अथ
रामश्च
सीता
च
लक्ष्मणश्च
कृताञ्जलिः ।
उपसङ्गृह्य
राजानं
चक्रुर्दीनाः
प्रदक्षिणम् ॥ १ ॥
तं
चापि
समनुज्ञाप्य
धर्मज्ञः
सीतया
सह ।
राघवः
शोकसम्मूढो
जननीमभ्यवादयत् ॥ २ ॥
अन्वक्षं
लक्ष्मणो
भ्रातुः
कौसल्यामभ्यवादयत् ।
अथ
मातुः
सुमित्राया
जग्राह
चरणौ
पुनः ॥ ३ ॥
तं
वन्दमानं
रुदती
माता
सौमित्रिमब्रवीत् ।
हितकामा
महाबाहुं
मूर्ध्न्युपाघ्राय
लक्ष्मणम् ॥ ४ ॥
सृष्टस्त्वं
वनवासाय
स्वनुरक्तः
सुहृज्जने ।
रामे
प्रमादं
मा
कार्षीः
पुत्र
भ्रातरि
गच्छति ॥ ५ ॥
व्यसनी
वा
समृद्धो
वा
गतिरेष
तवानघ ।
एष
लोके
सतां
धर्मो
यज्ज्येष्ठवशगो
भवेत् ॥ ६ ॥
इदं
हि
वृत्तमुचितं
कुलस्यास्य
सनातनम् ।
दानं
दीक्षा
च
यज्ञेषु
तनुत्यागो
मृधेषु
च ॥ ७ ॥
लक्ष्मणं
त्वेवमुक्त्वा
सा
संसिद्धं
प्रियराघवम् ।
सुमित्रा
गच्छगच्छेति
पुनःपुनरुवाच
तम् ॥ ८ ॥
अयोध्यामटवीं
विद्धि
गच्छ
तात
यथासुखम् ।
ततः
सुमन्त्रः
काकुत्स्थं
प्राञ्चलिर्वाक्यमब्रवीत् ॥ ९ ॥
विनीतो
विनयज्ञश्च
मातलिर्वासवं
यथा ।
रथमारोह
भद्रं
ते
राजपुत्र
महायशः ॥ १० ॥
क्षिप्रं
त्वां
प्रापयिष्यामि
यत्र
मां
राम
वक्ष्यसि ।
चतुर्दश
हि
वर्षाणि
वस्तव्यानि
वने
त्वया ॥ ११ ॥
तान्युपक्रमितव्यानि
यानि
देव्याऽसि
चोदितः ।
तं
रथं
सूर्यसङ्काशं
सीता
हृष्टेन
चेतसा ॥ १२ ॥
आरुरोह
वरारोहा
कृत्वालङ्कारमात्मनः ।
तमारुरुहतुस्तूर्णं
भ्रातरौ
रामलक्ष्मणौ ॥ १३ ॥
वनवासं
हि
सङ्ख्याय
वासांस्याभरणानि
च ।
भर्तारमनुगच्छन्त्यै
सीतायै
श्वशुरो
ददौ ॥ १४ ॥
तथैवायुधजालानि
भ्रातृभ्यां
कवचानि
च ।
रथोपस्थे
प्रतिन्यस्य
सचर्म
कठिनं
च
तत् ॥ १५ ॥
सीतातृतीयानारूढान्
दृष्ट्वा
धृष्टमचोदयत् ।
सुमन्त्रः
संमतानश्वान्
वायुवेगसमान्
जवे ॥ १६ ॥
प्रतियाते
महारण्यं
चिररात्राय
राघवे ।
बभूव
नगरे
मूर्च्छा
बलमूर्च्छा
जनस्य
च ॥ १७ ॥
तत्समाकुलसम्भ्रान्तं
मत्तसङ्कुपितद्विपम् ।
हयशिञ्जितनिर्घाषं
पुरमासीन्महास्वनम् ॥ १८ ॥
ततः
सबालवृद्धा
सा
पुरी
परमपीडिता ।
राममेवाभिदुद्राव
घर्मार्त्ता
सलिलं
यथा ॥ १९ ॥
पार्श्वतः
पृष्ठतश्चापि
लम्बमानास्तदुन्मुखाः ।
बाष्पपूर्णमुखाः
सर्वे
तमूचुर्भृशनिस्वनाः ॥ २० ॥
संयच्छ
वाजिनां
रश्मीन्
सूत
याहि
शनैः
शनैः ।
मुखं
द्रक्ष्याम
रामस्य
दुर्दर्शं
नो
भविष्यति ॥ २१ ॥
आयसं
हृदयं
नूनं
राममातुरसंशयम् ।
यद्देवगर्भप्रतिमे
वनं
यानि
न
भिद्यते ॥ २२ ॥
कृतकृत्या
हि
वैदेही
छायेवानुगता
पतिम् ।
न
जहाति
रता
धर्मे
मेरुमर्कप्रभा
यथा ॥ २३ ॥
अहो
लक्ष्मण
सिद्धार्थः
सततं
प्रियवादिनम् ।
भ्रातरं
देवसङ्काशं
यस्त्वं
परिचरिष्यसि ॥ २४ ॥
महत्येषा
हि
ते
सिद्धिरेष
चाभ्युदयो
महान् ।
एष
स्वर्गस्य
मार्गश्च
यदेनमनुगच्छसि ॥ २५ ॥
एवं
वदन्तस्ते
सोढुं
न
शेकुर्बाष्पमागतम् ।
नरास्तमनुगच्छन्तः
प्रियमिक्ष्वाकुनन्दनम् ॥ २६ ॥
अथ
राजा
वृतः
स्त्रीभिर्दीनाभिर्दीनचेतनः ।
निर्ज्जगाम
प्रियं
पुत्रं
द्रक्ष्यामीति
ब्रुवन्
गृहात् ॥ २७ ॥
शुश्रुवे
चाग्रतः
स्त्रीणां
रुदन्तीनां
महास्वनः ।
यथा
नादः
करेणूनां
बद्धे
महति
कुञ्जरे ॥ २८ ॥
पिता
हि
राजा
काकुत्स्थः
श्रीमान्
सन्नस्तदाभवत् ।
परिपूर्णः
शशी
काले
ग्रहेणोपप्लुतो
यथा ॥ २९ ॥
स
च
श्रीमानचिन्त्यात्मा
रामो
दशरथात्मजः ।
सूतं
सञ्चोदयामास
त्वरितं
वाह्यतामिति ॥ ३० ॥
रामो
याहीति
सूतं
तं
तिष्ठेति
स
जनस्तदा ।
उभयं
नाशकत्
सूतं
कर्तुमध्वनि
चोदितः ॥ ३१ ॥
निर्गच्छति
महाबाहौ
रामे
पौरजनाश्रुभिः ।
पतितैरभ्यवहितं
प्रशशाम
महीरजः ॥ ३२ ॥
रुदिताश्रुपरिद्यूनं
हाहाकृतमचेतनम् ।
प्रयाणे
राघवस्यासीत्
पुरं
परमपीडितम् ॥ ३३ ॥
सुस्राव
नयनैः
स्त्रीणामास्रमायाससम्भवम् ।
मीनसङ्क्षोभचलितैः
सलिलं
पङ्कजैरिव ॥ ३४ ॥
दृष्ट्वा
तु
नृपतिः
श्रीमानेकचित्तगतं
पुरम् ।
निपपातैव
दुःखेन
हतमूल
इव
द्रुमः ॥ ३५ ॥
ततो
हलहलाशब्दो
जज्ञे
रामस्य
पृष्ठतः ।
नराणां
प्रेक्ष्य
राजानं
सीदन्तं
भृशदुःखितम् ॥ ३६ ॥
हा
रामेति
जनाः
केचिद्राममातेति
चापरे ।
अन्तःपुरं
समृद्धं
च
क्रोशन्तः
पर्यदेवयन् ॥ ३७ ॥
अन्वीक्षमाणो
रामस्तु
विषण्णं
भ्रान्तचेतसम् ।
राजानं
मातरं
चैव
ददर्शानुगतौ
पथि ॥ ३८ ॥
स
बद्ध
इव
पाशेन
किशोरो
मातरं
यथा ।
धर्मपाशेन
सङ्क्षिप्तः
प्रकाशं
नाभ्युदैक्षत ॥ ३९ ॥
पदातिनौ
च
यानार्हावदुःखार्हौ
सुखोचितौ ।
दृष्ट्वा
सञ्चोदयामास
शीघ्रं
याहीति
सारथिम् ॥ ४० ॥
न
हि
तत्
पुरुषव्याघ्रो
दुःखजं
दर्शनं
पितुः ।
मातुश्च
सहितुं
शक्तस्तोत्रार्दित
इव
द्विपः ॥ ४१ ॥
प्रत्यगारमिवायान्ती
वत्सला
वत्सकारणात् ।
बद्धवत्सा
यथा
धेनू
राममाताऽभ्यधावत ॥ ४२ ॥
तथा
रुदन्तीं
कौसल्यां
रथं
तमनुधावतीम् ।
क्रोशन्तीं
रामरामेति
हा
सीते
लक्ष्मणेति
च ॥ ४३ ॥
रामलक्ष्मणसीतार्थं
स्रवन्तीं
वारि
नेत्रजम् ।
असकृत्
प्रैक्षत
सतां
नृत्यन्तीमिव
मातरम् ॥ ४४ ॥
तिष्ठेति
राजा
चुक्रोश
याहियाहीति
राघवः ।
सुमन्त्रस्य
बभूवात्मा
चक्रयोरिव
चान्तरा ॥ ४५ ॥
नाश्रौषमिति
राजानमुपालब्धोपि
वक्ष्यसि ।
चिरं
दुःखस्य
पापिष्ठमिति
रामस्तमब्रवीत् ॥ ४६ ॥
रामस्य
स
वचः
कुर्वन्ननुज्ञाप्य
च
तं
जनम् ।
व्रजतोपि
हयान्
शीघ्रं
चोदयामास
सारथिः ॥ ४७ ॥
न्यवर्त्तत
जनो
राज्ञो
रामं
कृत्वा
प्रदक्षिणम् ।
मनसाप्यश्रुवेगैश्च
न
न्यवर्त्तत
मानुषम् ॥ ४८ ॥
यमिच्छेत्
पुनरायान्तं
नैनं
दूरमनुव्रजेत् ।
इत्यमात्या
महाराजमूचुर्दशरथं
वचः ॥ ४९ ॥
तेषां
वचः
सर्वगुणोपपन्नं
प्रस्विन्नगात्रः
प्रविषण्णरूपः ।
निशम्य
राजा
कृपणः
सभार्यो
व्यवस्थितस्तं
सुतमीक्षमाणः ॥ ५० ॥