विलपन्तीं
तथा
तां
तु
कौसल्यां
प्रमदोत्तमाम् ।
इदं
धर्म्ये
स्थिता
धर्म्यं
सुमित्रा
वाक्यमब्रवीत् ॥ १ ॥
तवार्ये
सद्गुणैर्युक्तः
स
पुत्रः
पुरुषोत्तमः ।
किं
ते
विलपितेनैवं
कृपणं
रुदितेन
वा ॥ २ ॥
यस्तवार्ये
गतः
पुत्रस्त्यक्त्वा
राज्यं
महाबलः ।
साधु
कुर्वन्
महात्मानं
पितरं
सत्यवादिनम् ॥ ३ ॥
शिष्टैराचरिते
सम्यक्छश्वत्
प्रेत्यफलोदये ।
रामो
धर्मे
स्थितः
श्रेष्ठो
न
स
शोच्यः
कदाचन ॥ ४ ॥
वर्त्तते
चोत्तमां
वृत्तिं
लक्ष्मणोऽस्मिन्
सदाऽनघः ।
दयावान्
सर्वभूतेषु
लाभस्तस्य
महात्मनः ॥ ५ ॥
अरण्यवासेव
यद्दुःखं
जानती
वै
सुखोचिता ।
अनुगच्छति
वैदेही
धर्मात्मानं
तवात्मजम् ॥ ६ ॥
कीर्त्तिभूतां
पताकां
यो
लोके
भ्रमयति
प्रभुः ।
धर्मसत्यव्रतधनः
किं
न
प्राप्तस्तवात्मजः ॥ ७ ॥
व्यक्तं
रामस्य
विज्ञाय
शौचं
माहात्म्यमुत्तमम् ।
न
गात्रमंशुभिः
सूर्यः
सन्तापयियुमर्हति ॥ ८ ॥
शिवः
सर्वेषु
कालेषु
काननेभ्यो
विनिस्सृतः ।
राघवं
युक्तशीतोष्णः
सेविष्यति
सुखोऽनिलः ॥ ९ ॥
शयानमनघं
रात्रौ
पितेवाभिपरिष्वजन् ।
रश्मिभिः
संस्पृशन्
शीतैश्चन्द्रमा
ह्लादयिष्यति ॥ १० ॥
ददौ
चास्त्राणि
दिव्यानि
यस्मै
ब्रह्मा
महौजसे ।
दानवेन्द्रं
हतं
दृष्ट्वा
तिमिध्वजसुतं
रणे ॥ ११ ॥
स
शूरः
पुरुषव्याघ्रः
स्वबाहुबलमाश्रितः ।
असन्त्रस्तोप्यरण्यस्थो
वेश्मनीव
निवत्स्यति ॥ १२ ॥
यस्येषुपथमासाद्य
विनाशं
यान्ति
शत्रवः ।
कथं
न
पृथिवी
तस्य
शासने
स्थातुमर्हति ॥ १३ ॥
या
श्रीः
शौर्यं
च
रामस्य
या
च
कल्याणसत्त्वता ।
निवृत्तारण्यवासः
स
क्षिप्रं
राज्यमवाप्स्यति ॥ १४ ॥
सूर्यस्यापि
भवेत्
सूर्यो
ह्यग्नेरग्निः
प्रभोः
प्रभुः ।
श्रियः
श्रीश्च
भवेद्ग्र्या
कीर्तिः
कीर्त्याः
क्षमाक्षमा ॥ १५ ॥
दैवतं
दैवतानां
च
भूतानां
भूतसत्तमः ।
तस्य
के
ह्यगुणा
देवि
राष्ट्रे
वाप्यथवा
पुरे ॥ १६ ॥
पृथिव्या
सह
वैदेह्या
श्रिया
च
पुरुषर्षभः ।
क्षिप्रं
तिसृभिरेताभिः
स
ह
रामोऽभिषेक्ष्यते ॥ १७ ॥
दुःखजं
विसृजत्यास्रं
निष्क्रामन्तमुदीक्ष्य
यम् ।
अयोध्यायां
जनाः
सर्वे
शोकवेगसमाहताः ॥ १८ ॥
कुशचीरधरं
देवं
गच्छन्तमपराजितम् ।
सीतेवानुगता
लक्ष्मीः
तस्य
किन्नाम
दुर्ल्लभम् ॥ १९ ॥
धनुर्ग्रहवरो
यस्य
बाणखड्गास्त्रभृत्स्वयम् ।
लक्ष्मणो
व्रजति
ह्यग्रे
तस्य
किन्नाम
दुर्ल्लभम् ॥ २० ॥
निवृत्तवनवासं
तं
द्रष्टासि
पुनरागतम् ।
जहि
शोकं
च
मोहं
च
देवि
सत्यं
ब्रवीमिते ॥ २१ ॥
शिरसा
चरणावेतौ
वन्दमानमनिन्दिते ।
पुनर्द्रक्ष्यसि
कल्याणि
पुत्रं
चन्द्रमिवोदितम् ॥ २२ ॥
पुनः
प्रविष्टं
दृष्ट्वा
तमभिषिक्तं
महाश्रियम् ।
समुत्स्रक्ष्यसि
नेत्राभ्यां
क्षिप्रमानन्दजं
पयः ॥ २३ ॥
क्षिप्रं
द्रक्ष्यसि
पुत्रं
तं
ससीतं
सहलक्ष्मणम् ।
मा
शोक
इति ॥ २४ ॥
त्वयाऽशेषो
जनश्चैव
समाश्वास्यो
यदाऽनघे ।
किमिदानीमिमं
देवि
करोषि
हृदि
विक्लवम् ॥ २५ ॥
नार्हा
त्वं
शोचितुं
देवि
यस्यास्ते
राघवः
सुतः ।
न
हि
रामात्परो
लोके
विद्यते
सत्पथे
स्थितः ॥ २६ ॥
अभिवादयमानं
तं
दृष्ट्वा
ससुहृदं
सुतम् ।
मुदाश्रु
मोक्ष्यसे
क्षिप्रं
मेघलेखेव
वार्षिकी ॥ २७ ॥
पुनस्ते
वरदः
क्षिप्रमयोध्यां
पुनरागतः ।
पाणिभ्यां
मृदुपीनाभ्यां
चरणौ
पीडयिष्यति ॥ २८ ॥
अभिवाद्यनमस्यन्तं
शूरं
ससुहृदं
सुतम् ।
मुदास्रैः
प्रोक्ष्यसि
पुनर्मेघराजिरिवाचलम् ॥ २९ ॥
आश्वासयन्ती
विविधैश्च
वाक्यैर्वाक्योपचारे
कुशलाऽनवद्या ।
रामस्य
तां
मातरमेवमुक्त्वा
देवी
सुमित्रा
विरराम
रामा ॥ ३० ॥
निशम्य
तल्लक्ष्मणमातृवाक्यं
रामस्य
मातुर्नरदेवपत्न्याः ।
सद्यः
शरीरे
विननाश
शोकः
शरद्गतो
मेघ
इवाल्पतोयः ॥ ३१ ॥