विशालान्
कोसलान्
रम्यान्
यात्वा
लक्ष्मणपूर्वजः ।
अयोध्याभिमुखो
धीमान्
प्राञ्जलिर्वाक्यमब्रवीत् ॥ १ ॥
आपृच्छे
त्वां
पुरिश्रेष्ठे
काकुत्स्थपरिपालिते ।
दैवतानि
च
यानि
त्वां
पालयन्त्यावसन्ति
च ॥ २ ॥
निवृत्तवनवासस्त्वामनृणो
जगतीपतेः ।
पुनर्द्रक्ष्यामि
मात्रा
च
पित्रा
च
सह
सङ्गतः ॥ ३ ॥
ततो
रुधिरताम्राक्षो
भुजमुद्यम्य
दक्षिणम् ।
अश्रुपूर्णमुखो
दीनोऽब्रवीज्जानपदं
जनम् ॥ ४ ॥
अनुक्रोशो
दया
चैव
यथार्हं
मयि
वः
कृतः ।
चिरं
दुःखस्य
पापीयो
गम्यतामर्थसिद्धये ॥ ५ ॥
तेऽभिवाद्य
महात्मानं
कृत्वा
चापि
प्रदक्षिणम् ।
विलपन्तो
नरा
घोरं
व्यतिष्ठन्त
क्वचित्क्वचित् ॥ ६ ॥
तथा
विलपतां
तेषामतृप्तानां
च
राघवः ।
अचक्षुर्विषयं
प्रायाद्यथार्कः
क्षणदामुखे ॥ ७ ॥
ततो
धान्यधनोपेतान्
दानशीनजनाञ्छिवान् ।
अकुतश्चिद्भयान्
रम्यांश्चैत्ययूपसमावृतान् ॥ ८ ॥
उद्यानाम्रवणोपेतान्
सम्पन्नसलिलाशयान् ।
तुष्टपुष्टजनाकीर्णान्
गोकुलाकुलसेवितान् ॥ ९ ॥
लक्षणीयान्
नरेन्द्राणां
ब्रह्मघोषाभिनादितान् ।
रथेन
पुरुषव्याघ्रः
कोसलानत्यवर्त्तत ॥ १० ॥
मध्येन
मुदितं
स्फीतं
रम्योद्यानसमाकुलम् ।
राज्यं
भोग्यं
नरेन्द्राणां
ययौ
धृतिमतां
वरः ॥ ११ ॥
तत्र
त्रिपथगां
दिव्यां
शिवतोयामशैवलाम् ।
ददर्श
राघवो
गङ्गां
पुण्यामृषिनिषेविताम् ॥ १२ ॥
आश्रमैरविदूरस्थैः
श्रीमद्भिः
समलङ्कृताम् ।
काले
सरोभिर्हृष्टाभिः
सेविताम्भो
ह्रदां
शिवाम् ॥ १३ ॥
देवदानवगन्धर्वैः
किन्नरैरुपशोभिताम् ।
नानागन्धर्वपत्नीभिः
सेवितां
सततं
शिवाम् ॥ १४ ॥
देवाक्रीडाशताकीर्णां
देवो़द्यानशतायुताम् ।
देवार्थमाकाशगमां
विख्यातां
देवपद्मिनीम् ॥ १५ ॥
जलाघाताट्टहासोग्रां
फेननिर्मलहासिनीम् ।
क्वचिद्वेणीकृतजलां
क्वचिदावर्त्तशोभिताम् ॥ १६ ॥
क्वचित्स्तिमितगम्भीरां
क्वचिद्वेगजलाकुलाम् ।
क्वचिद्गम्भीरनिर्घोषां
क्वचिद्भैरवनिस्वनाम् ॥ १७ ॥
देवसङ्घाप्लुतजलां
निर्मलोत्पलशोभिताम् ।
क्वचिदाभोगपुलिनां
क्वचिन्निर्मलवालुकाम् ॥ १८ ॥
सदामत्तैश्च
विहगैरभिसन्नादितान्तराम् ।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरुपशोभिताम् ॥ १९ ॥
क्वचित्फुल्लोत्पलच्छन्नां
क्वचित्पद्मवनाकुलाम् ।
क्वचित्कुमुदषण्डैश्च
कुड्मलैरुपशोभिताम् ॥ २० ॥
नानापुष्परजोध्वस्तां
समदामिव
च
क्वचित् ।
व्यपेतमलसङ्घातां
मणिनिर्मलदर्शनाम् ॥ २१ ॥
दिशागजैर्वनगजैर्मत्तैश्च
वरवारणैः ।
देवोपवाह्यैश्च
मुहुः
सन्नादितवनान्तराम् ॥ २२ ॥
प्रमदामिव
यत्नेन
भूषितां
भूषणोत्तमैः ।
फलैः
पुष्पैः
किसलयैर्वृतां
गुल्मैर्द्विजैस्तथा ॥ २३ ॥
शिंशुमारैश्च
नक्रैश्च
भुजङ्गैश्च
निषेविताम् ।
विष्णुपादच्युतां
दिव्यामपापां
पापनाशिनीम् ॥ २४ ॥
समुद्रमहिषीं
गङ्गां
सारसक्रौञ्चनादिताम् ।
आससाद
महाबाहुः
श्रृङ्गवेरपुरं
प्रति ॥ २५ ॥
तामूर्मिकलिलावर्त्तामन्ववेक्ष्य
महारथः ।
सुमन्त्रमब्रवीत्
सूतमिहैवाद्य
वसामहे ॥ २६ ॥
अविदूरादयं
नद्या
बहुपुष्पप्रवालवान् ।
सुमहानिङ्गुदीवृक्षो
वसामोऽत्रैव
सारथे ॥ २७ ॥
द्रक्ष्यामः
सरितां
श्रेष्ठां
सम्मान्यसलिलां
शिवाम् ।
देवदानवगन्धर्वमृगमानुषपक्षिणाम् ॥ २८ ॥
लक्ष्मणश्च
सुमन्त्रश्च
बाढमित्येव
राघवम् ।
उक्त्वा
तमिङ्गुदीवृक्षं
तदोपययतुर्हयैः ॥ २९ ॥
रामोऽभियाय
तं
रम्यं
वृक्षमिक्ष्वाकुनन्दनः ।
रथादवातरत्तस्मात्
सभार्यः
सहलक्ष्मणः ॥ ३० ॥
सुमन्त्रोप्यवतीर्य्या
स्मान्मोनचयित्वा
हयोत्तमान् ।
वृक्षमूलगतं
राममुपतस्थे
कृताञ्जलिः ॥ ३१ ॥
तत्र
राजा
गुहो
नाम
रामस्यात्मसमः
सखा ।
निषादजात्यो
बलवान्
स्थपतिश्चेति
विश्रुतः ॥ ३२ ॥
स
श्रुत्वा
पुरुषव्याघ्रं
रामं
विषयमागतम् ।
वृद्धैः
परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः ॥ ३३ ॥
ततो
निषादाधिपतिं
दृष्ट्वा
दूरादुपस्थितम् ।
सह
सौमित्रिणा
रामः
समागच्छद्गुहेन
सः ॥ ३४ ॥
तमार्तः
संपरिष्वज्य
गुहो
राघवमब्रवीत् ।
यथायोध्या
तथेयं
ते
राम
किं
करवाणि
ते ॥ ३५ ॥
ईदृशं
हि
महाबाहो
कः
प्राप्स्यत्यतिथिं
प्रियम् ।
ततो
गुणवदन्नाद्यमुपादाय
पृथग्विधम् ॥ ३६ ॥
अर्ध्यं
चोपानयत्
क्षिप्रं
वाक्यं
चेदमुवाच
ह ।
स्वागतं
ते
महाबाहो
तवेयमखिला
मही ॥ ३७ ॥
वयं
प्रेष्या
भवान्
भर्त्ता
साधु
राज्यं
प्रशाधि
नः ।
भक्ष्यं
भोज्यं
च
पेयं
च
लेह्यं
चेदमुपस्थितम् ॥ ३८ ॥
शयनानि
च
मुख्यानि
वाजिनां
खादनं
च
ते ।
पद्भ्यामभिगमाच्चैव
स्नेहसन्दर्शनेन
च ॥ ३९ ॥
प्रशाधीति
वाक्यकृतेन
स्नेहप्रदर्शनेन
\* ।
भुजाभ्यां
साधु
पीनाभ्यां
पीडयन्
वाक्यमब्रवीत् ॥ ४० ॥
दिष्ट्या
त्वां
गुह
पश्यामि
ह्यरोगं
सह
बान्धवैः ।
अपि
ते
कुशलं
राष्ट्रे
मित्रेषु
च
धनेषु
च ॥ ४१ ॥
यत्त्विदं
भवता
किञ्चित्
प्रीत्या
समुपकल्पितम् ।
सर्वं
तदनुजानामि
न
हि
वर्त्ते
प्रतिग्रहे ॥ ४२ ॥
कुशचीराजिनधरं
फलमूलाशिनं
च
माम् ।
विद्धि
प्रणिहितं
धर्मे
तापसं
वनगोचरम् ॥ ४३ ॥
अश्वानां
खादनेनाहमर्थी
नान्येन
केनचित् ।
एतावतात्र
भवता
भविष्यामि
सुपूजितः ॥ ४४ ॥
एते
हि
दयिता
राज्ञः
पितुर्दशरथस्य
मे ।
एतैः
सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ ४५ ॥
अश्वानां
प्रतिपानं
च
खादनं
चैव
सोन्वशात् ।
गुहस्तत्रैव
पुरुषांस्त्वरितं
दीयतामिति ॥ ४६ ॥
ततश्चीरोत्तरासङ्गः
सन्ध्यामन्वास्य
पश्चिमाम् ।
जलमेवाददे
भोज्यं
लक्ष्मणेनाहृतं
स्वयम् ॥ ४७ ॥
तस्य
भूमौ
शयानस्य
पादौ
प्रक्षाल्य
लक्ष्मणः ।
सभार्यस्य
ततोऽभ्येत्य
तस्थौ
वृक्षमुपाश्रितः ॥ ४८ ॥
गुहोपि
सह
सूतेन
सौमित्रिमनुभाषयन् ।
अन्वजाग्रत्ततो
राममप्रमत्तो
धनुर्द्धरः ॥ ४९ ॥
तथा
शयानस्य
ततोऽस्य
धीमतो
यशस्विनो
दाशरथेर्महात्मनः ।
अदृष्टदुःखस्य
सुखोचितस्य
सा
तदा
व्यतीयाय
चिरेण
शर्वरी ॥ ५० ॥