तां
तथा
गर्हयित्वा
तु
मातरं
भरतस्तदा ।
रोषेण
महताविष्टः
पुनरेवाब्रवीद्वचः ॥ १ ॥
राज्याद्भ्रंशस्व
कैकेयि
नृशंसे
दुष्टचारिणि ।
परित्यक्ता
च
धर्मेण
मा
मृतं
रुदती
भव ॥ २ ॥
किं
नु
तेऽदूषयद्राजा
रामो
वा
भृशधार्मिकः ।
ययोर्मृत्युर्विवासश्च
त्वत्कृते
तुल्यमागतौ ॥ ३ ॥
भ्रूणहत्यामसि
प्राप्ता
कुलस्यास्य
विनाशनात् ।
कैकेयि
नरकं
गच्छ
मा
च
भर्त्तुः
सलोकताम् ॥ ४ ॥
सर्वलोकप्रियं
हित्वा
ममाप्यापादितं
भयम् ।
त्वत्कृते
मे
पिता
वृत्तो
रामश्चारण्यमाश्रितः ॥ ५ ॥
अयशो
जीवलोके
च
त्वयाहं
प्रतिपादितः ।
मातृरूपे
ममामित्रे
नृशंसे
राज्यकामुके ॥ ६ ॥
न
तेऽहमभिभाष्योऽस्मि
दुर्वृत्ते
पतिघातिनि ।
कौसल्या
च
सुमित्रा
च
याश्चान्या
मम
मातरः ॥ ७ ॥
दुःखेन
महताविष्टास्त्वां
प्राप्य
कुलदूषिणीम् ।
न
त्वमश्वपतेः
कन्या
धर्मराज्यस्य
धीमतः ॥ ८ ॥
राक्षसी
तत्र
जातासि
कुलप्रध्वंसिनी
पितुः ।
यत्त्वया
धार्मिको
रामो
नित्यं
सत्यपरायणः ॥ ९ ॥
वनं
प्रस्थापितो
दुःखात्
पिता
च
त्रिदिवं
गतः ।
यत्प्रधानासि
तत्पापं
मयि
पित्रा
विना
कृते ॥ १० ॥
भ्रातृभ्यां
च
परित्यक्ते
सर्वलोकस्य
चाप्रिये ।
कौसल्यां
धर्मसंयुक्तां
वियुक्तां
पापनिश्चये ॥ ११ ॥
कृत्वा
कं
प्राप्स्यसे
त्वद्य
लोकं
निरयगामिनि ।
किं
नावबुध्यसे
क्रूरे
नियतं
बन्धुसंश्रयम् ॥ १२ ॥
ज्येष्ठं
पितृसमं
रामं
कौसल्यायात्मसम्भवम् ।
अङ्गप्रत्यङ्गजः
पुत्रो
हृदयाच्चापि
जायते ॥ १३ ॥
तस्मात्प्रियतमो
मातुः
प्रियत्वान्न
तु
बान्धवः ।
अन्यदा
किल
धर्मज्ञा
सुरभिः
सुरसम्मता ॥ १४ ॥
वहमानौ
ददर्शोर्व्यां
पुत्रौ
विगतचेतसौ ।
तावर्द्धदिवसे
श्रान्तौ
पुत्रौ
दृष्ट्वा
महीतले ॥ १५ ॥
रुरोद
पुत्रशोकेन
बाष्पपर्याकुलेक्षणा ।
अधस्ताद्व्रजतस्तस्याः
सुरराज्ञो
महात्मनः ॥ १६ ॥
बिन्दवः
पतिता
गात्रे
सूक्ष्माः
सुरभिगन्धिनः ।
इन्द्रोप्यश्रुनिपातं
तं
स्वगात्रे
पुण्यगन्धिनम् ॥ १७ ॥
सुरभिं
मन्यते
दृष्ट्वा
भूयसीं
तां
सुरेश्वरः ।
निरीक्षमाणः
शक्रस्तां
ददर्श
सुरभिं
स्थिताम् ॥ १८ ॥
आकाशे
विष्ठितां
दीनां
रुदन्तीं
भृशदुःखिताम् ।
तां
दृष्ट्वा
शोकसन्तप्तां
वज्रपाणिर्यशस्विनीम् ॥ १९ ॥
इन्द्रः
प्राञ्जलि
रुद्विग्नः
सुरराजोऽब्रवीद्वचः ।
भयं
कच्चिन्न
चास्मासु
कुतश्चिद्विद्यते
महत् ॥ २० ॥
कुतो
निमित्तः
शोकस्ते
ब्रूहि
सर्वहितैषिणि ।
एवमुक्ता
तु
सुरभिः
सुरराजेन
धीमता ॥ २१ ॥
प्रत्युवाच
ततो
धीरा
वाक्यं
वाक्यविशारदम् ।
शान्तं
पापं
न
वः
किञ्चित्
कुतश्चिदमराधिप ॥ २२ ॥
अहं
तु
मग्नौ
शोचामि
स्वपुत्रौ
विषमे
स्थितौ ।
एतौ
दृष्ट्वा
कृशौ
दीनौ
सूर्यरश्मिप्रतापितौ ॥ २३ ॥
अर्द्यमानो
बलीवर्दौ
कर्षकेण
सुराधिप ।
मम
कायात्
प्रसूतौ
हि
दुःखितौ
भारपीडितौ ॥ २४ ॥
यौ
दृष्ट्वा
परितप्येऽहं
नास्ति
पुत्रसमः
प्रियः ।
यस्याः
पुत्रसहस्रैस्तु
कृत्स्नं
व्याप्तमिदं
जगत् ॥ २५ ॥
तां
दृष्ट्वा
रुदतीं
शक्रो
न
सुतान्मन्यते
परम् ।
सदाप्रतिमवृत्ताया
लोकधारणकाम्यया ॥ २६ ॥
श्रीमत्या
गुणनित्यायाः
स्वभावपरिवेषया ।
यस्याः
पुत्रसहस्राणि
सापि
शोचति
कामधुक् ॥ २७ ॥
किं
पुनर्या
विना
रामं
कौसल्या
वर्त्तयिष्यति ।
एकपुत्रा
च
साध्वी
च
विवत्सेयं
त्वया
कृता ॥ २८ ॥
तस्मात्त्वं
सततं
दुःखं
प्रेत्य
चेह
च
लप्स्यसे ।
अहं
ह्यपचितिं
भ्रातुः
पितुश्च
सकलामिमाम् ॥ २९ ॥
वर्द्धनं
यशसश्चापि
करिष्यामि
न
संशयः ।
आनाययित्वा
तनयं
कौसल्याया
महाबलम् ॥ ३० ॥
स्वयमेव
प्रवेक्ष्यामि
वनं
मुनिनिषेवितम् ।
नह्यहं
पापसङ्कल्पे
पापे
पापं
त्वया
कृतम् ॥ ३१ ॥
शक्तो
धारयितुं
पौरैरश्रुकण्ठैर्निरीक्षितः ।
सा
त्वमग्निं
प्रविश
वा
स्वयं
वा
दण्डकान्
विश ॥ ३२ ॥
रज्जुं
बधान
वा
कण्ठे
न
हि
तेऽन्यत्
परायणम् ।
अहमप्यवनिं
प्राप्ते
रामे
सत्यपराक्रमे ॥ ३३ ॥
कृतकृत्यो
भविष्यामि
विप्रवासितकल्मषः ।
इति
नाग
इवारण्ये
तोमराङ्कुशचोदितः ॥ ३४ ॥
पपात
भुवि
सङ्क्रुद्धो
निःश्वसन्निव
पन्नगः ।
संरक्तनेत्रः
शिथिलाम्बरस्तथा
विधूतसर्वाभरणः
परन्तपः ॥ ३५ ॥
बभूव
भूमौ
पतितो
नृपात्मजः
शचीपतेः
केतुरिवोत्सवक्षये ॥ ३६ ॥