अथ
रात्र्यां
व्यतीतायामवसुप्तमनन्तरम् ।
प्रबोधयामास
शनैर्लक्ष्मणं
रघुनन्दनः ॥ १ ॥
सौमित्रे
शृणु
वन्यानां
वल्गु
व्याहरतां
स्वनम् ।
सम्प्रतिष्ठामहे
कालः
प्रस्थानस्य
परन्तप ॥ २ ॥
स
सुप्तः
समये
भ्रात्रा
लक्ष्मणः
प्रतिबोधितः ।
जहौ
निद्रां
च
तन्द्रीं
च
प्रसक्तं
च
पथि
श्रमम् ॥ ३ ॥
तत
उत्थाय
ते
सर्वे
स्पृष्ट्वा
नद्याः
शिवं
जलम् ।
पन्थानमृषिणाऽऽदिष्टं
चित्रकूटस्य
तं
ययुः ॥ ४ ॥
ततः
सम्प्रस्थितः
काले
रामः
सौमित्रिणा
सह ।
सीतां
कमलपत्राक्षीमिदं
वचनमब्रवीत् ॥ ५ ॥
आदीप्तानिव
वैदेहि
सर्वतः
पुष्पितान्नगान् ।
स्वैः
पुष्पैः
किंशुकान्
पश्य
मालिनः
शिशिरात्यये ॥ ६ ॥
पश्य
भल्लातकान्
फुल्लान्नरैरनुपसेवितान् ।
फलत्रैरवनतान्नूनं
शक्ष्यामि
जीवितुम् ॥ ७ ॥
पश्य
द्रोणप्रमाणानि
लम्बमानानि
लक्ष्मण ।
मधूनि
मधुकारीभिः
सम्भृतानि
नगेनगे ॥ ८ ॥
एष
क्रोशति
नत्यूहस्तं
शिखी
प्रतिकूजति ।
रमणीये
वनोद्देशे
पुष्पसंस्तरसङ्कटे ॥ ९ ॥
मातङ्गयूथानुसृतं
पक्षिसङ्घानुनादितम् ।
चित्रकूटमिमं
पश्य
प्रवृद्धशिखरं
गिरिम् ॥ १० ॥
समभूमितले
रम्ये
द्रुमैर्बहुभिरावृते ।
पुण्ये
रंस्यामहे
तात
चित्रकूटस्य
कानने ॥ ११ ॥
ततस्तौ
पादचारेण
गच्छन्तौ
सह
सीतया ।
रम्यमासेदतुः
शैलं
चित्रकूटं
मनोरमम् ॥ १२ ॥
तं
तु
पर्वतमासाद्य
नानापक्षिगणायुतम् ।
बहुमूलफलं
रम्यं
सम्पन्नं
सरसोदकम् ॥ १३ ॥
मनोज्ञोऽयं
गिरिः
सौम्य
नानाद्रुमलतायुतः ।
बहुमूलफलो
रम्यः
स्वाजीवः
प्रतिभाति
मे ॥ १४ ॥
मुनयश्च
महात्मानो
वसन्त्यस्मिन्
शिलोच्चये ।
अयं
वासो
भवेत्तावदत्र
सौम्य
रमेमहि ॥ १५ ॥
इति
सीता
च
रामश्च
लक्ष्मणश्च
कृताञ्जलिः ।
अभिगम्याश्रमं
सर्वे
वाल्मीकिमभिवादयन् ॥ १६ ॥
तान्
महर्षिः
प्रमुदितः
पूजयामास
धर्मवित् ।
आस्यतामिति
चोवाच
स्वागतं
तु
निवेद्य
च ॥ १७ ॥
ततोऽब्रवीन्महाबाहुर्लक्ष्मणं
लक्ष्मणाग्रजः ।
सन्निवेद्य
यथान्यायमात्मानमृषये
प्रभुः ॥ १८ ॥
लक्ष्मणानय
दारूणि
दृढानि
च
वराणि
च ।
कुरुष्वावसथं
सौम्य
वासे
मेऽभिरतं
मनः ॥ १९ ॥
तस्य
तद्वचनं
श्रुत्वा
सौमित्रिर्विविधान्
द्रुमान् ।
आजहार
ततश्चक्रे
पर्णशालामरिन्दमः ॥ २० ॥
तां
निष्ठितां
बद्धकटां
दृष्ट्वा
रामः
सुदर्शनाम् ।
शुश्रूषमाणमेकाग्रमिदं
वचनमब्रवीत् ॥ २१ ॥
ऐणेयं
मांसमाहृत्य
शालां
यक्ष्यामहे
वयम् ।
कर्त्तव्यं
वास्तुशमनं
सौमित्रे
चिरजीविभिः ॥ २२ ॥
मृगं
हत्वानय
क्षिप्रं
लक्ष्मणेह
शुभेक्षण ।
कर्त्तव्यः
शास्त्रदृष्टो
हि
विधिर्धर्ममनुस्मर ॥ २३ ॥
भ्रातुर्वचनमाज्ञाय
लक्ष्मणः
परवीरहा ।
चकार
स
यथोक्तं
च
तं
रामः
पुनरब्रवीत् ॥ २४ ॥
ऐणेयं
श्रपयस्वैतच्छालां
यक्ष्यामहे
वयम् ।
त्वर
सौम्य
मुहूर्तोऽयं
ध्रुवश्च
दिवसोऽप्ययम् ॥ २५ ॥
स
लक्ष्मणः
कृष्णमृगं
हत्वा
मेध्यं
प्रतापवान् ।
अथ
चिक्षेप
सौमित्रिः
समिद्धे
जातवेदसि ॥ २६ ॥
तं
तु
पक्वं
समाज्ञाय
निष्टप्तं
छिन्नशोणितम् ।
लक्ष्मणः
पुरुषव्याघ्रमथ
राघवमब्रवीत् ॥ २७ ॥
अयं
कृष्णः
समाप्ताङ्गः
श्रृतः
कृष्णमृगो
यथा ।
देवतां
देवसङ्काश
यजस्व
कुशलो
ह्यसि ॥ २८ ॥
रामः
स्नात्वा
तु
नियतो
गुणवाञ्जप्यकोविदः ।
सङ्हेणाकरोत्
सर्वान्
मन्त्रान्
सत्रावसानिकान् ॥ २९ ॥
इष्ट्वा
देवगणान्
सर्वान्
विवेशावसथं
शुचिः ।
बभूव
च
मनोह्लादो
रामस्यामिततेजसः ॥ ३० ॥
वैश्वदेवबलिं
कृत्वा
रौद्रं
वैष्णवमेव
च ।
वास्तुसंशमनीयानि
मङ्गलानि
प्रवर्तयन् ॥ ३१ ॥
जपं
च
न्यायतः
कृत्वा
स्नात्वा
नद्यां
यथाविधि ।
पापसंशमनं
रामश्चकार
बलिमुत्तमम् ॥ ३२ ॥
वेदिस्थलविधानानि
चैत्यान्यायतनानि
च ।
आश्रमस्यानुरूपाणि
स्थापयामास
राघवः ॥ ३३ ॥
वन्यैर्माल्यैः
फलैर्मूलैः
पक्वैर्मांसैर्यथाविधि ।
अद्भिर्जपैश्च
वेदोक्तैर्दर्भैश्च
ससमित्कुशैः ॥ ३४ ॥
तौ
तर्पयित्वा
भूतानि
राघवौ
सह
सीतया ।
तदा
विविशतुः
शालां
सुशुभां
शुभलक्षणौ ॥ ३५ ॥
तां
वृक्षपर्णच्छदनां
मनोज्ञां
यथाप्रदेशं
सुकृतां
निवाताम् ।
वासाय
सर्वे
विविशुः
समेताः
सभां
यथा
देवगणाः
सुधर्माम् ॥ ३६ ॥
अनेकनानामृगपक्षिसङ्कुले
विचित्रपुष्पस्तबकैर्द्रुमैर्युते ।
वनोत्तमे
व्यालमृगानुनादिते
तदा
विजर्ह्रुः
सुसुखं
जितेन्द्रियाः ॥ ३७ ॥
सुरम्यमासाद्य
तु
चित्रकूटं
नदीं
च
तां
माल्यवतीं
सुतीर्थाम् ।
ननन्द
हृष्टो
मृगपक्षिजुष्टां
जहौ
च
दुःखं
पुरविप्रवासात् ॥ ३८ ॥