तस्यां
चीरं
वसानायां
नाथवत्यामनाथवत् ।
प्रचुक्रोश
जनः
सर्वो
धिक्
त्वां
दशरथं
त्विति ॥ १ ॥
तेन
तत्र
प्रणादेन
दुःखितः
स
महीपतिः ।
चिच्छेद
जीविते
श्रद्धां
धर्मे
यशसि
चात्मनः ॥ २ ॥
स
निश्वस्योष्णमैक्ष्वाकस्तां
भार्यामिदमब्रवीत् ।
कैकेयि
कुशचीरेण
न
सीता
गन्तुमर्हति ॥ ३ ॥
सुकुमारी
च
बाला
च
सततं
च
सुखोचिता ।
नेयं
वनस्य
योग्येति
सत्यमाह
गुरुर्मम ॥ ४ ॥
इयं
हि
कस्यापकरोति
किञ्चित्
तपस्विनी
राजवरस्य
कन्या ।
या
चीरमासाद्य
जनस्य
मध्ये
स्थिता
विसञ्ज्ञा
श्रमणीव
काचित् ॥ ५ ॥
चीराण्यपास्याज्जनकस्य
कन्या
नेयं
प्रतिज्ञा
मम
दत्तपूर्वा ।
यथासुखं
गच्छतु
राजपुत्री
वनं
समग्रा
सह
सर्वरत्नैः ॥ ६ ॥
अजीवनार्हेण
मया
नृशंसा
कृता
प्रतिज्ञा
नियमेन
तावत् ।
त्वया
हि
बाल्यात्
प्रतिपन्नमेतत्तन्मां
दहेद्वेणुमिवात्मपुष्पम् ॥ ७ ॥
रामेण
यदि
ते
पापे
किञ्चित्कृतमशोभनम् ।
अपकारः
क
इह
ते
वैदेह्या
दर्शितोऽथ
मे ॥ ८ ॥
मृगीवोत्फुल्लनयना
मृदुशीला
तपस्विनी ।
अपकारं
कमिह
ते
करोति
जनकात्मजा ॥ ९ ॥
ननु
पर्याप्तमेतत्ते
पापे
रामविवासनम् ।
किमेभिः
कृपणैर्भूयः
पातकैरपि
ते
कृतैः ॥ १० ॥
प्रतिज्ञातं
मया
तावत्त्वयोक्तं
देवि
शृण्वता ।
रामं
यदभिषेकाय
त्वमिहागतमब्रवीः ॥ ११ ॥
तत्त्वेतत्
समतिक्रम्य
निरयं
गन्तुमिच्छसि ।
मैथिलीमपि
या
हि
त्वमीक्षसे
चीरवासिनीम् ॥ १२ ॥
इतीव
राजा
विपलन्
महात्मा
शोकस्य
नान्तं
स
ददर्श
किञ्चित् ।
भृशातुरत्वाच्च
पपात
भूमौ
तेनैव
पुत्रव्यसने
निमग्नः ॥ १३ ॥
एवं
ब्रुवन्तं
पितरं
रामः
संप्रस्थितो
वनम् ।
अवाक्छिरसमासीनमिदं
वचनमब्रवीत् ॥ १४ ॥
इयं
धार्मिक
कौसल्या
मम
माता
यशस्विनी ।
वृद्धा
चाक्षुद्रशीला
च
न
च
त्वां
देव
गर्हते ॥ १५ ॥
मया
विहीनां
वरद
प्रपन्नां
शोकसागरम् ।
अदृष्टपूर्वव्यसनां
भूयः
सम्मन्तुमर्हसि ॥ १६ ॥
पुत्रशोकं
यथा
नर्च्छेत्त्वया
पूज्येन
पूजिता ।
मां
हि
सञ्चिन्तयन्तीयमपि
जीवेत्तपस्विनी ॥ १७ ॥
इमां
महेन्द्रोपम
जातगर्धिनीं
तथा
विधातु
जननीं
ममार्हसि ।
यथा
वनस्थे
मयि
शोककर्शिता
न
जीवितं
न्यस्य
यमक्षयं
व्रजेत् ॥ १८ ॥