यावत्तु
निर्यतस्तस्य
रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत्सञ्जहारात्मचक्षुषी ॥ १ ॥
यावद्राजा
प्रियं
पुत्रं
पश्यत्यत्यन्तधार्मिकम् ।
तावद्व्यवर्द्धतेवास्य
धरण्यां
पुत्रदर्शने ॥ २ ॥
न
पश्यति
रजोप्यस्य
यदा
रामस्य
भूमिपः ।
तदार्तश्च
विषण्णश्च
पपात
धरणीतले ॥ ३ ॥
तस्य
दक्षिणमन्वागात्
कौसल्या
बाहुमङ्गना ।
वामं
चास्यान्वगात्
पार्श्वं
कैकेयी
भरतप्रिया ॥ ४ ॥
तां
नयेन
च
सम्पन्नो
धर्मेण
विनयेन
च ।
उवाच
राजा
कैकेयीं
समीक्ष्य
व्यथितेन्द्रियः ॥ ५ ॥
कैकेयि
मा
ममाङ्गानि
स्प्राक्षीस्त्वं
दुष्टचारिणी ।
न
हि
त्वां
द्रष्टुमिच्छामि
न
भार्या
न
च
बान्धवी ॥ ६ ॥
ये
च
त्वामनुजीवन्ति
नाहं
तेषां
न
ते
मम ।
केवलार्थपरां
हि
त्वां
त्यक्तधर्मां
त्यजाम्यहम् ॥ ७ ॥
अगृह्णां
यच्च
ते
पाणिमग्निं
पर्यणयं
च
यत् ।
अनुजानामि
तत्सर्वमस्मिंल्लोके
परत्र
च ॥ ८ ॥
भरतश्चेत्
प्रतीतः
स्याद्राज्यं
प्राप्येदमव्ययम् ।
यन्मे
स
दद्यात्प्रीत्यर्थं
मां
मा
तद्दत्तमागमत् ॥ ९ ॥
अथ
रेणुसमुध्वस्तं
तमुत्थाप्य
नराधिपम् ।
न्यवर्त्तत
तदा
देवी
कौसल्या
शोककर्शिता ॥ १० ॥
हत्वेव
ब्राह्मणं
कामात्
स्पृष्ट्वाग्निमिव
पाणिना ।
अन्वतप्यत
धर्मात्मा
पुत्रं
सञ्चिन्त्य
तापसम् ॥ ११ ॥
निवृत्त्यैव
निवृत्त्यैव
सीदतो
रथवर्त्मसु ।
राज्ञो
नातिबभौ
रूपं
ग्रस्तस्यांशुमतो
यथा ॥ १२ ॥
विललाप
च
दुःखार्त्तः
प्रियं
पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं
बुद्ध्वा
पुत्रमथाब्रवीत् ॥ १३ ॥
वाहनानां
च
मुख्यानां
वहतां
त
ममात्मजम् ।
पदानि
पथि
दृश्यन्ते
स
महात्मा
न
दृश्यते ॥ १४ ॥
यः
सुखेषूपधानेषु
शेते
चन्दनरूषितः ।
वीज्यमानो
महार्हाभिः
स्त्रीभिर्मम
सुतोत्तमः ॥ १५ ॥
स
नूनं
क्वचिदेवाद्य
वृक्षमूलमुपाश्रितः ।
काष्ठं
वा
यदि
वाश्मानमुपधाय
शयिष्यते ॥ १६ ॥
उत्थास्यति
च
मेदिन्याः
कृपणः
पांसुकुण्ठितः ।
विनिश्वसन्
प्रस्रवणात्
करेणूनामिवर्षभः ॥ १७ ॥
द्रक्ष्यन्ति
नूनं
पुरुषा
दीर्घबाहुं
वनेचराः ।
राममुत्थाय
गच्छन्तं
लोकनाथमनाथवत् ॥ १८ ॥
सा
नूनं
जनकस्येष्टा
सुता
सुखसदोचिता ।
कण्टकाक्रमणाक्रान्ता
वनमद्य
गमिष्यति ॥ १९ ॥
अनभिज्ञा
वनानां
सा
नूनं
भयमुपैष्यति ।
श्वापदानर्दितं
श्रुत्वा
गम्भीरं
रोमहर्षणम् ॥ २० ॥
सकामा
भव
कैकेयि
विधवा
राज्यमावस ।
न
हि
तं
पुरुषव्याघ्रं
विना
जीवितुमुत्सहे ॥ २१ ॥
इत्येवं
विलपन्
राजा
जनौघेनाभिसंवृतः ।
अपस्नात
इवारिष्टं
प्रविवेश
पुरोत्तमम् ॥ २२ ॥
शून्यचत्वरवेश्मान्तां
संवृतापणदेवताम् ।
क्लान्तदुर्बलदुःखार्त्तां
नात्याकीर्णमहापथाम् ॥ २३ ॥
तामवेक्ष्य
पुरीं
सर्वां
राममेवानुचिन्तयन् ।
विलपन्
प्राविशद्राजा
गृहं
सूर्य
इवाम्बुदम् ॥ २४ ॥
महाह्रदमिवाक्षोभ्यं
सुपर्णेन
हृतोरगम् ।
रामेण
रहितं
वेश्म
वैदेह्या
लक्ष्मणेन
च ॥ २५ ॥
अथ
गद्गदशब्दस्तु
विलपन्
मनुजाधिपः ।
उवाच
मृदु
मन्दार्थं
वचनं
दीनमस्वरम् ॥ २६ ॥
कौसल्याया
गृहं
शीघ्रं
राममातुर्नयन्तु
माम् ।
न
ह्यन्यत्र
ममाश्वासो
हृदयस्य
भविष्यति ॥ २७ ॥
इति
ब्रुवन्तं
राजानमनयन्
द्वारदर्शिनः ।
कौसल्याया
गृहं
तत्र
न्यवेश्यत
विनीतवत् ॥ २८ ॥
ततस्तस्य
प्रविष्टस्य
कौसल्याया
निवेशनम् ।
अधिरुह्यापि
शयनं
बभूव
लुलितं
मनः ॥ २९ ॥
पुत्रद्वयविहीनं
च
स्नुषयापि
विवर्जितम् ।
अपश्यद्भवनं
राजा
नष्टचन्द्रमिवाम्बरम् ॥ ३० ॥
तच्च
दृष्ट्वा
महाराजो
भुजमुद्यम्य
वीर्यवान् ।
उच्चैः
स्वरेण
चुक्रोश
हा
राघव
जहासि
माम् ॥ ३१ ॥
सुखिता
बत
तं
कालं
जीविष्यन्ति
नरोत्तमाः ।
परिष्वजन्तो
ये
रामं
द्रक्ष्यन्ति
पुनरागतम् ॥ ३२ ॥
अथ
रात्र्यां
प्रपन्नायां
कालरात्र्यामिवात्मनः ।
अर्द्धरात्रे
दशरथः
कौसल्यामिदमब्रवीत् ॥ ३३ ॥
रामं
मेऽनुगता
दृष्टिरद्यापि
न
निवर्त्तते ।
न
त्वा
पश्यामि
कौसल्ये
साधु
मा
पाणिना
स्पृश ॥ ३४ ॥
तं
राममेवानुविचिन्तयन्तं
समीक्ष्य
देवी
शयने
नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा
विनिश्वसन्ती
विललाप
कृच्छ्रम् ॥ ३५ ॥