अपश्यंस्तु
ततस्तत्र
पितरं
पितुरालये ।
जगाम
भरतो
द्रष्टुं
मातरं
मातुरालये ॥ १ ॥
अनुप्राप्तं
तु
तं
दृष्ट्वा
कैकेयी
प्रोषितं
सुतम् ।
उत्पपात
तदा
हृष्टा
त्यक्त्वा
सौवर्णमासनम् ॥ २ ॥
स
प्रविश्यैव
धर्मात्मा
स्वगृहं
श्रीविवर्जितम् ।
भरतः
प्रतिजग्राह
जनन्याश्चरणौ
शुभौ ॥ ३ ॥
सा
तं
मूर्द्धन्युपाघ्राया
परिष्वज्य
यशस्विनम् ।
अङ्के
भरतमारोप्य
प्रष्टुं
समुपचक्रमे ॥ ४ ॥
अपि
नाध्वश्रमः
शीघ्रं
रथेनापततस्तव\* ।
आर्यकः
मातामहः ॥ ५ ॥
आर्यकस्ते
सुकुशली
युधाजिन्मातुलस्तव ।
प्रवासाच्च
सुखं
पुत्र
सर्वं
मे
वक्तुमर्हसि ॥ ६ ॥
एवं
पृष्टस्तु
कैकेय्या
प्रियं
पार्थिवनन्दनः ।
आचष्ट
भरतः
सर्वं
मात्रे
राजीवलोचनः ॥ ७ ॥
अद्य
मे
सप्तमी
रात्रिश्च्युतस्यार्यकवेश्मनः ।
अम्बायाः
कुशली
तातो
युधाजिन्मातुलश्च
मे ॥ ८ ॥
यन्मे
धनं
च
रत्नं
च
ददौ
राजा
परन्तपः ।
परिश्रान्तं
पथ्यभवत्
ततोऽहं
पूर्वमागतः ॥ ९ ॥
राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः ।
यदहं
प्रष्टुमिच्छामि
तदम्बा
वक्तुमर्हति ॥ १० ॥
शून्योऽयं
शयनीयस्ते
पर्यङ्को
हेमभूषितः ।
न
चायमिक्ष्वाकुजनः
प्रहृष्टः
प्रतिभाति
मा ॥ ११ ॥
राजा
भवति
भूयिष्ठमिहाम्बाया
निवेशने ।
तमहं
नाद्य
पश्यामि
द्रष्टुमिच्छन्निहागतः ॥ १२ ॥
पितुर्ग्रहीष्ये
चरणौ
तं
ममाख्याहि
पृच्छतः ।
आहोस्विदम्ब
ज्येष्ठायाः
कौसल्याया
निवेशने ॥ १३ ॥
तं
प्रत्युवाच
कैकेयी
प्रियवद्
घोरमप्रियम् ।
अजानन्तं
प्रजानन्ती
राज्यलोभेन
मोहिता ॥ १४ ॥
या
गतिः
सर्वभूतानां
तां
गतिं
ते
पिता
गतः ।
राजा
महात्मा
तेजस्वी
यावजूकः
सतां
गतिः ॥ १५ ॥
तच्छ्रुत्वा
भरतो
वाक्यं
धर्माभिजनवाञ्छुचिः ।
पपात
सहसा
भूमौ
पितृशोकबलार्दितः ॥ १६ ॥
हा
हतोस्मीति
कृपणां
दीनां
वाचमुदीरयन् ।
निपपात
महाबाहुर्बाहू
विक्षिप्य
वीर्यवान् ॥ १७ ॥
ततः
शोकेन
संवीतः
पितुर्मरणदुःखितः ।
विललाप
महातेजा
भ्रान्ताकुलितचेतनः ॥ १८ ॥
एतत्
सुरुचिरं
भाति
पितुर्मे
शयनं
पुरा ।
शशिनेवामलं
रात्रौ
गगनं
तोयदात्यये ॥ १९ ॥
तदिदं
न
विभात्यद्य
विहीनं
तेन
धीमता ।
व्योमेव
शशिना
हीनमप्च्छुष्क
इव
सागरः ॥ २० ॥
बाष्पमुत्सृज्य
कण्ठेन
स्वार्त्तः
परमपीडितः ।
प्रच्छाद्य
वदनं
श्रीमद्वस्त्रेण
जयतां
वरः ॥ २१ ॥
तमार्त्तं
देवसङ्काशं
समीक्ष्य
पतितं
भुवि ।
निकृत्तमिव
सालस्य
स्कन्धं
परशुना
वने ॥ २२ ॥
मत्तमातङ्गसङ्काशं
चन्द्रार्कसदृशं
भुवः ।
उत्थापयित्वा
शोकार्तं
वचनं
चेदमब्रवीत् ॥ २३ ॥
उत्तिष्ठोत्तिष्ठ
किं
शेषे
राजन्नत्र
महायशः ।
त्वद्विधा
नहि
शोचन्ति
सन्तः
सदसि
सम्मताः ॥ २४ ॥
दानयज्ञाधिकारा
हि
शीलश्रुतिवचोनुगा ।
बुद्धिस्ते
बुद्धिसम्पन्न
प्रभेवार्कस्य
मन्दिरे ॥ २५ ॥
स
रुदित्वा
चिरं
कालं
भूमौ
विपरिवृत्य
च ।
जननीं
प्रत्युवाचेदं
शोकैर्बहुभिरावृतः ॥ २६ ॥
अभिषेक्ष्यति
राम
नु
राजा
यज्ञं
नु
यक्ष्यते ।
इत्यहं
कृतसङ्कल्पो
हृष्टो
यात्रामयासिषम् ॥ २७ ॥
तदिदं
ह्यन्यथाभूतं
व्यवदीर्णं
मनो
मम ।
पितरं
यो
न
पश्यामि
नित्यं
प्रियहितेरतम् ॥ २८ ॥
अम्ब
केनात्यगाद्राजा
व्याधिना
मय्यनागते ।
धन्या
रामादयः
सर्वे
यैः
पिता
संस्कृतः
स्वयम् ॥ २९ ॥
न
नूनं
मां
महाराजः
प्राप्तं
जानाति
कीर्तिमान् ।
उपजिघ्रेद्धि
मां
मूर्ध्नि
तातः
सन्नम्य
सत्वरम् ॥ ३० ॥
क्व
स
पाणिः
सुखस्पर्शस्तातस्याक्लिष्टकर्मणः ।
येन
मां
रजसा
ध्वस्तमभीक्ष्णं
परिमार्जति ॥ ३१ ॥
यो
मे
भ्राता
पिता
बन्धुर्यस्य
दासोऽस्मि
धीमतः ।
तस्य
मां
शीघ्रमाख्याहि
रामस्याक्लिष्टकर्मणः ॥ ३२ ॥
पिता
हि
भवति
ज्येष्ठो
धर्ममार्यस्य
जानतः ।
तस्य
पादौ
ग्रहीष्यामि
स
हीदानीं
गतिर्मम ॥ ३३ ॥
धर्मविद्धर्मनित्यश्च
सत्यसन्धो
दृढव्रतः ।
आर्यः
किमब्रवीद्राजा
पिता
मे
सत्यविक्रमः ॥ ३४ ॥
पश्चिमं
साधु
सन्देशमिच्छामि
श्रोतुमात्मनः ।
इति
पृष्टा
यथातत्त्वं
कैकेयी
वाक्यमब्रवीत् ॥ ३५ ॥
रामेति
राजा
विलपन्
हा
सीते
लक्ष्मणेति
च ।
स
महात्मा
परं
लोकं
गतो
गतिमतां
वरः ॥ ३६ ॥
इमां
तु
पश्चिमां
वाचं
व्याजहार
पिता
तव ।
कालधर्मपरिक्षिप्तः
पाशैरिव
महागजः ॥ ३७ ॥
सिद्धार्थास्ते
नरा
राममागतं
सीतया
सह ।
लक्ष्मणं
च
महाबाहुं
द्रक्ष्यन्ति
पुनरागतम् ॥ ३८ ॥
तच्छ्रुत्वा
विषसादैव
द्वितीयाप्रियशंसनात् ।
विषण्णवदनो
भूत्वा
भूयः
पप्रच्छ
मातरम् ॥ ३९ ॥
क्व
चेदानीं
स
धर्मात्मा
कौसल्यानन्दवर्द्धनः ।
लक्ष्मणेन
सह
भ्रात्रा
सीतया
च
समं
गतः ॥ ४० ॥
तथा
पृष्टा
यथातत्त्वमाख्यातुमुपचक्रमे ।
मातास्य
युगपद्वाक्यं
विप्रियं
प्रियशङ्कया ॥ ४१ ॥
स
हि
राजसुतः
पुत्र
चीरवासा
महावनम् ।
दण्डकान्
सह
वैदेह्या
लक्ष्मणानुचरो
गतः ॥ ४२ ॥
तच्छ्रुत्वा
भरतस्रस्तो
भ्रातुश्चारित्रशङ्कया ।
स्वस्य
वंशस्य
माहात्म्यात्
प्रष्टुं
समुपचक्रमे ॥ ४३ ॥
कच्चिन्न
परदारान्वा
राजपुत्रोऽभिमन्यते ।
कस्मात्स
दण्डकारण्ये
भ्रूणहेव
विवासितः ॥ ४४ ॥
अथास्य
चपला
माता
तत्
स्वकर्म
यथातथम् ।
तेनैव
स्त्रीस्वभावेन
व्याहर्तुमुपचक्रमे ॥ ४५ ॥
एवमुक्ता
तु
कैकेयी
भरतेन
महात्मना ।
उचाच
वचनं
हृटा
मूढा
पण्डितमानिनी ॥ ४६ ॥
कच्चिन्नाढ्यो
दरिद्रो
वा
तेनापापो
विहिंसितः ।
न
रामः
परदारांश्च
चक्षुर्भ्यामपि
पश्यति ॥ ४७ ॥
मया
तु
पुत्र
श्रुत्वैव
रामस्यैवाभिषेचनम् ।
याचितस्ते
पिता
राज्यं
रामस्य
च
विवासनम् ॥ ४८ ॥
स
स्ववृत्तिं
समास्थाय
पिता
ते
तत्तथाकरोत् ।
रामश्च
सहसौमित्रिः
प्रेषितः
सीतया
सह ॥ ४९ ॥
तमपश्यन्
प्रियं
पुत्रं
महीपालो
महायशाः ।
पुत्रशोकपरिद्यूनः
पञ्चत्वमुपपेदिवान् ॥ ५० ॥
त्वया
त्विदानीं
धर्मज्ञ
राजत्वमवलम्ब्यताम् ।
त्वत्कृते
हि
मया
सर्वमिदमेवं
विधं
कृतम् ॥ ५१ ॥
मा
शोकं
मा
च
सन्तापं
धैर्यमाश्रय
पुत्रक ।
त्वदधीना
हि
नगरी
राज्यं
चैतदनामयम् ॥ ५२ ॥
तत्पुत्र
शीघ्रं
विधिना
विधिज्ञैर्वसिष्ठमुख्यैः
सहितो
द्विजेन्द्रैः ।
सङ्काल्य
राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व ॥ ५३ ॥