प्रतिबुद्धो
मुहूर्तेन
शोकोपहतचेतनः ।
अथ
राजा
दशरथः
स
चिन्तामभ्यपद्यत ॥ १ ॥
रामलक्ष्मणयोश्चैव
विवासाद्वासवोपमम् ।
आविवेशोपसर्गस्तं
तमः
सूर्यमिवासुरम् ॥ २ ॥
सभार्ये
निर्गते
रामे
कौसल्यां
कोसलेश्वरः ।
विवक्षुरसितापाङ्गां
स्मृत्वा
दुष्कृतमात्मनः ॥ ३ ॥
स
राजा
रजनीं
षष्ठीं
रामे
प्रव्राजिते
वनम् ।
अर्धरात्रे
दशरथः
संस्मरन्
दुष्कृतं
कृतम् ॥ ४ ॥
स
राजा
पुत्रशोकार्तः
स्मृत्वा
दुष्कृतमात्मनः ।
कौसल्यां
पुत्रशोकार्तामिदं
वचनमब्रवीत् ॥ ५ ॥
यदाचरति
कल्याणि
शुभं
वा
यदि
वाऽशुभम् ।
तदेव
लभते
भद्रे
कर्ता
कर्मजमात्मनः ॥ ६ ॥
गुरुलाघवमर्थानामारम्भे
कर्मणां
फलम् ।
दोषं
वा
यो
न
जानाति
स
बाल
इति
होच्यते ॥ ७ ॥
कश्चिदाम्रवणं
छित्त्वा
पलाशांश्च
निषिञ्चति ।
पुष्पं
दृष्ट्वा
फले
गृध्नुः
स
शोचति
फलागमे ॥ ८ ॥
अविज्ञाय
फलं
यो
हि
कर्मत्वेवानुधावति ।
स
शोचेत्
फलवेलायां
यथा
किंशुकसेचकः ॥ ९ ॥
सोऽहमाम्रवणं
छित्त्वा
पलाशांश्च
न्यषेचयम् ।
रामं
फलागमे
त्यक्त्वा
पश्चाच्छोचामि
दुर्मतिः ॥ १० ॥
लब्धशब्देन
कौसल्ये
कुमारेण
धनुष्मता ।
कुमारः
शब्दवेधीति
मया
पापमिदं
कृतम् ॥ ११ ॥
तदिदं
मेऽनुसंप्राप्तं
देवि
दुःखं
स्वयङ्कृतम् ।
सम्मोहादिह
बालेन
यथा
स्याद्भक्षितं
विषम् ॥ १२ ॥
यथान्यः
पुरुषः
कश्चित्
पलाशैर्मोहितो
भवेत् ।
एवं
ममाप्याविज्ञातं
शब्दवेध्यमयं
फलम् ॥ १३ ॥
देव्यनूढा
त्वमभवो
युवराजो
भवाम्यहम् ।
ततः
प्रावृडनुप्राप्ता
मदकामविवर्धनी ॥ १४ ॥
उपास्य
हि
रसान्
भौमांस्तप्त्वा
च
जगदंशुभिः ।
परेताचरितां
भीमां
रविराविशते
दिशम् ॥ १५ ॥
उष्णमन्तर्दधे
सद्यः
स्निग्धा
ददृशिरे
घनाः ।
ततो
जहृषिरे
सर्वे
भेकसारङ्गबर्हिणः ॥ १६ ॥
क्लिन्नपक्षोत्तराः
स्नाताः
कृच्छ्रादिव
पतत्ित्रणः ।
वृष्टिवातावधूताग्रान्
पादपानभिपेदिरे ॥ १७ ॥
पतितेनाम्भसा
च्छन्नः
पतमानेन
चासकृत् ।
आबभौ
मत्तसारङ्गस्तोयराशिरिवाचलः ॥ १८ ॥
पाण्डुरारुणवर्णानि
स्रोतांसि
विमलान्यपि ।
सुस्रुवुर्गिरिधातुभ्यः
सभस्मानि
भुजङ्गवत् ॥ १९ ॥
तस्मिन्नतिसुखे
काले
धनुष्मानिषुमान्
रथी ।
व्यायामकृतसङ्कल्पः
सरयूमन्वगां
नदीम् ॥ २० ॥
निपाने
महिषं
रात्रौ
गजं
वाभ्यागतं
नदीम् ।
अन्यं
वा
श्वापदं
कञ्चिज्जिघांसुरजितेन्द्रियः ॥ २१ ॥
अथान्धकारे
त्वश्रौषं
जले
कुम्भस्य
पूर्यतः ।
अचक्षुर्विषये
घोषं
वारणस्येव
नर्दतः ॥ २२ ॥
ततोऽहं
शरमुद्धृत्य
दीप्तमाशीविषोपमम् ।
शब्दं
प्रति
गजप्रेप्सुरभिलक्ष्य
त्वपातयम् ॥ २३ ॥
हाहेति
पततस्तोये
बाणाभिहतमर्मणः ।
व्यक्ता
वाक्
प्रादुरासीदिति
सम्बन्धः\* ॥ २४ ॥
तस्मिन्निपतिते
बाणे
वागभूत्तत्र
मानुषी ।
कथमस्मद्विधे
शस्त्रं
निपते
त्तु
तपस्विनि ॥ २५ ॥
प्रविविक्तां
नदीं
रात्रावुदाहारोऽहमागतः ।
इषुणाभिहतः
केन
कस्य
वा
किं
कृतं
मया ॥ २६ ॥
ऋषेर्हि
न्यस्तदण्डस्य
वने
वन्येन
जीवतः ।
कथं
नु
शस्त्रेण
वधो
मद्विधस्य
विधीयते ॥ २७ ॥
जटाभारधरस्यैव
वल्कलाजिनवाससः ।
को
वधेन
ममार्थी
स्यात्
किं
वास्यापकृतं
मया ॥ २८ ॥
एवं
निष्फलमारब्धं
केवलानर्थसंहितम् ।
न
कश्चित्
साधु
मन्येत
यथैव
गुरुतल्पगम् ॥ २९ ॥
नाहं
तथानुशोचामि
जीवितक्षयमात्मनः ।
मातरं
पितरं
चोभावनुशोचामि
मद्वधे ॥ ३० ॥
तदेतन्मिथुनं
वृद्धं
चिरकालभृतं
मया ।
मयि
पञ्चत्वमापन्ने
कां
वृत्तिं
वर्तयिष्यति ॥ ३१ ॥
वृद्धौ
च
मातापितरावहं
चैकेषुणा
हतः ।
केन
स्म
निहताः
सर्वे
सुबालेनाकृतात्मना ॥ ३२ ॥
कराभ्यां
सशरं
चापं
व्यथितस्यापद्भुवि\* ।
श्रुत्वा
करुणाजनकं
वचः
श्रुत्वा,
स्थितस्येति
शेषः\* ॥ ३३ ॥
तस्याहं
करुणं
श्रुत्वा
निशि
लालपतो
बहु ।
सम्भ्रान्तः
शोकवेगेन
भृशमासं
विचेतनः ॥ ३४ ॥
तं
देशमहमागम्य
दीनसत्त्वः
सुदुर्मनाः ।
अपश्यमिषुणा
तीरे
सरय्वास्तापसं
हतम् ॥ ३५ ॥
अवकीर्णजटाभारं
प्रविद्धकलशोदकम् ।
पांसुशोणितदिग्धाङ्गं
शयानं
शल्यपीडितम् ॥ ३६ ॥
स
मामुद्वीक्ष्य
नेत्राभ्यां
त्रस्तमस्वस्थचेतसम् ।
इत्युवाच
ततः
क्रूरं
दिधक्षन्निव
तेजसा ॥ ३७ ॥
किं
तवापकृतं
राजन्
वने
निवसता
मया ।
जिहीर्षुरम्भो
गुर्वर्थं
यदहं
ताडितस्त्वया ॥ ३८ ॥
एकेन
खलु
बाणेन
मर्मण्यभिहते
मयि ।
द्वावन्धौ
निहतौ
वृद्धौ
माता
जनयिता
च
मे ॥ ३९ ॥
तौ
कथं
दुर्बलावन्धौ
मत्प्रतीक्षौ
पिपासितौ ।
चिरमाशाकृतां
तृष्णां
कष्टां
सन्धारयिष्यतः ॥ ४० ॥
न
नूनं
तपसो
वास्ति
फलयोगः
श्रुतस्य
वा ।
पिता
यन्मां
न
जानाति
शयानं
पतितं
भुवि ॥ ४१ ॥
जान्ननपि
च
किं
कुर्यादशक्तिरपरिक्रमः ।
भिद्यमानमिवाशक्तस्त्रातुमन्यो
नगो
नगम् ॥ ४२ ॥
पितुस्त्वमेव
मे
गत्वा
शीघ्रमाचक्ष्व
राघव ।
न
त्वामनुदहेत्
क्रुद्धो
वनं
वह्निरिवैधितः ॥ ४३ ॥
इयमेकपदी
राजन्
यतो
मे
पितुराश्रमः ।
तं
प्रसादय
गत्वा
त्वं
न
त्वां
स
कुपितः
शपेत् ॥ ४४ ॥
विशल्यं
कुरु
मां
राजन्
मर्म
मे
निशितः
शरः ।
रुणद्धि
मृदु
सोत्सेधं
तीरमम्बुरयो
यथा ॥ ४५ ॥
सशल्यः
क्लिश्यते
प्राणैर्विशल्यो
विनशिष्यति ।
इति
मामविशच्चिन्ता
तस्य
शल्यापकर्षणे ॥ ४६ ॥
दुःखितस्य
च
दीनस्य
मम
शोकातुरस्य
च ।
लक्षयामास
हृदये
चिन्तां
मुनिसुतस्तदा ॥ ४७ ॥
ताम्यमानः
स
मां
कृच्छ्रादुवाच
परमार्तवत् ।
सीदमानो
विवृत्ताङ्गो
वेष्टमानो
गतः
क्षयम् ॥ ४८ ॥
संस्तभ्य
शोकं
धैर्येण
स्थिरचित्तो
भवाम्यहम् ।
ब्रह्महत्याकृतं
पापं
हृदयादपनीयताम् ॥ ४९ ॥
न
द्विजातिरहं
राजन्
माभूत्ते
मनसो
व्यथा ।
शूद्रायामस्मि
वैश्येन
जातो
जनपदाधिप ॥ ५० ॥
इतीव
वदतः
कृच्छ्राद्बाणाभिहतमर्मणः ।
विघूर्णतो
विचेष्टस्य
वेपमानस्य
भूतले ॥ ५१ ॥
तस्य
त्वानम्यमानस्य
तं
बाणमहमुद्धरम् ।
स
मामुद्वीक्ष्य
सन्त्रस्तो
जहौ
प्राणांस्तपोधनः ॥ ५२ ॥
जलार्द्रगात्रं
तु
विलप्य
कृच्छ्रान्मर्मव्रणं
सन्ततमुच्छ्वसन्तम् ।
ततः
सरय्वां
तमहं
शयानं
समीक्ष्य
भद्रेऽस्मि
भृशं
विषण्णः ॥ ५३ ॥