ततस्तु
तमसातीरं
रम्यमाश्रित्य
राघवः ।
सीतामुद्वीक्ष्य
सौमित्रिमिदं
वचनमब्रवीत् ॥ १ ॥
इयमद्य
निशा
पूर्वा
सौमित्रे
प्रहिता
वनम् ।
वनवासस्य
भद्रं
ते
स
नोत्कण्ठितुमर्हसि ॥ २ ॥
पश्य
शून्यान्यरण्यानि
रुदन्तीव
समन्ततः ।
यथानिलयमायद्भिर्निलीनानि
मृगद्विजैः ॥ ३ ॥
अद्यायोध्या
तु
नगरी
राजधानी
पितुर्मम ।
सस्त्रीपुंसागतानस्मान्
शोचिष्यति
न
संशयः ॥ ४ ॥
अनुरक्ता
हि
मनुजा
राजानं
बहुभिर्गुणैः ।
त्वां
च
मां
च
नरव्याघ्र
शत्रुघ्नभरतौ
तथा ॥ ५ ॥
पितरं
चानुशोचामि
मातरं
च
यशस्विनीम् ।
अपि
वाऽन्धौ
भवेतां
तु
रुदन्तौ
तावभीक्ष्णशः ॥ ६ ॥
भरतः
खलु
धर्मात्मा
पितरं
मातरं
च
मे ।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ ७ ॥
भरतस्यानृशंसत्वं
विचिन्त्याहं
पुनःपुनः ।
नानुशोचामि
पितरं
मातरं
चापि
लक्ष्मण ॥ ८ ॥
त्वया
कार्यं
नरव्याघ्र
मामनुव्रजता
कृतम् ।
अन्वेष्टव्या
हि
वैदेह्या
रक्षणार्थे
सहायता ॥ ९ ॥
अद्भिरेव
तु
सौमित्रे
वत्स्याम्यद्य
निशामिमाम् ।
एतद्धि
रोचते
मह्यं
वन्येऽपि
विविधे
सति ॥ १० ॥
एवमुक्त्वा
तु
सौमित्रिं
सुमन्त्रमपि
राघवः ।
अप्रमत्तस्त्वमश्वेषु
भव
सौम्येत्युवाच
ह ॥ ११ ॥
सोऽश्वान्
सुमन्त्रः
संयम्य
सूर्येऽस्तं
समुपागते ।
प्रभूतयवसान्
कृत्वा
बभूव
प्रत्यनन्तरः ॥ १२ ॥
उपास्य
तु
शिवां
सन्ध्यां
दृष्ट्वा
रात्रिमुपस्थिताम् ।
रामस्य
शयनं
चक्रे
सूतः
सौमित्रिणा
सह ॥ १३ ॥
तां
शय्यां
तमसातीरे
वीक्ष्य
वृक्षदलैः
कृताम् ।
रामः
सौमित्रिणा
सार्द्धं
सभार्यः
संविवेश
ह ॥ १४ ॥
सभार्यं
सम्प्रसुप्तं
तं
भ्रातरं
वीक्ष्य
लक्ष्मणः ।
कथयामास
सूताय
रामस्य
विविधान्
गुणान् ॥ १५ ॥
जाग्रतो
ह्येव
तां
रात्रिं
सौमित्रेरुदितो
रविः ।
सूतस्य
तमसातीरे
रामस्य
ब्रुवतो
गुणान् ॥ १६ ॥
गोकुलाकुलतीरायास्तमसाया
विदूरतः ।
अवसत्तत्र
तां
रात्रिं
रामः
प्रकृतिभिः
सह ॥ १७ ॥
उत्थाय
तु
महातेजाः
प्रकृतीस्ता
निशाम्य
च ।
अब्रवीद्भ्रातरं
रामो
लक्ष्मणं
पुण्यलक्षणम् ॥ १८ ॥
अस्मद्व्यपेक्षान्
सौमित्रे
निरपेक्षान्
गृहेष्वपि ।
वृक्षमूलेषु
संसुप्तान्
पश्य
लक्ष्मण
साम्प्रतम् ॥ १९ ॥
यथैते
नियमं
पौराः
कुर्वन्त्यस्मन्निवर्त्तने ।
अपि
प्राणानसिष्यन्ति
न
तु
त्यक्ष्यन्ति
निश्चयम् ॥ २० ॥
यावदेव
तु
संसुप्तास्तावदेव
वयं
लघु ।
रथमारुह्य
गच्छाम
पन्थानमकुतोभयम् ॥ २१ ॥
अतो
भूयोऽपि
नेदानीमिक्ष्वाकुपुरवासिनः ।
स्वपेयुरमुरक्ता
मां
वृक्षमूलानि
संश्रिताः ॥ २२ ॥
पौरा
ह्यात्मकृताद्दुःखाद्विप्रमोक्ष्या
नृपात्मजैः ।
न
ते
खल्वात्मना
योज्या
दुःखेन
पुरवासिनः ॥ २३ ॥
अब्रवील्लक्ष्मणो
रामं
साक्षाद्धर्ममिव
स्थितम् ।
रोचते
मे
तथा
प्राज्ञ
क्षिप्रमारुह्यतामिति ॥ २४ ॥
अथ
रामोऽब्रवीच्छ्रीमान्
सुमन्त्रं
युज्यतां
रथः ।
गमिष्यामि
ततोऽरण्यं
गच्छ
शीघ्रमितः
प्रभो ॥ २५ ॥
सूतस्ततः
सन्त्वरितः
स्यन्दनं
तैर्हयोत्तमैः ।
योजयित्वाथ
रामाय
प्राञ्जलिः
प्रत्यवेदयत् ॥ २६ ॥
अयं
युक्तो
महाबाहो
रथस्ते
रथिनां
वर ।
तमारोह
सुभद्रं
ते
ससीतः
सहलक्ष्मणः ॥ २७ ॥
तं
स्यन्दनमधिष्ठाय
राघवः
सपरिच्छदः ।
शीघ्रगामाकुलावर्त्तां
तमसामतरन्नदीम् ॥ २८ ॥
स
सन्तीर्य्य
महाबाहुः
श्रीमान्
शिवमकण्टकम् ।
प्रापद्यत
महामार्गमभयं
भयदर्शिनाम् ॥ २९ ॥
मोहनार्थं
तु
पौराणां
सूतं
रामोऽब्रवीद्वचः ।
उदङ्मुखः
प्रयाहि
त्वं
रथमास्थाय
सारथे ॥ ३० ॥
मुहूर्तं
त्वरितं
गत्वा
निवर्तय
रथं
पुनः ।
यथा
न
विद्युः
पौरा
मां
तथा
कुरु
समाहितः ॥ ३१ ॥
रामस्य
वचनं
श्रुत्वा
तथा
चक्रे
स
सारथिः ।
प्रत्यागम्य
च
रामस्य
स्यन्दनं
प्रत्यवेदयत् ॥ ३२ ॥
तौ
संप्रयुक्तं
तु
रथं
समास्थितौ
तदा
ससीतौ
रघुवंशवर्द्धनौ ।
प्रचोदयामास
ततस्तुरङ्गमान्
स
सारथिर्येन
पथा
तपोवनम् ॥ ३३ ॥
ततः
समास्थाय
रथं
महारथः
ससारथिर्दाशरथिर्वनं
ययौ ।
उदङ्मुखं
तं
तु
रथं
चकार
स
प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ ३४ ॥