तेषामेवं
विषण्णानां
पीडितानामतीव
च ।
बाष्पविप्लुतनेत्राणां
सशोकानां
मुमूर्षया ॥ १ ॥
अनुगम्य
निवृत्तनां
रामं
नगरवासिनाम् ।
उद्गतानीव
सत्त्वानि
बभूबुरमनस्विनाम् ॥ २ ॥
स्वंस्वं
निलयमागम्य
पुत्रदारैः
समावृताः ।
अश्रूणि
मुमुचुः
सर्वे
बाष्पेण
पिहिताननाः ॥ ३ ॥
न
चाहृष्यन्न
चामोदन्
वणिजो
न
प्रसारयन् ।
न
चाशोभन्त
पुण्यानि
नापचन्
गृहमेधिनः ॥ ४ ॥
नष्टं
दृष्ट्वा
नाभ्यनन्दन्
विपुलं
वा
धनागमम् ।
पुत्रं
प्रथमजं
लब्ध्वा
जननी
नाभ्यनन्दत ॥ ५ ॥
गृहेगृहे
रुदन्त्यश्च
भर्तारं
गृहमागतम् ।
व्यगर्हयन्त
दुःखार्त्ता
वाग्भिस्तोत्रैरिव
द्विपान् ॥ ६ ॥
किं
नु
तेषां
गृहैः
कार्य्यं
किं
दारैः
किं
धनेन
वा ।
पुत्रैर्वा
किं
सुखैर्वापि
ये
न
पश्यन्ति
राघवम् ॥ ७ ॥
एकः
सत्पुरुषो
लोके
लक्ष्मणः
सह
सीतया ।
योऽनुगच्छति
काकुत्स्थं
रामं
परिचरन्
वने ॥ ८ ॥
आपगाः
कृतपुण्यास्ताः
पद्मिन्यश्च
सरांसि
च ।
येषु
स्नास्यति
काकुत्स्थो
विगाह्य
सलिलं
शुचि ॥ ९ ॥
शोभयिष्यन्ति
काकुत्स्थमटव्यो
रम्यकाननाः ।
आपगाश्च
महानूपाः
सानुमन्तश्च
पर्वताः ॥ १० ॥
काननं
वापि
शैलं
वा
यं
रामोऽभिगमिष्यति ।
प्रियातिथिमिव
प्राप्तं
नैनं
शक्ष्यन्त्यनर्चितुम् ॥ ११ ॥
विचित्रकुसुमापीडा
बहुमञ्जरिधारिणः ।
राघवं
दर्शयिष्यन्ति
नगा
भ्रमरशालिनः ॥ १२ ॥
अकाले
चापि
मुख्यानि
पुष्पाणि
च
फलानि
च ।
दर्शयिष्यन्त्यनुक्रोशाद्गिरयो
राममागतम् ॥ १३ ॥
विदर्शयन्तो
विविधान्
भूयश्चित्रांश्च
निर्झरान् ।
पादपाः
पर्वताग्रेषु
रमयिष्यन्ति
राघवम् ॥ १४ ॥
यत्र
रामो
भयं
नात्र
नास्ति
तत्र
पराभवः ।
स
हि
शूरो
महाबाहुः
पुत्रो
दशरथस्य
च ॥ १५ ॥
पुराभवति
नो
दूरादनुगच्छाम
राघवम् ।
पादच्छाया
सुखा
भर्तुस्तादृशस्य
महात्मनः ॥ १६ ॥
स
हि
नाथो
जनस्यास्य
स
गतिः
स
परायणम् ।
वयं
परिचरिष्यामः
सीतां
यूयं
तु
राघवम् ॥ १७ ॥
इति
पौरस्त्रियो
भर्तॄन्
दुःखार्तास्तत्तदब्रुवन् ।
युष्माकं
राघवो़ऽरण्ये
योगक्षेमं
विधास्यति ॥ १८ ॥
सीता
नारीजनस्यास्य
योगक्षेमं
करिष्यति ।
को
न्वनेनाप्रतीतेन
सोत्कण्ठितजनेन
च ॥ १९ ॥
सम्प्रीयेतामनोज्ञेन
वासेन
हृतचेतसा ।
कैकेय्या
यदि
चेद्राज्यं
स्यादधर्म्यमनाथवत् ॥ २० ॥
न
हि
नो
जीवितेनार्थः
कुतः
पुत्रैः
कुतो
धनैः ।
यया
पुत्रश्च
भर्ता
च
त्यक्तावैश्वर्यकारणात् ॥ २१ ॥
कं
सा
परिहरेदन्यं
कैकेयी
कुलपांसनी ।
कैकेय्या
न
वयं
राज्ये
भृतका
निवसेम
हि ॥ २२ ॥
जीवन्त्या
जातु
जीवन्त्यः
पुत्रैरपि
शपामहे ।
या
पुत्रं
पार्थिवेन्द्रस्य
प्रवासयति
निर्घृणा ॥ २३ ॥
कस्तां
प्राप्य
सुखं
जीवेदधर्म्यां
दुष्टचारिणीम् ।
उपद्रुतमिदं
सर्वमनालम्बमनायकम् ॥ २४ ॥
कैकेय्या
हि
कृते
सर्वं
विनाशमुपयास्यति ।
न
हि
प्रव्रजिते
रामे
जीविष्यति
महीपतिः ॥ २५ ॥
मृते
दशरथे
व्यक्तं
विलापस्तदनन्तरम् ।
ते
विषं
पिबतालोड्य
क्षीणपुण्याः
सुदुर्गताः ॥ २६ ॥
राघवं
वानुगच्छध्वमश्रुतिं
वापि
गच्छत ।
मिथ्या
प्रव्राजितो
रामः
सभार्य्यः
सह
लक्ष्मणः ॥ २७ ॥
भरते
सन्निसृष्टाः
स्मः
सौनिके
पशवो
यथा ।
पूर्णचन्द्राननः
श्यामो
गूढजत्रुररिन्दमः ॥ २८ ॥
आजानुबाहुः
पद्माक्षो
रामो
लक्ष्मणपूर्वजः ।
पूर्वाभिभाषी
मधुरः
सत्यवादी
महाबलः ॥ २९ ॥
सौम्यश्च
सर्वलोकस्य
चन्द्रवत्प्रियदर्शनः ।
नूनं
पुरुषशार्दूलो
मत्तमातङ्गविक्रमः ॥ ३० ॥
शोभयिष्यत्यरण्यानि
विचरन्
स
महारथः ।
तास्तथा
विलपन्त्यस्तु
नगरे
नागरस्त्रियः ॥ ३१ ॥
चुक्रुशुर्दुःखसन्तप्ता
मृत्योरिव
भयागमे ।
इत्येवं
विलपन्तीनां
स्त्रीणां
वेश्मसु
राघवम् ॥ ३२ ॥
जगामास्तं
दिनकरो
रजनी
चाभ्यवर्त्तत ।
नष्टज्वलनसम्पाता
प्रशान्ताध्यायसत्कथा ॥ ३३ ॥
तिमिरेणाभिलिप्तेव
सा
तदा
नगरी
बभौ ।
उपशान्तवणिक्पण्या
नष्टहर्षा
निराश्रया ॥ ३४ ॥
अयोध्या
नगरी
चासीन्नष्टतारमिवाम्बरम् ।
तथा
स्त्रियो
रामनिमित्तमातुरा
यथा
सुते
भ्रातरि
वा
विवासिते ॥ ३५ ॥
विलप्य
दीना
रुरुदुर्विचेतसः
सुतैर्हि
तासामधिको
हि
सोऽभवत् ।
प्रशान्तगीतोत्सवनृत्तवादना
व्यपास्तहर्षा
पिहितापणोदया ॥ ३६ ॥
तदा
ह्ययोध्या
नगरी
बभूव
सा
महार्णवः
सङ्क्षपितोदको
यथा ॥ ३७ ॥