीम् ॥ ९ ॥
वयं
तत्र
गमिष्यामो
यत्र
रामो
गमिष्यति ।
न
हि
ते
विषये
कश्चिद्ब्राह्मणे
वस्तुमर्हति ॥ १० ॥
तादृशं
त्वममर्यादमद्य
कर्म
चिकीर्षसि ।
आश्चर्यमिव
पश्यामि
यस्यास्ते
वृत्तमीदृशम् ॥ ११ ॥
आचरन्त्या
न
विवृता
सद्यो
भवति
मेदिनी ।
महाब्रह्मर्षिजुष्टा
वा
ज्वलन्तो
भीमदर्शनाः ॥ १२ ॥
धिग्वाग्दण्डा
न
हिंसन्ति
रामप्रव्राजने
स्थिताम् ।
आम्रं
छित्त्वा
कुठारेण
निम्बं
परिचरेत्तु
यः ॥ १३ ॥
यश्चैनं
पयसा
सिञ्चेन्नैवास्य
मधुरो
भवेत् ।
अभिजातं
हि
ते
मन्ये
यथा
मातुस्तथैव
च ॥ १४ ॥
न
हि
निम्बात्
स्रवेत्
क्षौद्रं
लोके
निगदितं
वचः ।
तव
मातुरसद्ग्राहं
विद्मः
पूर्वं
यथा
श्रुतम् ॥ १५ ॥
सर्वभूतरुतं
तस्मात्
सञ्जज्ञे
वसुधाधिपः ।
तेन
तिर्यग्गतानां
च
भूतानां
विदितं
वचः ॥ १६ ॥
ततो
जृम्भस्य
शयने
विरुताद्भूरिवर्चसः ।
पितुस्ते
विदितो
भावः
स
तत्र
बहुधाऽहसत् ॥ १७ ॥
तत्र
ते
जननी
क्रुद्धा
मृत्युपाशमभीप्सती ।
हासं
ते
नृपतं
सौम्य
जिज्ञासामीति
चाब्रवीत् ॥ १८ ॥
नृपश्चोवाच
तां
देवीं
शंसामि
ते
यदि ।
ततो
मे
मरणं
सद्यो
भविष्यति
न
संशयः ॥ १९ ॥
माता
ते
पितरं
देवि
ततः
केकयमब्रवीत् ।
शंस
मे
जीव
वा
मा
वा
न
मामपहसिष्यसि ॥ २० ॥
प्रियया
च
तथोक्तः
सन्
केकयः
पृथिवीपतिः ।
तस्मै
तं
वरदायार्थं
कथयामास
तत्त्वतः ॥ २१ ॥
ततः
स
वरदः
साधू
राजानं
प्रत्यभाषत ।
म्रियतां
ध्वंसतां
वेयं
मा
कृथास्त्वं
महीपते ॥ २२ ॥
स
तच्छ्रुत्वा
वचस्तस्य
प्रसन्नमनसो
नृपः ।
मातरं
ते
निरस्याशु
विजहार
कुबेरवत् ॥ २३ ॥
तथा
त्वमपि
राजानं
दुर्ज्जनाचरिते
पथि ।
असद्ग्राहमिमं
मोहात्
कुरुषे
पापदर्शिनि ॥ २४ ॥
सत्यश्चाद्य
प्रवादोऽयं
लौकिकः
प्रतिभाति
मा ।
पितॄन्
समनुजायन्ते
नरा
मातरमङ्गनाः ॥ २५ ॥
नैवं
भव
गृहाणेदं
यदाह
वसुधाधिपः ।
भर्त्तुरिच्छामुपास्वेह
जनस्यास्य
गतिर्भव ॥ २६ ॥
मा
त्वं
प्रोत्साहिता
पापैर्देवराजसमप्रभम् ।
भर्त्तारं
लोकभर्त्तारमसद्धर्ममुपादधाः ॥ २७ ॥
न
हि
मिथ्या
प्रतिज्ञातं
करिष्यति
तवानघः ।
श्रीमान्
दशरथो
राजा
देवि
राजीवलोचनः ॥ २८ ॥
ज्येष्ठो
वदान्यः
कर्मण्यः
स्वधर्मपरिरक्षिता ।
रक्षिता
जीवलोकस्य
बली
रामोऽभिषिच्यताम् ॥ २९ ॥
परिवादो
हि
ते
देवि
महान्
लोके
चरिष्यति ।
यदि
रामो
वनं
याति
विहाय
पितरं
नृपम् ॥ ३० ॥
स
राज्यं
राघवः
पातु
भव
त्वं
विगतज्वरा ।
न
हि
ते
राघवादन्यः
क्षमः
पुरवरे
वसेत् ॥ ३१ ॥
रामे
हि
यौवराज्यस्थे
राजा
दशरथो
वनम् ।
प्रवेक्ष्यति
महेष्वासः
पूर्ववृत्तमनुस्मरन् ॥ ३२ ॥
इति
सान्त्वैश्च
तीक्ष्णैश्च
कैकेयीं
राजसंसदि ।
सुमन्त्रः
क्षोभयामास
भूय
एव
कृताञ्जलिः ॥ ३३ ॥
नैव
सा
क्षुम्यते
देवी
न
च
स्म
परिदूयते ।
न
चास्या
मुखवर्णस्य
विक्रिया
लक्ष्यते
तदा ॥ ३४ ॥