तं
जाग्रतमदम्भेन
भ्रातुरर्थाय
लक्ष्मणम् ।
गुहः
सन्तापसन्तप्तो
राघवं
वाक्यमब्रवीत् ॥ १ ॥
इयं
तात
सुखा
शय्या
त्वदर्थमुपकल्पिता ।
प्रत्याश्वसिहि
साध्वस्यां
राजपुत्र
यथासुखम् ॥ २ ॥
उचितोऽयं
जनः
सर्वः
क्लेशानां
त्वं
सुखोचितः ।
गुप्त्यर्थं
जागरिष्यामः
काकुत्स्थस्य
वयं
निशाम् ॥ ३ ॥
न
हि
रामात्प्रियतरो
ममास्ति
भुवि
कश्चन ।
ब्रवीम्येतदहं
सत्यं
सत्येनैव
च
ते
शपे ॥ ४ ॥
अस्य
प्रसादादाशंसे
लोकेऽस्मिन्
सुमहद्यशः ।
धर्मावाप्तिं
च
विपुलामर्थावाप्तिं
च
केवलाम् ॥ ५ ॥
सोऽहं
प्रियतमं
रामं
शयानं
सह
सीतया ।
रक्षिष्यामि
धनुष्पाणिः
सर्वतो
ज्ञातिभिः
सह ॥ ६ ॥
न
हि
मेऽविदितं
किञ्चिद्वनेस्मिंश्चरतः
सदा ।
चतुरङ्गं
ह्यपि
बलं
सुमहत्
प्रसहेमहि ॥ ७ ॥
लक्ष्मणस्तं
तदोवाच
रक्ष्यमाणास्त्वयानघ ।
नात्र
भीता
वयं
सर्वे
धर्ममेवानुपश्यता ॥ ८ ॥
कथं
दाशरथौ
भूमौ
शयाने
सहसीतया ।
शक्य
निद्रा
मया
लब्धुं
जीवितं
वा
सुखानि
वा ॥ ९ ॥
यो
न
देवासुरैः
सर्वैः
शक्यः
प्रसहितुं
युधि ।
तं
पश्य
सुखसंविष्टं
तृणेषु
सह
सीतया ॥ १० ॥
यो
मन्त्रतपसा
लब्धो
विविधैश्च
परिश्रमैः ।
एको
दशरथस्येष्टः
पुत्रः
सदृशलक्षणः ॥ ११ ॥
अस्मिन्
प्रव्राजिते
राजा
न
चिरं
वर्तयिष्यति ।
विधवा
मेदिनी
नूनं
क्षिप्रमेव
भविष्यति ॥ १२ ॥
विनद्य
सुमहानादं
श्रमेणोपरताः
स्त्रियः ।
निर्घोषोपरतं
चातो
मन्ये
राजनिवेशनम् ॥ १३ ॥
कौसल्या
चैव
राजा
च
तथैव
जननी
मम ।
नाशंसे
यदि
जीवन्ति
सर्वे
ते
शर्वरीमिमाम् ॥ १४ ॥
जीवेदपि
हि
मे
माता
शत्रुघ्नस्यान्ववेक्षया ।
तद्दुःखं
यत्तु
कौसल्या
वीरसूर्विनशिष्यति ॥ १५ ॥
अनुरक्तजनाकीर्णा
सुखा
लोकप्रियावहा ।
राजव्यसनसंसृष्टा
सा
पुरी
विनशिष्यति ॥ १६ ॥
कथं
पुत्रं
महात्मानं
ज्येष्ठं
प्रियमपश्यतः ।
शरीरं
धारयिष्यन्ति
प्राणा
राज्ञो
महात्मनः ॥ १७ ॥
विनष्टे
नृपतौ
पश्चात्कौसल्या
विनशिष्यति ।
अनन्तरं
च
मातापि
मम
नाशमुपैष्यति ॥ १८ ॥
अतिक्रान्तमतिक्रान्तमनवाप्य
मनोरथम् ।
राज्ये
राममनिक्षिप्य
पिता
मे
विनशिष्यति ॥ १९ ॥
सिद्धार्थाः
पितरं
वृत्तं
तस्मिन्
कालेप्युपस्थिते ।
प्रेतकार्येषु
सर्वेषु
संस्करिष्यन्ति
भूमिपम् ॥ २० ॥
राम्यचत्वरसंस्थानां
सुविभक्तमहापथाम् ।
हर्म्यप्रासादसम्पन्नां
गणिकावरशोभिताम् ॥ २१ ॥
रथाश्वगजसम्बाधां
तूर्यनादविनादिताम् ।
सर्वकल्याणसम्पूर्णां
हृष्टपुष्टजनाकुलाम् ॥ २२ ॥
आरामोद्यानसम्पन्नां
समाजोत्सवशालिनीम् ।
सुखिता
विचरिष्यन्ति
राजधानीं
पितुर्मम ॥ २३ ॥
अपि
जीवेद्दशरथो
वनवासात्
पुनर्वयम् ।
प्रत्यागम्य
महात्मानमपि
पश्येम
सुव्रतम् ॥ २४ ॥
अपि
सत्यप्रतिज्ञेन
सार्द्धं
कुशलिना
वयम् ।
निवृत्तवनवासेऽस्मिन्नयोध्यां
प्रविशेमहि ॥ २५ ॥
परिदेवयमानस्य
दुःखार्त्तस्य
महात्मनः ।
तिष्ठतो
राजपुत्रस्य
शर्वरी
सात्यवर्तत ॥ २६ ॥
तथा
हि
सत्यं
ब्रुवति
प्रजाहिते
नरेन्द्रपुत्रे
गुरुसौहृदाद्
गुहः ।
मुमोच
बाष्पं
व्यसनाभिपीडितो
ज्वरातुरो
नाग
इव
व्यथातुरः ॥ २७ ॥