आक्रन्दितनिरानन्दा
सास्रकण्ठजनाकुला ।
अयोध्यायामवतता
सा
व्यतीयाय
शर्वरी ॥ १ ॥
व्यतीतायां
तु
शर्वर्यामादित्यस्योदये
ततः ।
समेत्य
राजकर्तारः
सभामीयुर्द्विजातयः ॥ २ ॥
मार्कण्डेयोऽथ
मौद्गल्यो
वामदेवश्च
काश्यपः ।
कात्यायनो
गौतमश्च
जाबालिश्च
महायशाः ॥ ३ ॥
एते
द्विजाः
सहामात्यैः
पृथग्वाचमुदीरयन् ।
वसिष्ठमेवाभिमुखाः
श्रेष्ठं
राजपुरोहितम् ॥ ४ ॥
अतीता
शर्वरी
दुःखं
या
नो
वर्षशतोपमा ।
अस्मिन्पञ्चत्वमापन्ने
पुत्रशोकेन
पार्थिवे ॥ ५ ॥
स्वर्गतश्च
महाराजो
रामश्चारण्यमाश्रितः ।
लक्ष्मणश्चापि
तेजस्वी
रामेणैव
गतः
सह ॥ ६ ॥
उभौ
भरतशत्रुघ्नौ
कैकयेषु
परन्तपौ ।
पुरे
राजगृहे
रम्ये
मातामहनिवेशने ॥ ७ ॥
इक्ष्वाकूणामिहाद्यैव
कश्चिद्राजा
विधीयताम् ।
अराजकं
हि
नो
राष्ट्रं
न
विनाशमवाप्नुयात् ॥ ८ ॥
नाराजके
जनपदे
विद्युन्माली
महास्वनः ।
अभिवर्षति
पर्जन्यो
महीं
दिव्येन
वारिणा ॥ ९ ॥
नाराजके
जनपदे
बीजमुष्टिः
प्रकीर्यते ।
नाराजके
पितुः
पुत्रो
भार्या
वा
वर्तते
वशे ॥ १० ॥
नाराजके
धनं
चास्ति
नास्ति
भार्याप्यराजके ।
इदमत्याहितं
चान्यत्
कुतः
सत्यमराजके ॥ ११ ॥
नाराजके
जनपदे
कारयन्ति
सभां
नराः ।
उद्यानानि
च
रम्याणि
हृष्टाः
पुण्यगृहाणि
च ॥ १२ ॥
नाराजके
जनपदे
यज्ञशीला
द्विजातयः ।
सत्त्राण्यन्वासते
दान्ता
ब्राह्मणाः
संशितव्रताः ॥ १३ ॥
नाराजके
जनपदे
महायज्ञेषु
यज्वनः ।
ब्राह्मणा
वसुसम्पन्ना
विसृजन्त्याप्तदक्षिणाः ॥ १४ ॥
नाराजके
जनपदे
प्रभूतनटनर्तकाः ।
उत्सवाश्च
समाजाश्च
वर्धन्ते
राष्ट्रवर्धनाः ॥ १५ ॥
नाराजके
जनपदे
सिद्धार्था
व्यवहारिणः ।
कथाभिरनुज्यन्ते
कथाशीलाः
कथाप्रियैः ॥ १६ ॥
नाराजके
जनपदे
उद्यानानि
समागताः ।
सायाह्ने
क्रीडितुं
यान्ति
कुमार्यो
हेमभूषिताः ॥ १७ ॥
नाराजके
जनपदे
वाहनैः
शीघ्रगामिभिः ।
नरा
निर्यान्त्यरण्यानि
नारीभिः
सह
कामिनः ॥ १८ ॥
नाराजके
जनपदे
धनवन्तः
सुरक्षिताः ।
शेरते
विवृतद्वाराः
कृषिगोरक्षजीविनः ॥ १९ ॥
नाराजके
जनपदे
बद्धघण्टाविषाणिनः ।
अटन्ति
राजमार्गेषु
कुञ्जराः
षष्टिहायनाः ॥ २० ॥
नाराजके
जनपदे
शरान्
सततमस्यताम् ।
श्रूयते
तलनिर्घोष
इष्वस्त्राणामुपासने ॥ २१ ॥
नाराजके
जनपदे
वणिजो
दूरगामिनः ।
गच्छन्ति
क्षेममध्वानं
बहुपण्यसमाचिताः ॥ २२ ॥
नाराजके
जनपदे
चरत्येकचरो
वशी ।
भावयन्नात्मनात्मानं
यत्र
सांयगृहो
मुनिः ॥ २३ ॥
नाराजके
जनपदे
योगक्षेमं
प्रवर्तते ।
न
चाप्यराजके
सेना
शत्रून्
विषहते
युधि ॥ २४ ॥
नाराजके
जनपदे
हृष्टैः
परमवाजिभिः ।
नराः
संयान्ति
सहसा
रथैश्च
परिमण्डिताः ॥ २५ ॥
नाराजके
जनपदे
नराः
शास्त्रविशारदाः ।
संवदन्तोऽवतिष्ठन्ते
वनेषूपवनेषु
च ॥ २६ ॥
नाराजके
जनपदे
माल्यमोदकदक्षिणाः ।
देवताभ्यर्चनार्थाय
कल्प्यन्ते
नियतैर्जनैः ॥ २७ ॥
नाराजके
जनपदे
चन्दनागरुरूषिताः ।
राजपुत्रा
विराजन्ते
वसन्त
इव
शाखिनः ॥ २८ ॥
यथा
ह्यनुदका
नद्यो
यथा
वाप्यतृणं
वनम् ।
अगोपाला
यथा
गावस्तथा
राष्ट्रमराजकम् ॥ २९ ॥
ध्वजो
रथस्य
प्रज्ञानं
धूमो
ज्ञानं
विभावसोः ।
तेषां
यो
नो
ध्वजो
राजा
स
देवत्वमितो
गतः ॥ ३० ॥
नाराजके
जनपदे
स्वकं
भवति
कस्यचित् ।
मत्स्या
इव
नरा
नित्यं
भक्षयन्ति
परस्परम् ॥ ३१ ॥
ये
हि
सम्भिन्नमर्यादा
नास्तिकाश्छिन्नसंशयाः ।
तेऽपि
भावाय
कल्पन्ते
राजदण्डनिपीडिताः ॥ ३२ ॥
यथा
दृष्टिः
शरीरस्य
नित्यमेव
प्रवर्तते ।
तथा
नरेन्द्रो
राष्ट्रस्य
प्रभवः
सत्यधर्मयोः ॥ ३३ ॥
राजा
सत्यं
च
धर्मश्च
राजा
कुलवतां
कुलम् ।
राजा
माता
पिता
चैव
राजा
हितकरो
नृणाम् ॥ ३४ ॥
यमो
वैश्रवणः
शक्रो
वरुणश्च
महाबलः ।
विशेष्यन्ते
नरेन्द्रेण
वृत्तेन
महता
ततः ॥ ३५ ॥
अहो
तम
इवेदं
स्यान्न
प्रज्ञायेत
किञ्चन ।
राजा
चेन्न
भवेल्लोके
विभजन्
साध्वसाधुनी ॥ ३६ ॥
जीवत्यपि
महाराजे
तवैव
वचनं
वयम् ।
नातिक्रमामहे
सर्वे
वेलां
प्राप्येव
सागरः ॥ ३७ ॥
स
नः
समीक्ष्य
द्विजवर्य
वृत्तं
नृपं
विना
राज्यमरण्यभूतम् ।
कुमारमिक्ष्वाकुसुतं
वदान्यं
त्वमेव
राजानमिहाभिषिञ्च ॥ ३८ ॥