रामस्य
तु
वचः
श्रुत्वा
मुनिवेषधरं
च
तम् ।
समीक्ष्य
सह
भार्याभी
राजा
विगतचेतनः ॥ १ ॥
नैनं
दुःखेन
सन्तप्तः
प्रत्यवैक्षत
राघवम् ।
न
चैनमभिसम्प्रेक्ष्य
प्रत्यभाषत
दुर्मनाः ॥ २ ॥
स
मुहूर्तमिवासञ्ज्ञो
दुःखितश्च
महीपतिः ।
विललाप
महाबाहू
राममेवानुचिन्तयन् ॥ ३ ॥
मन्ये
खलु
मया
पूर्वं
विवत्सा
बहवः
कृताः ।
प्राणिनो
हिंसिता
वापि
तस्मादिदमुपस्थितम् ॥ ४ ॥
न
त्वेवानागते
काले
देहाच्च्यवति
जीवितम् ।
कैकेय्या
क्लिश्यमानस्य
मृत्युर्मम
न
विद्यते ॥ ५ ॥
योऽहं
पावकसङ्काशं
पश्यामि
पुरतः
स्थितम् ।
विहाय
वसने
सूक्ष्मे
तापसाच्छादमात्मजम् ॥ ६ ॥
एकस्याः
खलु
कैकेय्याः
कृतेऽयं
क्लिश्यते
जनः ।
स्वार्थे
प्रयतमानायाः
संश्रित्य
निकृतिं
त्विमाम् ॥ ७ ॥
एवमुक्त्वा
तु
वचनं
बाष्पेण
पिहितेन्द्रियः ।
रामेति
सकृदेवोक्त्वा
व्याहर्तुं
न
शशाक
ह ॥ ८ ॥
सञ्ज्ञां
तु
प्रतिलभ्यैव
मुहूर्त्तात्
स
महीपतिः ।
नेत्राभ्यामश्रुपूर्णाभ्यां
सुमन्त्रमिदमब्रवीत् ॥ ९ ॥
औपवाह्यं
रथं
युक्त्वा
त्वमायाहि
हयोत्तमैः ।
प्रापयैनं
महाभागमितो
जनपदात्परम् ॥ १० ॥
एवं
मन्ये
गुणवतां
गुणानां
फलमुच्यते ।
पित्रा
मात्रा
च
यत्साधुर्वीरो
निर्वास्यते
वनम् ॥ ११ ॥
राज्ञो
वचनमाज्ञाय
सुमन्त्रः
शीघ्रविक्रमः ।
योजयित्वाऽऽययौ
तत्र
रथमश्वैरलङ्कृतम् ॥ १२ ॥
तं
रथं
राजपुत्राय
सूतः
कनकभूषितम् ।
आचचक्षेऽञ्जलिं
कृत्वा
युक्तं
परमवाजिभिः ॥ १३ ॥
राजा
सत्वरमाहूय
व्यापृतं
वित्तसञ्चये ।
उवाच
देशकालज्ञं
निश्चितं
सर्वतः
शुचिम् ॥ १४ ॥
वासांसि
च
महार्हाणि
भूषणानि
वराणि
च ।
वर्षाण्येतानि
सङ्ख्याय
वैदेह्याः
क्षिप्रमानय ॥ १५ ॥
नरेन्द्रेणैवमुक्तस्तु
गत्वा
कोशगृहं
ततः ।
प्रायच्छत्
सर्वमाहृत्य
सीतायै
सममेव
तत् ॥ १६ ॥
सा
सुजाता
सुजातानि
वैदेही
प्रस्थिता
वनम् ।
भूषयामास
गात्राणि
तैर्विचित्रैर्विभूषणैः ॥ १७ ॥
व्यराजयत
वैदेही
वेश्म
तत्
सुविभूषिता ।
उद्यतोऽशुमतः
काले
खं
प्रभेव
विवस्वतः ॥ १८ ॥
तां
भुजाभ्यां
परिष्वज्य
श्वश्रूर्वचनमब्रवीत् ।
अनाचरन्तीं
कृपणं
मूर्ध्न्युपाघ्राय
मैथिलीम् ॥ १९ ॥
असत्यः
सर्वलोकेऽस्मिन्
सततं
सत्कृताः
प्रियैः ।
भर्त्तारं
नानुमन्यन्ते
विनिपातगतं
स्त्रियः ॥ २० ॥
एष
स्वभावो
नारीणमनुभूय
पुरा
सुखम् ।
अल्पामप्या
पदं
प्राप्य
दुष्यन्ति
प्रजहत्यपि ॥ २१ ॥
असत्यशीला
विकृता
दुर्ग्राह्यहृदयाः
सदा ।
युवत्यः
पापसङ्कल्पाः
क्षणमात्राद्विरागिणः ॥ २२ ॥
न
कुलं
न
कृतं
विद्यां
न
दत्तं
नापि
सङ्ग्रहम् ।
स्त्रीणां
गृह्णाति
हृदयमनित्यहृदया
हि
ताः ॥ २३ ॥
साध्वीनां
हि
स्थितानां
तु
शीले
सत्ये
श्रुते
शमे ।
स्त्रीणां
पवित्रं
परमं
पतिरेको
विशिष्यते ॥ २४ ॥
स
त्वया
नावमन्तव्यः
पुत्रः
प्रव्राजितो
मम ।
तव
दैवतमस्त्वेष
निर्द्धनः
सधनोपि
वा ॥ २५ ॥
विज्ञाय
वचनं
सीता
तस्या
धर्मार्थसंहितम् ।
कृताञ्जलिरुवाचेदं
श्वश्रूमभिमुखे
स्थिताम् ॥ २६ ॥
करिष्ये
सर्वमेवाहमार्या
यदनुशास्ति
माम् ।
अभिज्ञास्मि
यथा
भर्तुवर्त्तितव्यं
श्रुतं
च
मे ॥ २७ ॥
न
मामसज्जनेनार्या
समानयितुमर्हति ।
धर्माद्विचलितुं
नाहमलं
चन्द्रादिव
प्रभा ॥ २८ ॥
नातन्त्री
वाद्यते
वीणा
नाचक्रो
वर्त्तते
रथः ।
नापतिः
सुखमेधेत
या
स्यादपि
शतात्मजा ॥ २९ ॥
मितं
ददाति
हि
पिता
मितं
माता
मितं
सुतः ।
अमितस्य
हि
दातारं
भर्तारं
का
न
पूजयेत् ॥ ३० ॥
साहमेवङ्गता
श्रेष्ठाश्रुतधर्मपरावरा ।
आर्ये
किमवमन्येऽहं
स्त्रीणां
भर्त्ता
हि
दैवतम् ॥ ३१ ॥
सीताया
वचनं
श्रुत्वा
कौसल्या
हृदयङ्गमम् ।
शुद्धसत्त्वा
मुमोचाश्रु
सहसा
दुःखहर्षजम् ॥ ३२ ॥
तां
प्राञ्जलिरभिक्रम्य
मातृमध्येऽतिसत्कृताम् ।
रामः
परमधर्मात्मा
मातरं
वाक्यमब्रवीत् ॥ ३३ ॥
अम्ब
मा
दुःखिता
भूस्त्वं
पश्य
त्वं
पितरं
मम ।
क्षयो
हि
वनवासस्य
क्षिप्रमेव
भविष्यति ॥ ३४ ॥
सुप्तायास्ते
गमिष्यन्ति
नव
वर्षाणि
पञ्च
च ।
सा
समग्रमिह
प्राप्तं
मां
द्रक्ष्यसि
सुहृद्वृतम् ॥ ३५ ॥
एतावदभिनीतार्थमुक्त्वा
स
जननीं
वचः ।
त्रयश्शतशतार्द्धाश्च
ददर्शावेक्ष्य
मातरः ॥ ३६ ॥
ताश्चापि
स
तथैवार्ता
मातॄर्दशरथात्मजः ।
धर्मयुक्तमिदं
वाक्यं
निजगाद
कृताञ्जलिः ॥ ३७ ॥
संवासात्
परुषं
किञ्चिदज्ञानाद्वापि
यत्कृतम् ।
तन्मे
समनुजानीत
सर्वाश्चामन्त्रयामि
वः ॥ ३८ ॥
वचनं
राघवस्यैतद्धर्मयुक्तं
समाहितम् ।
शुश्रुवुस्ताः
स्त्रियः
सर्वाः
शोकोपहतचेतसः ॥ ३९ ॥
जज्ञेऽथ
तासां
सन्नादः
क्रौञ्चीनामिव
निस्वनः ।
मानवेन्द्रस्य
भार्याणामेवं
वदति
राघवे ॥ ४० ॥
मुरजपणमवेघघोषवद्दशरथवेश्म
बभूव
यत्
पुरा ।
विलपितपरिदेवनाकुलं
व्यसनगतं
तदभूत्
सुदुःखितम् ॥ ४१ ॥