यामेव
रात्रिं
ते
दूताः
प्रविशन्ति
स्म
तां
पुरीम् ।
भरतेनापि
तां
रात्रिं
स्वप्नो
दृष्टोऽयमप्रियः ॥ १ ॥
व्युष्टामेव
तु
तां
रात्रिं
दृष्ट्वा
तं
स्वप्नमप्रियम् ।
पुत्रो
राजाधिराजस्य
सुभृशं
पर्यतप्यत ॥ २ ॥
तप्यमानं
समाज्ञाय
वयस्याः
प्रियवादिनः ।
आयासं
हि
विनेष्यन्तः
सभायां
चक्रिरे
कथाः ॥ ३ ॥
वादयन्ति
तथा
शान्तिं
लासयन्त्यपि
चापरे ।
नाटकान्यपरे
प्राहुर्हास्यानि
विविधानि
च ॥ ४ ॥
स
तैर्महात्मा
भरतः
सखिभिः
प्रियवादिभिः ।
गोष्ठीहास्यानि
कुर्वद्भिर्न
प्राहृष्यत
राघवः ॥ ५ ॥
तमब्रवीत्प्रियसखो
भरतं
सखिभिर्वृतम् ।
सुहृद्भिः
पर्युपासीनः
किं
सखे
नानुमोदसे ॥ ६ ॥
एवं
ब्रुवाणं
सुहृदं
भरतः
प्रत्युवाच
ह ।
श्रृणु
त्वं
यन्निमित्तं
मे
दैन्यमेतदुपागतम् ॥ ७ ॥
स्वप्ने
पितरमद्राक्षं
मलिनं
मुक्तमूर्द्धजम् ।
पतन्तमद्रिशिखरात्
कलुषे
गोमयह्रदे ॥ ८ ॥
प्लवमानश्च
मे
दृष्टः
स
तस्मिन्
गोमयह्रदे ।
पिबन्नञ्जलिना
तैलं
हसन्नपि
मुहुर्मुहुः ॥ ९ ॥
ततस्तिलौदनं
भुक्त्वा
पुनःपुनरधःशिराः ।
तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥
स्वप्नेऽपि
सागरं
शुष्कं
चन्द्रं
च
पतितं
भुवि ।
उपरुद्धां
च
जगतीं
तमसेव
समावृताम् ॥ ११ ॥
औपवाह्यस्य
नागम्य
विषाणं
शकलीकृतम् ।
सहसा
चापि
संशान्तं
ज्वलितं
जातवेदसम् ॥ १२ ॥
अवतीर्णां
च
पृथिवीं
शुष्कांश्च
विविधान्
द्रुमान् ।
अहं
पश्यामि
विध्वस्तान्
सधूमांश्चापि
पर्वतान् ॥ १३ ॥
पीठे
कार्ष्णायसे
चैनं
निषण्णं
कृष्णवाससम् ।
प्रहसन्ति
स्म
राजानं
प्रमदाः
कृष्णपिङ्गलाः ॥ १४ ॥
त्वरमाणश्च
धर्मात्मा
रक्तमाल्यानुलेपनः ।
रथेन
खरयुक्तेन
प्रयातो
दक्षिणामुखः ॥ १५ ॥
प्रहसन्तीव
राजानं
प्रमदा
रक्तवासिनी ।
प्रकर्षन्ती
मया
दृष्टा
राक्षसी
विकृतानना ॥ १६ ॥
एवमेतन्मया
दृष्टमिमां
रात्रिं
भयावहाम् ।
अहं
रामोऽथवा
राजा
लक्ष्मणो
वा
मरिष्यति ॥ १७ ॥
नरो
यानेन
यः
स्वप्ने
खरयुक्तेन
याति
हि ।
अचिरात्तस्य
धूमाग्रं
चितायां
सम्प्रदृश्यते ॥ १८ ॥
एतन्निमित्तं
दीनोऽहं
तन्न
वः
प्रतिपूजये ।
शुष्यतीव
च
मे
कण्ठो
न
स्वस्थमिव
मे
मनः ॥ १९ ॥
न
पश्यामि
भयस्थानं
भयं
चैवोपधारये ।
भ्रष्टश्च
स्वरयोगो
मे
च्छाया
चोपहता
मम ॥ २० ॥
जुगुप्सन्निव
चात्मानं
न
च
पश्यामि
कारणम् ।
इमां
हि
दुःस्वप्नगतिं
निशाम्य
तामनेकरूपामवितर्कितां
पुरा ॥ २१ ॥
भयं
महत्तद्धृदयान्न
याति
मे
विचिन्त्य
राजानमचिन्त्यदर्शनम् ॥ २२ ॥