प्रभातायां
तु
शर्वर्यां
पौरास्ते
राघवं
विना ।
शोकोपहतनिश्चेष्टा
बभूवुर्हतचेतसः ॥ १ ॥
शोकजाश्रुपरिद्यूना
वीक्षमाणास्ततस्ततः ।
आलोकमपि
रामस्य
न
पश्यन्ति
स्म
दुःखिताः ॥ २ ॥
ते
विषादार्तवदना
रहितास्तेन
धीमता ।
कृपणाः
करुणा
वाचो
वदन्ति
स्म
मनस्विनः ॥ ३ ॥
धिगस्तु
खलु
निद्रां
तां
ययापहृतचेतसः ।
नाद्य
पश्यामहे
रामं
पृथूरस्कं
महाभुजम् ॥ ४ ॥
कथं
नाम
महाबाहुः
स
तथा
वितथक्रियः ।
भक्तं
जनं
परित्यज्य
प्रवासं
राघवो
गतः ॥ ५ ॥
यो
नः
सदा
पालयति
पिता
पुत्रानिवौरसान् ।
कथं
रघूणां
स
श्रेष्ठस्त्यक्त्वा
नो
विपिनं
गतः ॥ ६ ॥
इहैव
निधनं
यामो
महाप्रस्थानमेव
वा ।
रामेण
रहितानां
हि
किमर्थं
जीवितं
हि
नः ॥ ७ ॥
सन्ति
शुष्काणि
काष्ठानि
प्रभूतानि
महान्ति
च ।
तैः
प्रज्वाल्य
चितां
सर्वे
प्रविशामोऽथ
पावकम् ॥ ८ ॥
किं
वक्ष्यामौ
महाबाहुरनसूयः
प्रियंवदः ।
नीतः
स
राघवोऽस्माभिरिति
वक्तुं
कथं
क्षमम् ॥ ९ ॥
सा
नूनं
नगरी
दीना
दृष्ट्वास्मान्
राघवं
विना ।
भविष्यति
निरानन्दा
सस्त्रीबालवयोधिका ॥ १० ॥
निर्यातस्तेन
वीरेण
सह
नित्यं
जितात्मना ।
विहीनास्तेन
च
पुनः
कथं
पश्याम
तां
पुरीम् ॥ ११ ॥
इतीव
बहुधा
वाचो
बाहुमुद्यम्य
ते
जनाः ।
विलपन्ति
स्म
दुःखार्ता
विवत्सा
इव
धेनवः ॥ १२ ॥
ततो
मार्गानुसारेण
गत्वा
किञ्चित्क्षणं
पुनः ।
मार्गनाशाद्
विषादेन
महता
समभिप्लुताः ॥ १३ ॥
रथस्य
मार्गनाशेन
न्यवर्तन्त
मनस्विनः ।
किमिदं
किं
करिष्यामो
दैवेनोपहता
इति ॥ १४ ॥
ततो
यथागतेनैव
मार्गेण
क्लान्तचेतसः ।
अयोध्यामगमन्
सर्वे
पुरीं
व्यथितसज्जनाम् ॥ १५ ॥
आलोक्य
नगरीं
तां
च
क्षयव्याकुलमानसाः ।
अवर्तयन्त
तेऽश्रूणि
नयनैश्शोकपीडितैः ॥ १६ ॥
एषा
रामेण
नगरी
रहिता
नातिशोभते ।
आपगा
गरुडेनेव
ह्रदादुद्धृतपन्नगा ॥ १७ ॥
चन्द्रहीनमिवाकाशं
तोयहीनमिवार्णवम् ।
अपश्यन्निहतानन्दं
नगरं
ते
विचेतसः ॥ १८ ॥
ते
तानि
वेश्मानि
महाधनानि
दुःखेन
दुःखोपहता
विशन्तः ।
नैव
प्रजज्ञुः
स्वजनं
जनं
वा
निरीक्षमाणाः
प्रविनष्टहर्षाः ॥ १९ ॥