महामात्रवचः
श्रुत्वा
रामो
दशरथं
तदा ।
अभ्यभाषत
वाक्यं
तु
विनयज्ञो
विनीतवत् ॥ १ ॥
त्यक्तभोगस्य
मे
राजन्
वने
वन्येन
जीवतः ।
किं
कार्यमनुयात्रेण
त्यक्तसङ्गस्य
सर्वतः ॥ २ ॥
यो
हि
दत्त्वा
गजश्रेष्ठं
कक्ष्यायां
कुरुते
मनः ।
रज्जुस्नेहेन
किं
तस्य
त्यजतः
कुञ्जरोत्तमम् ॥ ३ ॥
तथा
मम
सतां
श्रेष्ठ
किं
ध्वजिन्या
जगत्पते ।
सर्वाण्येवानुजानामि
चीराण्येवानयन्तु
मे ॥ ४ ॥
खनित्रपिटके
चोभे
समानयत
गच्छत ।
चतुर्दश
वने
वासं
वर्षाणि
वसतो
मम ॥ ५ ॥
अथ
चीराणि
कैकेयी
स्वयमाहृत्य
राघवम् ।
उवाच
परिधत्स्वेति
जनौघे
निरपत्रपा ॥ ६ ॥
स
चीरे
पुरुषव्याघ्रः
कैकेय्याः
प्रतिगृह्य
ते ।
सूक्ष्मवस्त्रमवक्षिप्य
मुनिवस्त्राण्यवस्तह ॥ ७ ॥
लक्ष्मणश्चापि
तत्रैव
विहाय
वसने
शुभे ।
तापसाच्छादने
चैव
जग्राह
पितुरग्रतः ॥ ८ ॥
अथात्मपरिधानार्थं
सीता
कौशेयवासिनी ।
समीक्ष्य
चीरं
सन्त्रस्ता
पृषती
वागुरामिव ॥ ९ ॥
सा
व्यपत्रपमाणेव
प्रगृह्य
च
सुदुर्मनाः ।
कैकेयीकुशचीरे
ते
जानकी
शुभलक्षणा ॥ १० ॥
अश्रुसम्पूर्णनेत्रा
च
धर्मज्ञा
धर्मदर्शिनी ।
गन्धर्वराजप्रतिमं
भर्त्तारमिदमब्रवीत् ॥ ११ ॥
कथं
नु
चीरं
बध्नन्ति
मुनयो
वनवासिनः ।
इति
ह्यकुशला
सीता
सा
मुमोह
मुहुर्मुहुः ॥ १२ ॥
कृत्वा
कण्ठे
च
सा
चीरमेकमादाय
पाणिना ।
तस्थौ
ह्यकुशला
तत्र
व्रीडिता
जनकात्मजा ॥ १३ ॥
तस्यास्तत्
क्षिप्रमागम्य
रामो
धर्मभृतां
वरः ।
चीरं
बबन्ध
सीतायाः
कौशेयस्योपरि
स्वयम् ॥ १४ ॥
रामं
प्रेक्ष्य
तु
सीताया
बध्नन्तं
चीरमुत्तमम् ।
अन्तःपुरगता
नार्यो
मुमुचुर्वारि
नेत्रजम् ॥ १५ ॥
ऊचुश्च
परमायस्ता
रामं
ज्वलिततेजसम् ।
वत्स
नैवं
नियुक्तेयं
वनवासे
मनस्विनी ॥ १६ ॥
पितुर्वाक्यानुरोधेन
गतस्य
विजनं
वनम् ।
तावद्दर्शनमस्यां
नः
सफलं
भवतु
प्रभो ॥ १७ ॥
लक्ष्मणेन
सहायेन
वनं
गच्छस्व
पुत्रक ।
नेयमर्हति
कल्याणी
वस्तुं
तापसवद्वने ॥ १८ ॥
कुरु
नो
याचनां
पुत्र
सीता
तिष्ठतु
भामिनी ।
धर्मनित्यः
स्वयं
स्थातुं
न
हीदानीं
त्वमिच्छसि ॥ १९ ॥
तासामेवंविधा
वाचः
शृण्वन्
दशरथात्मजः ।
बबन्धैव
तदा
चीरं
सीतया
तुल्यशीलया ॥ २० ॥
चीरे
गृहीते
तु
तया
समीक्ष्य
नृपतेर्गुरुः ।
निवार्य
सीतां
कैकेयीं
वसिष्ठो
वाक्यमब्रवीत् ॥ २१ ॥
अतिप्रवृत्ते
दुर्मेधे
कैकेयि
कुलपांसनि ।
वञ्चयित्वा
च
राजानं
न
प्रमाणेऽवतिष्ठसे ॥ २२ ॥
न
गन्तव्यं
वनं
देव्या
सीतया
शीलवर्जिते ।
अनुष्ठास्यति
रामस्य
सीता
प्रकृतमासनम् ॥ २३ ॥
आत्मा
हि
दाराः
सर्वेषां
दारसङ्ग्रहवर्तिनाम् ।
आत्मेयमिति
रामस्य
पालयिष्यति
मेदिनीम् ॥ २४ ॥
अथ
यास्यति
वैदेही
वनं
रामेण
सङ्गता ।
वयमप्यनुयास्यामः
पुरं
चेदं
गमिष्यति ॥ २५ ॥
अन्तपालाश्च
यास्यन्ति
सदारो
यत्र
राघवः ।
सहोपजीव्यं
राष्ट्रं
च
पुरं
च
सपरिच्छदम् ॥ २६ ॥
भरतश्च
सशत्रुघ्नः
चीरवासा
वनेचरः ।
वने
वसन्तं
काकुत्स्थमनुवत्स्यति
पूर्वजम् ॥ २७ ॥
ततः
शून्यां
गतजनां
वसुधां
पादपैः
सह ।
त्वमेका
शाधि
दुर्वृत्ता
प्रजानामहिते
स्थिता ॥ २८ ॥
न
हि
तद्भविता
राष्ट्रं
यत्र
रामो
न
भूपतिः ।
तद्वनं
भविता
राष्ट्रं
यत्र
रामो
निवत्स्यति ॥ २९ ॥
न
ह्यदत्तां
महीं
पित्रा
भरतः
शास्तुमर्हति ।
त्वयि
वा
पुत्रवद्वस्तुं
यदि
जातो
महीपतेः ॥ ३० ॥
यद्यपि
त्वं
क्षितितलाद्गगनं
चोत्पतिष्यसि ।
पितृवंशचरित्रज्ञः
सोऽन्यथा
न
करिष्यति ॥ ३१ ॥
तत्त्वया
पुत्रगर्द्धिन्या
पुत्रस्य
कृतमप्रियम् ।
लोके
हि
न
स
विद्येत
यो
न
राममनुव्रतः ॥ ३२ ॥
द्रक्ष्यस्यद्यैव
कैकेयि
पशुव्यालमृगद्विजान् ।
गच्छतः
सह
रामेण
पादपांश्च
तदुन्मुखान् ॥ ३३ ॥
अथोत्तमान्याभरणानि
देवि
देहि
स्नुषायै
व्यपनीय
चीरम् ।
न
चीरमस्याः
प्रविधीयतेति
न्यवारयत्तद्वसनं
वसिष्ठः ॥ ३४ ॥
एकस्य
रामस्य
वने
निवासस्त्वया
वृतः
केकयराजपुत्रि ।
विभूषितेयं
प्रतिकर्मनित्या
वसत्वरण्ये
सह
राघवेण ॥ ३५ ॥
यानैश्च
मुख्यैः
परिचारकैश्च
सुसंवृता
गच्छतु
राजपुत्री ।
वस्त्रैश्च
सर्वैः
सहितैर्विधानैर्नेयं
वृता
ते
वरसम्प्रदाने ॥ ३६ ॥
तस्मिंस्तथा
जल्पति
विप्रमुख्ये
गुरौ
नृपस्याप्रतिमप्रभावे ।
नैव
स्म
सीता
विनिवृत्तभावा
प्रियस्य
भर्तुः
प्रतिकारकामा ॥ ३७ ॥