प्रभातायां
तु
शर्वर्यां
पृथुवक्षा
महायशाः ।
उवाच
रामः
सौमित्रिं
लक्ष्मणं
शुभलक्षणम् ॥ १ ॥
भास्करोदयकालोऽयं
गता
भगवती
निशा ।
असौ
सुकृष्णो
विहगः
कोकिलस्तात
कूजति ॥ २ ॥
बर्हिणानां
च
निर्घोषः
श्रूयते
नदतां
वने ।
तराम
जाह्नवीं
सौम्य
शीघ्रगां
सागरङ्गमाम् ॥ ३ ॥
विज्ञाय
रामस्य
वचः
सौमित्रिर्मित्रनन्दनः ।
गुहमामन्त्र्य
सूतं
च
सोऽतिष्ठद्भ्रातुरग्रतः ॥ ४ ॥
स
तु
रामस्य
वचनं
निशम्य
प्रतिगृह्य
च ।
स्थपतिस्तूर्णमाहूय
सचिवानिदमब्रवीत् ॥ ५ ॥
अस्य
वाहनसंयुक्तां
कर्णग्राहवतीं
शुभाम् ।
सुप्रतारां
दृढां
तीर्थे
शीघ्रं
नावमुपाहर ॥ ६ ॥
तं
निशम्य
गुहादेशं
गुहामात्यगणो
महान् ।
उपोह्य
रुचिरां
नावं
गुहाय
प्रत्यवेदयत् ॥ ७ ॥
ततः
स
प्राञ्जलिर्भूत्वा
गुहो
राघवमब्रवीत् ।
उपस्थितेयं
नौर्देव
भूयः
किं
करवाणि
ते ॥ ८ ॥
तवामरसुतप्रख्य
तर्तुं
सागरगां
नदीम् ।
नौरियं
पुरुषव्याघ्र
तां
त्वमारोह
सुव्रत ॥ ९ ॥
अथोवाच
महातेजा
रामो
गुहमिदं
वचः ।
कृतकामोऽस्मि
भवता
शीघ्रमारोप्यतामिति ॥ १० ॥
ततः
कलापान्
सन्नह्य
खड्गौ
बद्ध्वा
च
धन्विनौ ।
जग्मतुर्येन
तौ
गङ्गां
सीतया
सह
राघवौ ॥ ११ ॥
राममेवं
तु
धर्मज्ञमुपगम्य
विनीतवत् ।
किमहं
करवाणीति
सूतः
प्राञ्जलिरब्रवीत् ॥ १२ ॥
ततोऽब्रवीद्दाशरथिः
सुमन्त्रं
स्पृशन्
करेणोत्तम
दक्षिणेन ।
सुमन्त्र
शीघ्रं
पुनरेव
याहि
राज्ञः
सकाशे
भव
चाप्रमत्तः ॥ १३ ॥
निवर्त्तस्वेत्युवाचैनमेतावद्धि
कृतं
मम ।
रथं
विहाय
पद्भ्यां
तु
गमिष्यामो
महावनम् ॥ १४ ॥
आत्मानं
त्वभ्यनुज्ञातमवेक्ष्यार्तः
स
सारथिः ।
सुमन्त्रः
पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत् ॥ १५ ॥
नातिक्रान्तमिदं
लोके
पुरुषेणेह
केनचित् ।
तव
सभ्रातृभार्यस्य
वासः
प्राकृतवद्वने ॥ १६ ॥
न
मन्ये
ब्रह्मचर्येऽस्ति
स्वधीते
वा
फलोदयः ।
मार्द्दवार्जवयोर्वापि
त्वां
चेद्व्यसनमागतम् ॥ १७ ॥
सह
राघववैदेह्या
भ्रात्रा
चैव
वने
वसन् ।
त्वं
गतिं
प्राप्स्यसे
वीर
त्रील्लोँकांस्तु
जयन्निव ॥ १८ ॥
वयं
खलु
हता
राम
ये
त्वयाप्युपवञ्चिताः ।
कैकेय्या
वशमेष्यामः
पापाया
दुःखभागिनः ॥ १९ ॥
इति
ब्रुवन्नात्मसमं
सुमन्त्रः
सारथिस्तदा ।
दृष्ट्वा
दूरगतं
रामं
दुःखार्त्तो
रुरुदे
चिरम् ॥ २० ॥
ततस्तु
विगते
बाष्पे
सूतं
स्पृष्टोदकं
शुचिम् ।
रामस्तु
मधुरं
वाक्यं
पुनःपुनरुवाच
तम् ॥ २१ ॥
इक्ष्वाकूणां
त्वया
तुल्यं
सुहृदं
नोपलक्षये ।
यथा
दशरथो
राजा
मां
न
शोचेत्तथा
कुरु ॥ २२ ॥
शोकोपहतचेताश्च
वृद्धश्च
जगतीपतिः ।
कामभारावसन्नश्च
तस्मादेतद्ब्रवीमि
ते ॥ २३ ॥
यद्यदाज्ञापयेत्किञ्चित्
स
महात्मा
महीपतिः ।
कैकेय्याः
प्रियकामार्थं
कार्यं
तदविकाङ्क्षया ॥ २४ ॥
एतदर्थं
हि
राज्यानि
प्रशासति
नरेश्वराः ।
यदेषां
सर्वकृत्येषु
मनो
न
प्रतिहन्यते ॥ २५ ॥
यद्यथा
स
महाराजो
नालीकमधिगच्छति ।
न
च
ताम्यति
दुःखेन
सुमन्त्र
कुरु
तत्तथा ॥ २६ ॥
अदृष्टदुःखं
राजानं
वृद्धमार्यं
जितेन्द्रियम् ।
ब्रूयास्त्वमभिवाद्यैव
मम
हेतोरिदं
वचः ॥ २७ ॥
नैवाहमनुशोचामि
लक्ष्मणो
न
च
मैथिली ।
अयोध्यायाश्च्युताश्चेति
वने
वत्स्यामहेति
च ॥ २८ ॥
चतुर्दशसु
वर्षेषु
निवृत्तेषु
पुनःपुनः ।
लक्ष्मणं
मां
च
सीतां
च
द्रक्ष्यसि
क्षिप्रमागतान् ॥ २९ ॥
एवमुक्त्वा
तु
राजानं
मातरं
च
सुमन्त्र
मे ।
अन्याश्च
देवीः
सहिताः
कैकेयीं
च
पुनःपुनः ॥ ३० ॥
आरोग्यं
ब्रूहि
कौसल्यामथ
पादाभिवन्दनम् ।
सीताया
मम
चार्यस्य
वचनाल्लक्ष्मणस्य
च ॥ ३१ ॥
ब्रूयाश्च
हि
महाराजं
भरतं
क्षिप्रमानय ।
आगतश्चापि
भरतः
स्थाप्यो
नृपमते
पदे ॥ ३२ ॥
भरतं
च
परिष्वज्य
यौवराज्येऽभिषिच्य
च ।
अस्मत्सन्तापजं
दुःखं
न
त्वामभिभविष्यति ॥ ३३ ॥
भरतश्चापि
वक्तव्यो
यथा
राजनि
वर्त्तसे ।
तथा
मातृषु
वर्तेथाः
सर्वास्वेवाविशेषतः ॥ ३४ ॥
यथा
च
तव
कैकेयी
सुमित्रा
च
विशेषतः ।
तथैव
देवी
कौसल्या
मम
माता
विशेषतः ॥ ३५ ॥
तातस्य
प्रियकामेन
यौवराज्यमवेक्षता ।
लोकयोरुभयोः
शक्यं
नित्यदा
सुखमेधितुम् ॥ ३६ ॥
निवर्त्यमानो
रामेण
सुमन्त्रः
शोककर्शितः ।
तत्सर्वं
वचनं
श्रुत्वा
स्नेहात्
काकुत्स्थमब्रवीत् ॥ ३७ ॥
यदहं
नोपचारेण
ब्रूयां
स्नेहादविक्लवः ।
भक्तिमानिति
तत्तावद्वाक्यं
त्वं
क्षन्तुमर्हसि ॥ ३८ ॥
कथं
हि
त्वद्विहीनोऽहं
प्रतियास्यामि
तां
पुरीम् ।
तव
तावद्वियोगेन
पुत्रशोकाकुलामिव ॥ ३९ ॥
सराममपि
तावन्मे
रथं
दृष्ट्वा
तदा
जनः ।
विना
रामं
रथं
दृष्ट्वा
विदीर्य्येतापि
सा
पुरी ॥ ४० ॥
दैन्यं
हि
नगरी
गच्छेद्दृष्ट्वा
शून्यमिमं
रथम् ।
सूतावशेषं
स्वं
सैन्यं
हतवीरमिवाहवे ॥ ४१ ॥
दूरेपि
निवसन्तं
त्वां
मानसेनाग्रतः
स्थितम् ।
चिन्तयन्त्योऽद्य
नूनं
त्वां
निराहाराः
कृताः
प्रजाः ॥ ४२ ॥
दृष्टं
तद्धि
त्वया
राम
यादृशं
त्वत्प्रवासने ।
प्रजानां
सङ्कुलं
वृत्तं
त्वच्छोकक्लान्तचेतसाम् ॥ ४३ ॥
आर्तनादो
हि
यः
पौरैर्मुक्तस्त्वद्विप्रवासने ।
सरथं
मां
निशाम्यैव
कुर्युः
शतगुणं
ततः ॥ ४४ ॥
अहं
किं
चापि
वक्ष्यामि
देवीं
तव
सुतो
मया ।
नीतोऽसौ
मातुलकुलं
सन्तापं
मा
कृथा
इति ॥ ४५ ॥
असत्यमपि
नैवाहं
ब्रूयां
वचनमीदृशम् ।
कथमप्रियमेवाहं
ब्रूयां
सत्यमिदं
वचः ॥ ४६ ॥
मम
तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः ।
कथं
रथं
त्वया
हीनं
प्रवक्ष्यन्ति
हयोत्तमाः ॥ ४७ ॥
तन्न
शक्ष्याम्यहं
गन्तुमयोध्यां
त्वदृतेऽनघ ।
वनवासानुयानाय
मामनुज्ञातुमर्हसि ॥ ४८ ॥
यदि
मे
याचमानस्य
त्यागमेव
करिष्यसि ।
सरथोऽग्निं
प्रवेक्ष्यामि
त्यक्तमात्र
इह
त्वया ॥ ४९ ॥
भविष्यन्ति
वने
यानि
तपोविघ्नकराणि
ते ।
रथेन
प्रतिबाधिष्ये
तानि
सत्त्वानि
राघव ॥ ५० ॥
त्वत्कृतेन
मयावाप्तं
रथचर्याकृतं
सुखम् ।
आशंसे
त्वत्कृतेनाहं
वनवासकृतं
सुखम् ॥ ५१ ॥
प्रसीदेच्छामि
तेऽरण्ये
भवितुं
प्रत्यनन्तरः ।
प्रीत्याभिहितमिच्छामि
भव
मे
प्रत्यनन्तरः ॥ ५२ ॥
इमे
चापि
हया
वीर
यदि
ते
वनवासिनः ।
परिचर्यां
करिष्यन्ति
प्राप्स्यन्ति
परमां
गतिम् ॥ ५३ ॥
तव
शुश्रूषणं
मूर्ध्ना
करिष्यामि
वने
वसन् ।
अयोध्यां
देवलोकं
वा
सर्वथा
प्रजहाम्यहम् ॥ ५४ ॥
न
हि
शक्या
प्रवेष्टुं
सा
मयायोध्या
त्वया
विना ।
राजधानी
महेन्द्रस्य
यथा
दुष्कृतकर्मणा ॥ ५५ ॥
वनवासे
क्षयं
प्राप्ते
ममैष
हि
मनोरथः ।
यदनेन
रथेनैव
त्वां
वहेयं
पुरीं
पुनः ॥ ५६ ॥
चतुर्दश
हि
वर्षाणि
सहितस्य
त्वया
वने ।
क्षणभूतानि
यास्यन्ति
शतसङ्ख्याऽन्यतोऽन्यथा ॥ ५७ ॥
भृत्यवत्सल
तिष्ठन्तं
भर्त्तृपुत्रगते
पथि ।
भक्तं
भृत्यं
स्थितं
स्थित्यां
त्वं
न
मां
हातुमर्हसि ॥ ५८ ॥
एवं
बहुविधं
दीनं
याचमानं
पुनःपुनः ।
रामो
भृत्यानुकम्पी
तु
सुमन्त्रमिदमब्रवीत् ॥ ५९ ॥
जानामि
परमां
भक्तिं
मयि
ते
भर्तृवत्सल ।
शृणु
चापि
यदर्थं
त्वां
प्रेषयामि
पुरीमितः ॥ ६० ॥
नगरीं
त्वां
गतं
दृष्ट्वा
जननी
मे
यवीयसी
कैकेयी
प्रत्ययं
गच्छेदिति
रामो
वनं
गतः ।
परितुष्टा
हि
सा
देवी
वनवासं
गते
मयि ॥ ६१ ॥
राजानं
नातिशङ्केत
मिथ्यावादीति
धार्मिकम् ।
एष
मे
प्रथमः
कल्पो
यदम्बा
मे
यवीयसी ॥ ६२ ॥
भरतारक्षितं
स्फीतं
पुत्रराज्यमवाप्नुयात् ।
मम
प्रियार्थं
राज्ञश्च
सरथस्त्वं
पुरीं
व्रज ॥ ६३ ॥
सन्दिष्टश्चासि
यानर्थांस्तांस्तान्
ब्रूयास्तथातथा ।
इत्युक्त्वा
वचनं
सूतं
सान्त्वयित्वा
पुनःपुनः ॥ ६४ ॥
गुहं
वचनमक्लीबो
रामो
हेतुमदब्रवीत् ।
नेदानीं
गुह
योग्योऽयं
वासो
मे
सजने
वने ॥ ६५ ॥
अवश्यं
ह्याश्रमे
वासः
कर्त्तव्यस्तद्गतो
विधिः ।
हितकामः
पितुर्भूयः
सीताया
लक्ष्मणस्य
च ॥ ६६ ॥
जटाः
कृत्वा
गमिष्यामि
न्यग्रोधक्षीरमानय ।
तत्क्षीरं
राजपुत्राय
गुहः
क्षिप्रमुपाहरत् ॥ ६७ ॥
लक्ष्मणस्यात्मनश्चैव
रामस्तेनाकरोज्जटाः ।
दीर्घबाहुर्नरव्याघ्रो
जटिलत्वमधारयत् ॥ ६८ ॥
तौ
तदा
चीरवसनौ
जटामण्डलधारिणौ ।
अशोभेतामृषिसमौ
भ्रातरौ
रामलक्ष्मणौ ॥ ६९ ॥
ततो
वैखानसं
मार्गमास्थितः
सहलक्ष्मणः ।
व्रतमादिष्टवान्
रामः
सहायं
गुहमब्रवीत् ॥ ७० ॥
अप्रमत्तो
बले
कोशे
दुर्गे
जनपदे
तथा ।
भवेथा
गुह
राज्यं
हि
दुरारक्षतमं
मतम् ॥ ७१ ॥
ततस्तं
समनुज्ञाय
गुहमिक्ष्वाकुनन्दनः ।
जगाम
तूर्णमव्यग्रः
सभार्यः
सहलक्ष्मणः ॥ ७२ ॥
स
तु
दृष्ट्वा
नदीतीरे
नावमिक्ष्वाकुनन्दनः ।
तितीर्षुः
शीघ्रगां
गङ्गामिदं
लक्ष्मणमब्रवीत् ॥ ७३ ॥
आरोहं
त्वं
नरव्याघ्र
स्थितां
नावमिमां
शनैः ।
सीतां
चारोपयान्वक्षं
परिगृह्य
मनस्विनीम् ॥ ७४ ॥
स
भ्रातुः
शासनं
श्रुत्वा
सर्वमप्रतिकूलयन् ।
आरोप्य
मैथिलीं
पूर्वमारुरोहात्मवांस्ततः ॥ ७५ ॥
अथारुरोह
तेजस्वी
स्वयं
लक्ष्मणपूर्वजः ।
ततो
निषादाधिपतिर्गुहो
ज्ञातीनचोदयत् ॥ ७६ ॥
राघवोऽपि
महातेजा
नावमारुह्य
तां
ततः ।
ब्रह्मवत्
क्षत्त्रवच्चैव
जजाप
हितमात्मनः ॥ ७७ ॥
आचम्य
च
यथाशास्त्रं
नदीं
तां
सह
सीतया ।
प्राणमत्
प्रीतिसंहृष्टो
लक्ष्मणश्चामितप्रभः ॥ ७८ ॥
अनुज्ञाय
सुमन्त्रं
च
सबलं
चैवं
तं
गुहम् ।
आस्थाय
नावं
रामस्तु
चोदयामास
नाविकान् ॥ ७९ ॥
ततस्तैश्चोदिता
सा
नौः
कर्णधारसमाहिता ।
शुभस्फ्यवेगाभिहता
शीघ्रं
सलिलमत्यगात् ॥ ८० ॥
मध्यं
तु
समनुप्राप्य
भागीरथ्यास्त्वनिन्दिता ।
वैदेही
प्राञ्जलिर्भूत्वा
तां
नदीमिदमब्रवीत् ॥ ८१ ॥
पुत्रो
दशरथस्यायं
महाराजस्य
धीमतः ।
निदेशं
पारयित्वेमं
गङ्ग
त्वदभिरक्षितः ॥ ८२ ॥
चतुर्दश
हि
वर्षाणि
समग्राण्युष्यकानने ।
भ्रात्रा
सह
मया
चैव
पुनः
प्रत्यागमिष्यति ॥ ८३ ॥
ततस्त्वां
देवि
सुभगे
क्षेमेण
पुनरागता ।
यक्ष्ये
प्रमुदिता
गङ्गे
सर्वकामसमृद्धिनी ॥ ८४ ॥
त्वं
हि
त्रिपथगा
देवि
ब्रह्मलोकं
समीक्षसे ।
भार्या
चोदधिराजस्य
लोकेऽस्मिन्
संप्रदृश्यसे ॥ ८५ ॥
सा
त्वां
देवि
नमस्यामि
प्रशंसामि
च
शोभने ।
प्राप्तराज्ये
नरव्याघ्रे
शिवेन
पुनरागते ॥ ८६ ॥
गवां
शतशहस्रं
च
वस्त्राण्यन्नं
च
पेशलम् ।
ब्राह्मणेभ्यः
प्रदास्यामि
तव
प्रियचिकीर्षया ॥ ८७ ॥
सुराघटसहस्रेण
मांसभूतौदनेन
च ।
यक्ष्ये
त्वां
प्रयता
देवि
पुरीं
पुनरुपागता ॥ ८८ ॥
यानि
त्वत्तीरवासीनि
दैवतानि
वसन्ति
च ।
तानि
सर्वाणि
यक्ष्यामि
तीर्थान्यायतनानि
च ॥ ८९ ॥
पुनरेव
महाबाहुर्मया
भ्रात्रा
च
सङ्गतः ।
अयोध्यां
वनवासात्तु
प्रविशत्वनघोऽनघे ॥ ९० ॥
तथा
सम्भाषमाणा
सा
सीता
गङ्गामनिन्दिता ।
दक्षिणा
दक्षिणं
तीरं
क्षिप्रमेवाभ्युपागमत् ॥ ९१ ॥
तीरं
तु
समनुप्राप्य
नावं
हित्वा
नरर्षभः ।
प्रातिष्ठत
सह
भ्रात्रा
वैदेह्या
च
परन्तपः ॥ ९२ ॥
अथाब्रवीन्महाबाहुः
सुमित्रानन्दवर्द्धनम् ।
भव
संरक्षणार्थाय
सजने
विजनेऽपि
वा ॥ ९३ ॥
अवश्यं
रक्षणं
कार्यमदृष्टे
विजने
वने ।
अग्रतो
गच्छ
सौमित्रे
सीता
त्वामनुगच्छतु ॥ ९४ ॥
पृष्ठतोऽहं
गमिष्यामि
त्वां
च
सीतां
च
पालयन् ।
अन्योन्यस्येह
नो
रक्षा
कर्त्तव्या
पुरुषर्षभ ॥ ९५ ॥
न
हि
तावदतिक्रान्ता
सुकरा
काचन
क्रिया ।
अद्य
दुःखं
तु
वैदेही
वनवासस्य
वेत्स्यति ॥ ९६ ॥
प्रनष्ट
जनसम्बाधं
क्षेत्रारामविवर्जितम् ।
विषमं
च
प्रपातं
च
वनं
ह्यद्य
प्रवेक्ष्यति ॥ ९७ ॥
श्रुत्वा
रामस्य
वचनं
प्रतस्थे
लक्ष्मणोऽग्रतः ।
अनन्तरं
च
सीताया
राघवो
रघुनन्दनः ॥ ९८ ॥
गतं
तु
गङ्गापरपारमाशु
रामं
सुमन्त्रः
प्रततं
निरीक्ष्य ।
अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच
बाष्पं
व्यथितस्तपस्वी ॥ ९९ ॥
स
लोकपालप्रतिमप्रभाववांस्तीर्त्वा
महात्मा
वरदो
महानदीम् ।
ततः
समृद्धाञ्छुभसस्यमालिनः
क्रमेण
वत्सान्
मुदितानुपागमत् ॥ १०० ॥
तौ
तत्र
हत्वा
चतुरो
महामृगान्
वराहमृश्यं
पृषतं
महारुरुम् ।
आदाय
मेध्यं
त्वरितं
बुभुक्षितौ
वासाय
काले
ययतुर्वनस्पतिम् ॥ १०१ ॥