एवं
तु
क्रुद्धया
राजा
राममात्रा
सशोकया ।
श्रावितः
परुषं
वाक्यं
चिन्तयामास
दुःखितः ॥ १ ॥
चिन्तयित्वा
स
च
नृपो
मुमोह
व्याकुलेन्द्रियः ।
अथ
दीर्घेण
कालेन
सञ्ज्ञामाप
परन्तपः ॥ २ ॥
स
सञ्ज्ञामुपलभ्यैव
दीर्घमुष्णञ्च
निश्वसन् ।
कौसल्यां
पार्श्वतो
दृष्ट्वा
पुनश्चिन्तामुपागमत् ॥ ३ ॥
तस्य
चिन्तयमानस्य
प्रत्यभात्
कर्म
दुष्कृतम् ।
यदनेन
कृतं
पूर्वमज्ञानाच्छब्दवेधिना ॥ ४ ॥
अमनास्तेन
शोकेन
रामशोकेन
च
प्रभुः ।
द्वाभ्यामपि
महाराजः
शोकाभ्यामन्वतप्यत ॥ ५ ॥
दह्यमानः
स
शोकाभ्यां
कौसल्यामाह
भूपतिः ।
वेपमानोऽञ्जलिं
कृत्वा
प्रसादार्थमवाङ्मुखः ॥ ६ ॥
प्रसादये
त्वां
कौसल्ये
रचितोऽयं
मयाञ्जलिः ।
वत्सला
चानृशंसा
च
त्वं
हि
नित्यं
परेष्वपि ॥ ७ ॥
भर्त्ता
तु
खलु
नारीणां
गुणवान्निर्गुणोपि
वा ।
धर्मं
विमृशमानानां
प्रत्यक्षं
देवि
दैवतम् ॥ ८ ॥
सा
त्वं
धर्मपरा
नित्यं
दृष्टलोकपरावरा ।
नार्हसे
विप्रियं
वक्तुं
दुःखितापि
सुदुःखितम् ॥ ९ ॥
तद्वाक्यं
करुणं
राज्ञः
श्रुत्वा
दीनस्य
भाषितम् ।
कौसल्या
व्यसृजद्बाष्पं
प्रणालीव
नवोदकम् ॥ १० ॥
सा
मूर्ध्नि
बध्वा
रुदती
राज्ञः
पद्ममिवाञ्जलिम् ।
सम्भ्रमादब्रवीत्
त्रस्ता
त्वरमाणाक्षरं
वचः ॥ ११ ॥
प्रसीद
शिरसा
याचे
भूमौ
निपतितास्मि
ते ।
याचितास्मि
हता
देव
हन्तव्याहं
नहि
त्वया ॥ १२ ॥
उभयोर्लोकयोर्वीर
पत्या
या
सम्प्रसाद्यते ।
ऐहिकामुष्मिकसुखभागिनी
न
भवतीत्यर्थः\* ॥ १३ ॥
जानामि
धर्मं
धर्मज्ञ
त्वां
जाने
सत्यवादिनम् ।
पुत्रशोकार्तया
तत्तु
मया
किमपि
भाषितम् ॥ १४ ॥
शोको
नाशयते
धैर्यं
शोको
नाशयते
श्रुतम् ।
शोको
नाशयते
सर्वं
नास्ति
शोकसमो
रिपुः ॥ १५ ॥
शक्य
आपतितः
सोढुं
प्रहारो
रिपुहस्ततः ।
सोढुमापतितः
शोकः
सुसूक्ष्मोपि
न
शक्यते ॥ १६ ॥
वनवासाय
रामस्य
पञ्चरात्रोऽद्य
गण्यते ।
यः
शोकहतहर्षायाः
पञ्चवर्षोपमो
मम ॥ १७ ॥
तं
हि
चिन्तयमानायाः
शोकोऽयं
हृदि
वर्द्धते ।
नदीनामिव
वेगेन
समुद्रसलिलं
महत् ॥ १८ ॥
एवं
हि
कथयन्त्यास्तु
कौसल्यायाः
शुभं
वचः ।
मन्दरश्मिरभूत्
सूर्यो
रजनी
चाभ्यवर्तत ॥ १९ ॥
तथा
प्रसादितो
वाक्यैर्देव्या
कौसल्यया
नृपः ।
शोकेन
च
समाक्रान्तो
निद्राया
वशमेयिवान् ॥ २० ॥