अथ
रात्र्यां
व्यतीतायां
प्रातरेवापरेऽहनि ।
वन्दिनः
पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम् ॥ १ ॥
सूताः
परमसंस्कारामङ्गलाश्चोत्तमश्रुताः ।
गायकाः
स्तुतिशीलाश्च
निगदन्तः
पृथक्
पृथक् ॥ २ ॥
राजानं
स्तुवतां
तेषामुदात्ताभिहिताशिषाम् ।
प्रासादाभोगविस्तीर्णः
स्तुतिशब्दो
ह्यवर्तत ॥ ३ ॥
ततस्तु
स्तुवतां
तेषां
सूतानां
पाणिवादकाः ।
अपदानान्युदाहृत्य
पाणिवादानवादयन् ॥ ४ ॥
तेन
शब्देन
विहगाः
प्रतिबुद्धा
विसस्वनुः ।
शाखास्थाः
पञ्जरस्थाश्च
ये
राजकुलगोचराः ॥ ५ ॥
व्याहृताः
पुण्यशब्दाश्च
वीणानां
चापि
निस्वनाः ।
आशीर्गेयं
च
गाथानां
पूरयामास
वेश्म
तत् ॥ ६ ॥
ततः
शुचिसमाचाराः
पर्युपस्थानकोविदाः ।
स्त्रीवर्षधरभूयिष्ठा
उपतस्थुर्यथापुरम् ॥ ७ ॥
हरिचन्दनसंपृक्तमुदकं
काञ्चनैर्घटैः ।
आनिन्युः
स्नानशिक्षाज्ञा
यथाकालं
यथाविधि ॥ ८ ॥
मङ्गलालम्भनीयानि
प्राशनीयान्युपस्करान् ।
उपनिन्युस्तथाप्यन्याः
कुमारीबहुलाः
स्त्रियः ॥ ९ ॥
सर्वलक्षणसम्पन्नं
सर्वं
विधिवदर्चितम् ।
सर्वं
सुगुणलक्ष्मीवत्तद्बभूवाभिहारिकम् ॥ १० ॥
तत्तु
सूर्योदयं
यावत्सर्वं
परिसमुत्सुकम् ।
तस्थावनुपसम्प्राप्तं
किंस्विदित्युपशङ्कितम् ॥ ११ ॥
अथा
याः
कोसलेन्द्रस्य
शयनं
प्रत्यनन्तराः ।
ताः
स्त्रियस्तु
समागम्य
भर्तारं
प्रत्यबोधयन् ॥ १२ ॥
तथाप्युचितवृत्तास्ता
विनयेन
नयेन
च ।
न
ह्यस्य
शयनं
स्पृष्ट्वा
किञ्चिदप्युपलेभिरे ॥ १३ ॥
ता
वेपथुपरीताश्च
राज्ञः
प्राणेषु
शङ्किताः ।
प्रतिस्रोतस्तृणाग्राणां
सदृशं
सञ्चकाशिरे ॥ १४ ॥
अथ
संवेपमानानां
स्त्रीणां
दृष्ट्वा
च
पार्थिवम् ।
यत्तदाशङ्कितं
पापं
तस्य
जज्ञे
विनिश्चयः ॥ १५ ॥
कौसल्या
च
सुमित्रा
च
पुत्रशोकपराजिते ।
प्रसुप्ते
न
प्रबुध्येते
यथाकालसमन्विते ॥ १६ ॥
निष्प्रभा
च
विवर्णा
च
सन्ना
शोकेन
सन्नता ।
न
व्यराजत
कौसल्या
तारेव
तिमिरावृता ॥ १७ ॥
कौसल्यानन्तरं
राज्ञः
सुमित्रा
तदनन्तरम् ।
न
स्म
विभ्राजते
देवी
शोकाश्रुलुलितानना ॥ १८ ॥
ते
च
दृष्ट्वा
तथा
सुप्ते
उभे
देव्यौ
च
तु
नृपम् ।
सुप्तमेवोद्गतप्राणमन्तःपुरमदृश्यत ॥ १९ ॥
ततः
प्रचुक्रुशुर्दीनाः
सस्वरं
ता
वराङ्गनाः ।
करेणव
इवारण्ये
स्थानप्रच्युतयूथपाः ॥ २० ॥
तासामाक्रन्दशब्देन
सहसोद्गतचेतने ।
कौसल्या
च
सुमित्रा
च
त्यक्तनिद्रे
बभूवतुः ॥ २१ ॥
कौसल्या
च
सुमित्रा
च
दृष्ट्वा
स्पृष्ट्वा
च
पार्थिवम् ।
हा
नाथेति
परिक्रुश्य
पेततुर्धरणीतले ॥ २२ ॥
सा
कोसलेन्द्रदुहिता
वेष्टमाना
महीतले ।
न
बभ्राज
रजोध्वस्ता
तारेव
गगनाच्च्युता ॥ २३ ॥
नृपे
शान्तगुणे
जाते
कौसल्यां
पतितां
भुवि ।
अपश्यंस्ताः
स्त्रियः
सर्वा
हतां
नागवधूमिव ॥ २४ ॥
ततः
सर्वा
नरेन्द्रस्य
कैकेयीप्रमुखाः
स्त्रियः ।
रुदन्त्यः
शोकसन्तप्ता
निपेतुर्गतचेतनाः ॥ २५ ॥
ताभिः
स
बलवान्नादः
क्रोशन्तीभिरनुद्रुतः ।
येन
स्थिरीकृतं
भूयस्तद्गृहं
समनादयत् ॥ २६ ॥
तत्समुत्त्रस्तसम्भ्रान्तं
पर्युत्सुकजनाकुलम् ।
सर्वतस्तुमुलाक्रन्दं
परितापार्तबान्धवम् ॥ २७ ॥
सद्योप
निपतितानन्दं
दीनविक्लवदर्शनम् ।
बभूव
नरदेवस्य
सद्म
दिष्टान्तमीयुषः ॥ २८ ॥
अतीतमाज्ञाय
तु
पार्थिवर्षभं
यशस्विनं
सम्परिवार्यपत्नयः ।
भृशं
रुदन्त्यः
करुणं
सुदुःखिताः
प्रगृह्य
बाहू
व्यलपन्ननाथवत् ॥ २९ ॥