कथयित्वा
सुदुःखार्तः
सुमन्त्रेण
चिरं
सह ।
रामे
दक्षिणकूलस्थे
जगाम
स्वगृहं
गुहः ॥ १ ॥
भरद्वाजाभिगमनं
प्रयागे
च
सहासनम् ।
आगिरेर्गमनं
तेषां
तत्रस्थैरभिलक्षितम् ॥ २ ॥
अनुज्ञातः
सुमन्त्रोऽथ
योजयित्वा
हयोत्तमान् ।
अयोध्यामेव
नगरीं
प्रययौ
गाढदुर्मनाः ॥ ३ ॥
स
वनानि
सुगन्धीनि
सरितश्च
सरांसि
च ।
पश्यन्नतिययौ
शीघ्रं
ग्रामाणि
नगराणि
च ॥ ४ ॥
ततः
सायाह्नसमये
तृतीयेऽहनि
सारथिः ।
अयोध्यां
समनुप्राप्य
निरानन्दां
ददर्श
ह ॥ ५ ॥
स
शून्यामिव
निःशब्दां
दृष्ट्वा
परमदुर्मनाः ।
सुमन्त्रश्चिन्तयामास
शोकवेगसमाहतः ॥ ६ ॥
कच्चिन्न
सगजा
साश्वा
सजना
सजनाधिपा ।
रामसन्तापदुःखेन
दग्धा
शोकाग्निना
पुरी ॥ ७ ॥
इति
चिन्तापरः
सूतो
वाजिभिः
शीघ्रपातिभिः ।
नगरद्वारमासाद्य
त्वरितः
प्रविवेश
ह ॥ ८ ॥
सुमन्त्रमभियान्तं
तं
शतशोऽथ
सहस्रशः ।
क्व
राम
इति
पृच्छन्तः
सूतमभ्यद्रवन्नराः ॥ ९ ॥
तेषां
शशंस
गङ्गायामहमापृच्छ्य
राघवम् ।
अनुज्ञातो
निवृत्तोऽस्मि
धार्म्मिकेण
महात्मना ॥ १० ॥
ते
तीर्णा
इति
विज्ञाय
बाष्पपूर्णमुखा
जनाः ।
अहो
धिगिति
निश्वस्य
हा
रामेति
च
चुक्रुशुः ॥ ११ ॥
शुश्राव
च
वचस्तेषां
वृन्दंवृन्दं
च
तिष्ठताम् ।
हताः
स्म
खलु
येनेह
पश्याम
इति
राघवम् ॥ १२ ॥
दानयज्ञविवाहेषु
समाजेषु
महत्सु
च ।
न
द्रक्ष्यामः
पुनर्जातु
धार्मिकं
राममन्तरा ॥ १३ ॥
किं
समर्थं
जनस्यास्य
किं
प्रियं
किं
सुखावहम् ।
इति
रामेण
नगरं
पितृवत्परिपालितम् ॥ १४ ॥
वातायनगतानां
च
स्त्रीणामन्वन्तरापणम् ।
रामशोकाभितप्तानां
शुश्राव
परिदेवनम् ॥ १५ ॥
स
राजमार्गमध्येन
सुमन्त्रः
पिहिताननः ।
यत्र
राजा
दशरथस्तदेवोपययौ
गृहम् ॥ १६ ॥
सोऽवतीर्य्य
रथाच्छीघ्रं
राजवेश्म
प्रविश्य
च ।
कक्ष्याः
सप्ताभिचक्राम
महाजनसमाकुलाः ॥ १७ ॥
हर्म्यैर्विमानैः
प्रासादैरवेक्ष्याथ
समागतम् ।
हाहाकार
कृता
नार्यो
रामादर्शनकर्शिताः ॥ १८ ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः
स्त्रियः ॥ १९ ॥
ततो
दशरथस्त्रीणां
प्रासादेभ्यस्ततस्ततः ।
रामशोकाभितप्तानां
मन्दं
शुश्राव
जल्पितम् ॥ २० ॥
सह
रामेण
निर्यातो
विना
राममिहागतः ।
सूतः
किं
नाम
कौसल्यां
शोचन्तीं
प्रतिवक्ष्यति ॥ २१ ॥
यथा
च
मन्ये
दुर्जीवमेवं
न
सुकरं
ध्रुवम् ।
आच्छिद्य
पुत्रे
निर्याते
कौसल्या
यत्र
जीवति ॥ २२ ॥
सत्यरूपं
तु
तद्वाक्यं
राज्ञः
स्त्रीणां
निशामयन् ।
प्रदीप्त
इव
शोकेन
विवेश
सहसा
गृहम् ॥ २३ ॥
स
प्रविश्याष्टमीं
कक्ष्यां
राजानं
दीनमातुरम् ।
पुत्रशोकपरिद्यूनमपश्यत्
पाण्डरे
गृहे ॥ २४ ॥
अभिगम्य
तमासीनं
नरेन्द्रमभिवाद्य
च ।
सुमन्त्रो
रामवचनं
यथोक्तं
प्रत्यवेदयत् ॥ २५ ॥
स
तूष्णीमेव
तच्छ्रुत्वा
राजा
विभ्रान्तचेतनः ।
मूर्च्छितो
न्यपतद्भूमौ
रामशोकाभिपीडितः ॥ २६ ॥
ततोऽन्तःपुरमाविद्धं
मूर्च्छिते
पृथिवीपतौ ।
उद्धृत्य
बाहू
चुक्रोश
नृपतौ
पतिते
क्षितौ ॥ २७ ॥
सुमित्रया
तु
सहिता
कौसल्या
पतितं
पतिम् ।
उत्थापयामास
तदा
वचनं
चेदमब्रवीत् ॥ २८ ॥
इमं
तस्य
महाभाग
दूतं
दुष्करकारिणः ।
वनवासादनुप्राप्तं
कस्मान्न
प्रतिभाषसे ॥ २९ ॥
अद्येममनयं
कृत्वा
व्यपत्रपसि
राघव ।
उत्तिष्ठ
सुकृतं
तेऽस्तु
शोके
न
स्यात्
सहायता ॥ ३० ॥
देव
यस्या
भयाद्रामं
नानुपृच्छसि
सारथिम् ।
नेह
निष्ठति
कैकेयी
विस्रब्धं
प्रतिभाष्यताम् ॥ ३१ ॥
सा
तथोक्त्वा
महाराजं
कौसल्या
शोकलालसा ।
धरण्यां
निपपाताशु
बाष्पविप्लुतभाषिणी ॥ ३२ ॥
एवं
विलपतीं
दृष्ट्वा
कौसल्यां
पतितां
भुवि ।
पतिं
चावेक्ष्य
ताः
सर्वाः
सुस्वरं
रुरुदुः
स्त्रियः ॥ ३३ ॥
ततस्तमन्तःपुरनादमुत्थितं
समीक्ष्य
वृद्धास्तरुणाश्च
मानवाः ।
स्त्रियश्च
सर्वा
रुरुदुः
समन्ततः
पुरं
तदासीत्
पुनरेव
सङ्कुलम् ॥ ३४ ॥