ततो
भूतोपसृष्टेव
वेपमाना
पुनःपुनः ।
धरण्यां
गतसत्त्वेव
कौसल्या
सूतमब्रवीत् ॥ १ ॥
नय
मां
यत्र
काकुत्स्थः
सीता
यत्र
च
लक्ष्मणः ।
तान्
विना
क्षणमप्यत्र
जीवितुं
नोत्सहे
ह्यहम् ॥ २ ॥
निवर्तय
रथं
शीघ्रं
दण्डकान्नय
मामपि ।
अथ
तान्नानुगच्छामि
गमिष्यामि
यमक्षयम् ॥ ३ ॥
बाष्पवेगोपहतया
स
वाचा
सज्जमानया ।
इदमाश्वासयन्
देवीं
सूतः
प्राञ्जलिरब्रवीत् ॥ ४ ॥
त्यज
शोकञ्च
मोहञ्च
सम्भ्रमं
दुःखजं
तथा ।
व्यवधूय
च
सन्तापं
वने
वत्स्यति
राघवः ॥ ५ ॥
लक्ष्मणश्चापि
रामस्य
पादौ
परिचरन्
वने ।
आराधयति
धर्मज्ञः
परलोकं
जितेन्द्रियः ॥ ६ ॥
विजनेऽपि
वने
सीता
वासं
प्राप्य
गृहेष्विव ।
विस्रम्भं
लभतेऽभीता
रामे
सन्न्यस्तमानसा ॥ ७ ॥
नास्या
दैन्यं
कृतं
किञ्चित्
सुसूक्ष्ममपि
लक्ष्यते ।
उचितेव
प्रवासानां
वैदेही
प्रतिभाति
मा ॥ ८ ॥
नगरोपवनं
गत्वा
यथा
स्म
रमते
पुरा ।
तथैव
रमते
सीता
निर्जनेषु
वनेष्वपि ॥ ९ ॥
बालेव
रमते
सीताऽबालचन्द्रनिभानना ।
रामारामे
ह्यधीनात्मा
विजनेऽपि
वेन
सती ॥ १० ॥
तद्गतं
हृदयं
ह्यस्यास्तदधीनं
च
जीवितम् ।
अयोध्यापि
भवेत्तस्या
रामहीना
तथा
वनम् ॥ ११ ॥
पथि
पृच्छति
वैदेही
ग्रामांश्च
नगराणि
च ।
गतिं
दृष्ट्वा
नदीनाञ्च
पादपान्
विविधानपि ॥ १२ ॥
रामं
वा
लक्ष्मणं
वापि
पृष्ट्वा
जानाति
जानकी ।
अयोध्याक्रोशमात्रे
तु
विहारमिव
संश्रिता ॥ १३ ॥
इदमेव
स्मराम्यस्याः
सहसैवोपजल्पितम् ।
कैकेयीसंश्रितं
वाक्यं
नेदानीं
प्रतिभाति
मा ॥ १४ ॥
ध्वंसयित्वा
तु
तद्वाक्यं
प्रमादात्
पर्युपस्थितम् ।
ह्लादनं
वचनं
सूतो
देव्या
मधुरमब्रवीत् ॥ १५ ॥
अध्वना
वातवेगेन
सम्भ्रमेणातपेन
च ।
न
विगच्छति
वैदेह्याश्चन्द्रांशुसदृशी
प्रभा ॥ १६ ॥
सदृशं
शतपत्रस्य
पूर्णचन्द्रोपमप्रभम् ।
वदनं
तद्वदान्याया
वैदेह्या
न
विकम्पते ॥ १७ ॥
अलक्तरसरक्ताभावलक्तरसवर्जितौ ।
अद्यापि
चरणौ
तस्याः
पद्मकोशसमप्रमौ ॥ १८ ॥
नूपुरोद्घुष्टहेलेव
खेलं
गच्छति
भामिनी ।
इदानीमपि
वैदेही
तद्रागान्न्यस्तभूषणा ॥ १९ ॥
गजं
वा
वीक्ष्य
सिंहं
वा
व्याघ्रं
वा
वनमाश्रिता ।
नाहारयति
सन्त्रासं
बाहू
रामस्य
संश्रिता ॥ २० ॥
न
शोच्यास्ते
न
चात्मानः
शोच्यो
नापि
जनाधिपः ।
इदं
हि
चरितं
लोके
प्रतिष्ठास्यति
शाश्वतम् ॥ २१ ॥
विधूय
शोकं
परिहृष्टमानसा
महर्षियाते
पथि
सुव्यवस्थिताः ।
वनेरता
वन्यफलाशनाः
पितुः
शुभां
प्रतिज्ञां
परिपालयन्ति
ते ॥ २२ ॥
तथापि
सूतेन
सुयुक्तवादिना
निवार्यमाणा
सुतशोककर्शिता ।
न
चैव
देवी
विरराम
कूजितात्
प्रियेति
पुत्रेति
च
राघवेति
च ॥ २३ ॥