तस्मिंस्तु
पुरुषव्याघ्रे
विनिर्याते
कृताञ्जलौ ।
आर्तशब्दोऽथ
सञ्जज्ञे
स्त्रीणामन्तःपुरे
महान् ॥ १ ॥
अनाथस्य
जनस्यास्य
दुर्बलस्य
तपस्विनः ।
यो
गतिः
शरणं
चासीत्
स
नाथः
क्वनु
गच्छति ॥ २ ॥
न
क्रुद्ध्यत्यभिशप्तोपि
क्रोधनीयानि
वर्जयन् ।
क्रुद्धान्
प्रसादयन्
सर्वान्
समदुःखः
क्वचिद्गतः ॥ ३ ॥
कौसल्यायां
महातेजा
यथा
मातरि
वर्तते ।
तथा
यो
वर्त्ततेऽस्मासु
महात्मा
क्वनु
गच्छति ॥ ४ ॥
कैकेय्या
क्लिश्यमानेन
राज्ञा
सञ्चोदितो
वनम् ।
परित्राता
जनस्यास्य
जगतः
क्वनु
गच्छति ॥ ५ ॥
अहो
निश्चेतनो
राजा
जीवलोकस्य
सम्प्रियम् ।
धर्म्यं
सत्यव्रतं
रामं
वनवासे
प्रवत्स्यति ॥ ६ ॥
इति
सर्वा
महिष्यस्ता
विवत्सा
इव
धेनवः ।
रुरुदुश्चैव
दुःखार्त्ताः
सस्वरं
च
विचुक्रुशुः ॥ ७ ॥
स
तमन्तःपुरे
घोरमार्तशब्दं
महीपतिः ।
पुत्रशोकाभिसन्तप्तः
श्रुत्वा
चासीत्
सुदुःखितः ॥ ८ ॥
नाग्निहोत्राण्यहूयन्त
नापचन्
गृहमेधिनः ।
अकुर्वन्नप्रजाः
कार्यं
सूर्यश्चान्तरधीयत ॥ ९ ॥
व्यसृजन्
कवलान्नागा
गावो
वत्सान्न
पाययन् ।
पुत्रं
प्रथमजं
लब्ध्वा
जननीनाभ्यनन्दत ॥ १० ॥
त्रिशङ्कुर्लोहिताङ्गश्च
बृहस्पतिबुधावपि ।
दारुणाः
सोममभ्येत्य
ग्रहाः
सर्वे
व्यवस्थिताः ॥ ११ ॥
नक्षत्राणि
गतार्चीषि
ग्रहाश्च
गततेजसः ।
विशाखास्तु
सधूमाश्च
नभसि
प्रचकाशिरे ॥ १२ ॥
कालिकानिलवेगेन
महोदधिरिवोत्थितः ।
रामे
वनं
प्रव्रजिते
नगरं
प्रचचाल
तत् ॥ १३ ॥
दिशः
पर्याकुलाः
सर्वास्तिमिरेणेव
संवृताः ।
न
ग्रहो
नापि
नक्षत्रं
प्रचकाशे
न
किञ्चन ॥ १४ ॥
अकस्मान्नागरः
सर्वो
जनो
दैन्यमुपागमत् ।
आहारे
वा
विहारे
वा
न
कश्चिदकरोन्मनः ॥ १५ ॥
शोकपर्यायसन्तप्तः
सततं
दीर्घमुच्छ्वसन् ।
अयोध्यायां
जनः
सर्वः
शुशोच
जगतीपतिम् ॥ १६ ॥
बाष्पपर्याकुलमुखो
राजमार्गगतो
जनः ।
न
हृष्टो
लक्ष्यते
कश्चित्सर्वः
शोकपरायणः ॥ १७ ॥
न
वाति
पवनः
शीतो
न
शशी
सौम्यदर्शनः ।
न
सूर्यस्तपते
लोकं
सर्वं
पर्याकुलं
जगत् ॥ १८ ॥
अनर्थिनः
सुताः
स्त्रीणां
भर्त्तारो
भ्रातरस्तथा ।
सर्वे
सर्वं
परित्यज्य
राममेवान्वचिन्तयन् ॥ १९ ॥
ये
तु
रामस्य
सुहृदः
सर्वे
ते
मूढचेतसः ।
शोकभारेण
चाक्रान्ताः
शयनं
न
जहुस्तदा ॥ २० ॥
ततस्त्वयोध्या
रहिता
महात्मना
पुरन्दरेणेव
मही
सपर्वता ।
चचाल
घोरं
भयशोकपीडिता
सनागयोधाश्वगणा
ननाद
च ॥ २१ ॥