तमग्निमिव
संशान्तमम्बुहीनमिवार्णवम् ।
हतप्रभमिवादित्यं
स्वर्गस्थं
प्रेक्ष्य
पार्थिवम् ॥ १ ॥
कौसल्या
बाष्पपूर्णाक्षी
विविधं
शोककर्शिता ।
उपगृह्य
शिरो
राज्ञः
कैकेयीं
प्रत्यभाषत ॥ २ ॥
सकामा
भव
कैकेयि
भुङ्क्ष्व
राज्यमकण्टकम् ।
त्यक्त्वा
राजानमेकाग्रा
नृशंसे
दुष्टचारिणि ॥ ३ ॥
विहाय
मां
गतो
रामो
भर्ता
च
स्वर्गतो
मम ।
विपथे
सार्थहीनेव
नाहं
जीवितुमुत्सहे ॥ ४ ॥
भर्तारं
तं
परित्यज्य
का
स्त्रीदैवतमात्मनः ।
इच्छेज्जीवितुमन्यत्र
कैकेय्यास्त्यक्तधर्मणः ॥ ५ ॥
न
लुब्धो
बुद्ध्यते
दोषान्
किम्पाकमिव
भक्षयन् ।
कुब्जानिमित्तं
कैकेय्या
राघवाणां
कुलं
हतम् ॥ ६ ॥
अनियोगे
नियुक्तेन
राज्ञा
रामं
विवासितम् ।
सभार्यं
जनकः
श्रुत्वा
परितप्स्यत्यहं
यथा ॥ ७ ॥
स
मामनाथां
विधवां
नाद्य
जानाति
धार्मिकः ।
रामः
कमलपत्राक्षो
जीवनाशमितो
गतः ॥ ८ ॥
विदेहराजस्य
सुता
तथा
सीता
तपस्विनी ।
दुःखस्यानुचिता
दुःखं
वने
पर्युद्विजिष्यति ॥ ९ ॥
नदतां
भीमघोषाणां
निशासु
मृगपक्षिणाम् ।
निशम्य
नूनं
सन्त्रस्ता
राघवं
संश्रयिष्यति ॥ १० ॥
वृद्धश्चैवाल्पपुत्रश्च
वेदैहीमनुचिन्तयन् ।
सोऽपि
शोकसमाविष्टो
ननु
त्यक्ष्यति
जीवितम् ॥ ११ ॥
साहमद्यैव
दिष्टान्तं
गमिष्यामि
पतिव्रता ।
इदं
शरीरमालिङ्ग्य
प्रवेक्ष्यामि
हुताशनम् ॥ १२ ॥
तां
ततः
संपरिष्वज्य
विलपन्तीं
तपस्विनीम् ।
व्यपनीय
सुदुःखार्तां
कौसल्यां
व्यावहारिकाः ॥ १३ ॥
तैलद्रोण्यामथामात्याः
संवेश्य
जगतीपतिम् ।
राज्ञः
सर्वाण्यथादिष्टाश्चक्रुः
कर्माण्यनन्तरम् ॥ १४ ॥
न
तु
सङ्कलनं
राज्ञो
विना
पुत्रेण
मन्त्रिणः ।
सर्वज्ञाः
कर्तुमीषुस्ते
ततो
रक्षन्ति
भूमिपम् ॥ १५ ॥
तैलद्रोण्यां
तु
सचिवैः
शायितं
तं
नराधिपम् ।
हा
मृतोऽयमिति
ज्ञात्वा
स्त्रियस्ताः
पर्यदेवयन् ॥ १६ ॥
बाहूनुद्यम्य
कृपणा
नेत्रप्रस्रवणैर्मुखैः ।
रुदन्त्यः
शोकसन्तप्ताः
कृपणं
पर्यदेवयन् ॥ १७ ॥
हा
महाराज
रामेण
सततं
प्रियवादिना ।
विहीनाः
सत्यसन्धेन
किमर्थं
विजहासि
नः ॥ १८ ॥
कैकेय्या
दुष्टभावाया
राघवेण
वियोजिताः ।
कथं
पतिघ्न्या
वत्स्यामः
समीपे
विधवा
वयम् ॥ १९ ॥
स
हि
नाथः
सदास्माकं
तव
च
प्रभुरात्मवान् ।
वनं
रामो
गतः
श्रीमान्
विहाय
नृपतिश्रियम् ॥ २० ॥
त्वया
तेन
च
वीरेण
विना
व्यसनमोहिताः ।
कथं
वयं
निवत्स्यामः
कैकेय्या
च
विदूषिताः ॥ २१ ॥
यया
तु
राजा
रामश्च
लक्ष्मणश्च
महाबलः ।
सीतया
सह
सन्त्यक्ताः
स
कमन्यं
न
हास्यति ॥ २२ ॥
ता
बाष्पेण
च
संवीताः
शोकेन
विपुलेन
च ।
व्यवेष्टन्त
निरानन्दा
राघवस्य
वरस्त्रियः ॥ २३ ॥
निशा
चन्द्रविहीनेव
स्त्रीव
भर्तृविवर्जिता ।
पुरी
नाराजतायोध्या
हीना
राज्ञा
महात्मना ॥ २४ ॥
बाष्पपर्याकुलजना
हाहाभूतकुलाङ्गना ।
शून्यचत्वरवेश्मान्ता
न
बभ्राज
यथापुरम् ॥ २५ ॥
गते
तु
शोकात्
त्रिदिवं
नराधिपे
महीतलस्थासु
नृपाङ्गनासु
च ।
निवृत्तचारः
सहसा
गतो
रविः
प्रवृत्तचारा
रजनी
ह्युपस्थिता ॥ २६ ॥
ऋते
तु
पुत्राद्दहनं
महीपतेर्न
रोचयन्ते
सुहृदः
समागताः ।
इतीव
तस्मिन्
शयने
न्यवेशयन्
विचिन्त्य
राजानमचिन्त्यदर्शनम् ॥ २७ ॥
गतप्रभा
द्यौरिव
भास्करं
विना
व्यपेतनक्षत्रगणेव
शर्वरी ।
पुरी
बभासे
रहिता
महात्मना
न
चास्रकण्ठाकुलमार्ग
चत्वरा ॥ २८ ॥
नराश्च
नार्यश्च
समेत्य
सङ्घशो
विगर्हमाणा
भरतस्य
मातरम् ।
तदा
नगर्यां
नरदेवसङ्क्षये
बभूवुरार्ता
न
च
शर्म
लेभिरे ॥ २९ ॥