प्रत्याश्वस्तो
यदा
राजा
मोहात्
प्रत्यागतः
पुनः ।
अथाजुहाव
तं
सूतं
रामवृत्तान्तकारणात् ॥ १ ॥
अथ
सूतो
महा
राजं
कृताञ्जलिरुपस्थितः ।
राममेवानुशोचन्तं
दुःखशोकसमन्वितम् ॥ २ ॥
वृद्धं
परमसन्तप्तं
नवग्रहमिव
द्विपम् ।
विनिश्वसन्तं
ध्यायन्तमस्वस्थमिव
कुञ्जरम् ॥ ३ ॥
राजा
तु
रजसा
धूतं
ध्वस्ताङ्गं
समुपस्थितम् ।
अश्रुपूर्णमुखं
दीनमुवाच
परमार्तवत् ॥ ४ ॥
क्वनु
वत्स्यति
धर्मात्मा
वृक्षमूलमुपाश्रितः ।
सोऽत्यन्तसुखितः
सूत
किमशिष्यति
राघवः ॥ ५ ॥
दुःखस्यानुचितो
दुःखं
सुमन्त्रशयनोचितः ।
भूमिपालात्मजो
भूमौ
शेते
कथमनाथवत् ॥ ६ ॥
यं
यान्तमनुयान्ति
स्म
पदातिरथकुञ्जराः ।
स
वत्स्यति
कथं
रामो
विजनं
वनमाश्रितः ॥ ७ ॥
व्यालैर्मृगैराचरितं
कृष्णसर्पनिषेवितम् ।
कथं
कुमारौ
वैदेह्या
सार्द्धं
वनमुपस्थितौ ॥ ८ ॥
सुकुमार्या
तपस्विन्या
सुमन्त्र
सह
सीतया ।
राजपुत्रौ
कथं
पादैरवरुह्य
रथाद्गतौ ॥ ९ ॥
सिद्धार्थः
खलु
सूत
त्वं
येन
दृष्टौ
ममात्मजौ ।
वनान्तं
प्रविशन्तौ
तावश्विनाविव
मन्दरम् ॥ १० ॥
किमुवाच
वचो
रामः
किमुवाच
च
लक्ष्मणः ।
सुमन्त्र
वनमासाद्य
किमुवाच
च
मैथिली ॥ ११ ॥
आसितं
शयितं
भुक्तं
सूत
रामस्य
कीर्तय ।
जीविष्याम्यहमेतेन
ययातिरिव
साधुषु ॥ १२ ॥
इति
सूतो
नरेन्द्रेण
चोदितः
सज्जमानया ।
उवाच
वाचा
राजानं
सबाष्परिरब्धया ॥ १३ ॥
अब्रवीन्मां
महाराज
धर्ममेवानुपालयन् ।
अञ्जलिं
राघवः
कृत्वा
शिरसाभिप्रणम्य
च ॥ १४ ॥
सूत
मद्वचनात्तस्य
तातस्य
विदितात्मनः ।
शिरसा
वन्दनीयस्य
वन्द्यौ
पादौ
महात्मनः ॥ १५ ॥
सर्वमन्तःपुरं
वाच्यं
सूत
मद्वचनात्त्वया ।
आरोग्यमविशेषेण
यथार्हं
चाभिवादनम् ॥ १६ ॥
माता
च
मम
कौसल्या
कुशलं
चाभिवादनम् ।
अप्रमादं
च
वक्तव्या
ब्रूयाश्चैनामिदं
वचः ॥ १७ ॥
धर्म्मनित्या
यथाकालमग्न्यगारपरा
भव ।
देवि
देवस्य
पादौ
च
देववत्
परिपालय ॥ १८ ॥
अभिमानञ्च
मानञ्च
त्यक्त्वा
वर्त्तस्व
मातृषु ।
अनु
राजानमार्यां
च
कैकेयीमम्बकारय ॥ १९ ॥
कुमारे
भरते
वृत्तिर्वर्त्तितव्या
च
राजवत् ।
अर्थज्येष्ठा
हि
राजानो
राजधर्ममनुस्मर ॥ २० ॥
भरतः
कुशलं
वाच्यो
वाच्यो
मद्वचनेन
च ।
सर्वास्वेव
यथान्यायं
वृत्तिं
वर्त्तस्व
मातृषु ॥ २१ ॥
वक्तव्यश्च
महाबाहुरिक्ष्वाकुकुलनन्दनः ।
पितरं
यौवराज्यस्थो
राज्यस्थमनुपालय ॥ २२ ॥
अतिक्रान्तवया
राजा
मा
स्मैनं
व्यवरोरुधः ।
कुमारराज्ये
जीव
त्वं
तस्यैवाज्ञाप्रवर्तनात् ॥ २३ ॥
अब्रवीच्चापि
मां
भूयो
भृशमश्रूणि
वर्तयन् ।
मातेव
मम
माता
ते
द्रष्टव्या
पुत्रगर्द्धिनी ॥ २४ ॥
इत्येवं
मां
महाराज
ब्रुवन्नेव
महायशाः ।
रामो
राजीवताम्राक्षो
भृशमश्रूण्यवर्तयत् ॥ २५ ॥
लक्ष्मणस्तु
सुसङ्क्रुद्धो
निश्वसन्
वाक्यमब्रवीत् ।
केनायमपराधेन
राजपुत्रो
विवासितः ॥ २६ ॥
राज्ञा
तु
खलु
कैकेय्या
लघु
त्वाश्रित्य
शासनम् ।
कृतं
कार्य्यमकार्यं
वा
वयं
येनाभिपीडिताः ॥ २७ ॥
यदि
प्रव्राजितो
रामो
लोभकारणकारितम् ।
वरदाननिमित्तं
वा
सर्वथा
दुष्कृतं
कृतम् ॥ २८ ॥
इदं
तावद्यथाकाममीश्वरस्य
कृते
कृतम् ।
रामस्य
तु
परित्यागे
न
हेतुमुपलक्षये ॥ २९ ॥
असमीक्ष्य
समारब्धं
विरुद्धं
बुद्धिलाघवात् ।
जनयिष्यति
सङ्क्रोशं
राघवस्य
विवासनम् ॥ ३० ॥
अहं
तावन्महाराजे
पितृत्वं
नोपलक्षये ।
भ्राता
भर्त्ता
च
बन्धुश्च
पिता
च
मम
राघवः ॥ ३१ ॥
सर्वलोकप्रियं
त्यक्त्वा
सर्वलोकहिते
रतम् ।
सर्वलोकोऽनुरज्येत
कथं
त्वाऽनेन
कर्मणा ॥ ३२ ॥
सर्वप्रजाभिरामं
हि
रामं
प्रव्राज्य
धार्म्मिकम् ।
सर्वलोकं
विरुद्ध्येमं
कथं
राजा
भविष्यसि ॥ ३३ ॥
जानकी
तु
महाराज
निश्वसन्ती
मनस्विनी ।
भूतोपहतचित्तेव
विष्ठिता
विस्मिता
स्थिता ॥ ३४ ॥
अदृष्टपूर्वव्यसमा
राजपुत्री
यशस्विनी ।
तेन
दुःखेन
रुदती
नैव
मां
किञ्चिदब्रवीत् ॥ ३५ ॥
उद्वीक्षमाणा
भर्तारं
मुखेन
परिशुष्यता ।
मुमोच
सहसा
बाष्पं
मां
प्रयान्तमुदीक्ष्य
सा ॥ ३६ ॥
तथैव
रामोऽश्रुमुखः
कृताञ्जलिः
स्थितोभवल्लक्ष्मणबाहुपालितः ।
तथैव
सीता
रुदती
तपस्विनी
निरीक्षते
राजरथं
तथैव
माम् ॥ ३७ ॥