नेत्राभ्यामश्रुपूर्णाभ्यां
दीनामुद्वीक्ष्व
मातरम् ।
सोऽमात्यमध्ये
भरतो
जननीमभ्यकुत्सयत् ॥ १ ॥
अभिषेकं
न
जानामि
योऽभूद्राज्ञा
समीक्षितः ।
विप्रकृष्टे
ह्यहं
देशे
शत्रुघ्नसहितोऽवसम् ॥ २ ॥
वनवासं
न
जानामि
रामस्याहं
महात्मनः ।
विवासनं
वा
सौमित्रेः
सीतायाश्च
यथाभवत् ॥ ३ ॥
तथैव
क्रोधतस्तस्य
भरतस्य
महात्मनः ।
कौसल्या
शब्दमाज्ञाय
सुमित्रामिदमब्रवीत् ॥ ४ ॥
आगतः
क्रूरकार्यायाः
कैकेय्या
भरतः
सुतः ।
तमहं
द्रष्टुमिच्छामि
भरतं
दीर्घदर्शिनम् ॥ ५ ॥
एवमुक्त्वा
सुमित्रां
सा
विवर्णा
मलिना
कृशा ।
प्रतस्थे
भरतो
यत्र
वेपमाना
विचेतना ॥ ६ ॥
स
तु
रामानुजश्चापि
शत्रुघ्नसहिस्तदा ।
प्रतस्थे
भरतो
यत्र
कौसल्याया
निवेशनम् ॥ ७ ॥
पर्य्यष्वजेतां
दुःखार्त्तां
पतितां
नष्टचेतनाम् ।
रुदन्तौ
रुदतीं
दुःखात्
समेत्यार्यां
मनस्विनीम् ॥ ८ ॥
भरतं
प्रत्युवाचेदं
कौसल्या
भृशदुःखिता ।
इदं
ते
राज्यकामस्य
राज्यं
प्राप्तमकण्टकम् ॥ ९ ॥
सम्प्राप्तं
बत
कैकेय्या
शीघ्रं
क्रूरेण
कर्मणा ।
प्रस्थाप्य
चीरवसनं
पुत्रं
मे
वनवासिनम् ॥ १० ॥
कैकेयी
किं
गुणं
तत्र
पश्यति
क्रूरदर्शिनी ।
क्षिप्रं
मामपि
कैकेयी
प्रस्थापयितुमर्हति ॥ ११ ॥
हिरण्यनाभो
यत्रास्ते
सुतो
मे
सुमहायशाः ।
अथवा
स्वयमेवाहं
सुमित्रानुचरा
सुखम् ॥ १२ ॥
अग्निहोत्रं
पुरस्कृत्य
प्रस्थास्ये
यत्र
राघवः ।
कामं
वा
स्वयमेवाद्य
तत्र
मां
नेतुमर्हसि ॥ १३ ॥
यत्रासौ
पुरुषव्याघ्रः
पुत्रो
मे
तप्यते
तपः ।
इदं
हि
तव
विस्तीर्णं
धनधान्यसमाचितम् ॥ १४ ॥
हस्त्यश्वरथसम्पूर्णं
राज्यं
निर्यातितं
तया ।
इत्यादिबहुभिर्वाक्यैः
क्रूरैः
सम्भर्त्सितोऽनघः ॥ १५ ॥
विव्यथे
भरतस्तीव्रं
व्रणे
तुद्येव
सूचिना ।
पपात
चरणौ
तस्यास्तदा
सम्भ्रान्तचेतनः ॥ १६ ॥
विलप्य
बहुधाऽसञ्ज्ञो
लब्धसञ्ज्ञस्ततः
स्थितः ।
एवं
विलपमानां
तां
भरतः
प्राञ्जलिस्तदा ॥ १७ ॥
कौसल्यां
प्रत्युवाचेदं
शोकैर्बहुभिरावृताम् ।
आये
कस्मादजानन्तं
गर्हसे
मामकिल्बिषम् ॥ १८ ॥
विपुलां
च
मम
प्रीतिं
स्थिरां
जानासि
राघवे ।
कृता
शास्त्रानुगा
बुद्धिर्माभूत्तस्य
कदाचन ॥ १९ ॥
सत्यसन्धः
सतां
श्रेष्ठो
यस्यार्योऽनुमते
गतः ।
प्रेष्यं
पापीयसां
यातु
सूर्यं
च
प्रति
मेहतु ॥ २० ॥
हन्तु
पादेन
गां
सुप्तां
यस्यार्योऽनुमते
गतः ।
कारयित्वा
महत्कर्म
भर्त्ता
भृत्यमनर्थकम् ॥ २१ ॥
अधर्मो
योऽस्य
सोऽस्यास्तु
यस्यार्योऽनुमते
गतः ।
परिपालयमानस्य
राज्ञो
भूतानि
पुत्रवत् ॥ २२ ॥
ततस्तं
द्रुह्यतां
पापं
यस्यार्योनुमते
गतः ।
बलिषड्भागमुद्धृत्य
नृपस्यारक्षतः
प्रजाः ॥ २३ ॥
अधर्मो
योऽस्य
सोस्यास्तु
यस्यार्योऽनुमते
गतः ।
संश्रुत्य
च
तपस्विभ्यः
सत्रे
वै
यज्ञदक्षिणाम् ॥ २४ ॥
तां
विप्रलपतां
पापं
यस्यार्योऽनुमते
गतः ।
हस्त्यश्वरथसम्बाधे
युद्धे
शस्त्रसमाकुले ॥ २५ ॥
मा
स्म
कार्षीत्सतां
धर्मं
यस्यार्योऽनुमते
गतः ।
उपदिष्टं
सुसूक्ष्मार्थं
शास्त्रं
यत्नेन
धीमता ॥ २६ ॥
स
नाशयतु
दुष्टात्मा
यस्यार्योऽनुमते
गतः ।
मा
च
तं
व्यूढबाह्वंसं
चन्द्रार्कसमतेजसम् ॥ २७ ॥
द्राक्षीद्राज्यस्थमासीनं
यस्यार्योऽनुमते
गतः ।
पायसं
कृसरं
छागं
वृथा
सोऽश्नातु
निर्घृणः ॥ २८ ॥
गुरूंश्चाप्यवजानातु
यस्यार्योऽनुमते
गतः ।
गाश्च
स्पृशतु
पादेन
गुरून्
परिवदेत्
स्वयम् ॥ २९ ॥
मित्रे
द्रुह्येत
सोऽत्यन्तं
यस्यार्योऽनुमते
गतः ।
विश्वासात्
कथितं
किञ्चित्
परिवादं
मिथः
क्वचित् ॥ ३० ॥
विवृणोतु
स
दुष्टात्मा
यस्यार्योऽनुमते
गतः ।
अकर्त्ता
ह्यकृतज्ञश्च
त्यक्तात्मा
निरपत्रपः ॥ ३१ ॥
लोके
भवतु
विद्वेष्यो
यस्यार्योऽनुमते
गतः ।
पुत्रदारैश्च
भृत्यैश्च
स्वगृहे
परिवारितः ॥ ३२ ॥
स
एको
मृष्टमश्नातु
यस्यार्योऽनुमते
गतः ।
अप्राप्य
सदृशान्
दाराननपत्यः
प्रमीयताम् ॥ ३३ ॥
अनवाप्य
क्रियां
धर्म्यां
यस्यार्योऽनुमते
गतः ।
मात्मनः
सन्ततिं
द्राक्षीत्
स्वेषु
दारेषु
दुःखितः ॥ ३४ ॥
आयुः
समग्रमप्राप्य
यस्यार्योऽनुमते
गतः ।
राजस्त्रीबालवृद्धानां
वधे
यत्पापमुच्यते ॥ ३५ ॥
भृत्यत्यागे
च
यत्पापं
तत्पापं
प्रतिपद्यताम् ।
सदैव
बिभृयाद्भृत्यान्
यस्यार्योऽनुमते
गतः ॥ ३६ ॥
सङ्ग्रामे
समुपोढे
स्म
शत्रुपक्षभयङ्करे ।
पलायमानो
वध्येत
यस्यार्योऽनुमते
गतः ॥ ३७ ॥
कपालपाणिः
पृथिवीमटतां
चीरसंवृतः ।
भिक्षमाणो
यथोन्मत्तो
यस्यार्योनुमते
गतः ॥ ३८ ॥
पाने
प्रसक्तो
भवतु
स्त्रीष्वक्षेषु
च
नित्यशः ।
कामक्रोधाभिभूतस्तु
यस्यार्योनुमते
गतः ॥ ३९ ॥
मा
स्म
धर्मे
मनो
भूयादधर्मं
सुनिषेवताम् ।
अपात्रवर्षी
भवतु
यस्यार्योऽनुमते
गतः ॥ ४० ॥
सञ्चितान्यस्य
वित्तानि
विविधानि
सहस्रशः ।
दस्युभिर्विप्रलुप्यन्तां
यस्यार्योनुमते
गतः ॥ ४१ ॥
उभे
सन्ध्ये
शयानस्य
यत्पापं
परिकल्प्यते ।
तच्च
पापं
भवेत्तस्य
यस्यार्योनुमते
गतः ॥ ४२ ॥
यदग्निदायके
पापं
यत्पापं
गुरुतल्पगे ।
मित्रद्रोहे
च
यत्पापं
तत्पापं
प्रतिपद्यताम् ॥ ४३ ॥
देवतानां
पितॄणां
च
मातापित्रोस्तथैव
च ।
मा
स्म
कार्षीत्
स
शुश्रूषां
यस्यार्योऽनुमते
गतः ॥ ४४ ॥
सतां
लोकात्सतां
कीर्त्त्यात्
सञ्जुष्टात्
कर्मणस्तथा ।
भ्रश्यतु
क्षिप्रमद्यैव
यस्यार्योऽनुमते
गतः ॥ ४५ ॥
अपास्य
मातृशुश्रूषामनर्थे
सोऽवतिष्ठताम् ।
दीर्घबाहुर्महावक्षा
यस्यार्योऽनुमते
गतः ॥ ४६ ॥
बहुपुत्रो
दरिद्रश्च
ज्वररोगसमन्वितः ।
स
भूयात्
सततं
क्लेशी
यस्यार्योऽनुमते
गतः ॥ ४७ ॥
आशामाशंसमानानां
दीनानामूर्ध्वचक्षुषाम् ।
अर्थिनां
वितथां
कुर्याद्यस्यार्योऽनुमते
गतः ॥ ४८ ॥
मायया
रमतां
नित्यं
परुषः
पिशुनोऽशुचिः ।
राज्ञो
भीतस्त्वधर्मात्मा
यस्यार्योऽनुमते
गतः ॥ ४९ ॥
ऋतुस्नातां
सतीं
भार्यामृतुकालानुरोधिनीम् ।
अतिवर्त्तेत
दुष्टात्मा
यस्यार्योऽनुमते
गतः ॥ ५० ॥
धर्मदारान्
परित्यज्य
परदारान्निषेवताम् ।
त्यक्तधर्मरतिर्मूढो
यस्यार्योऽनुमते
गतः ॥ ५१ ॥
विप्रलुप्तप्रजातस्य
दुष्कृतं
ब्राह्मणस्य
यत् ।
तदेव
प्रतिपद्येत
यस्यार्योऽनुमते
गतः ॥ ५२ ॥
पानीयदूषके
पापं
तथैव
विषदायके ।
यत्तदेकः
स
लभतां
यस्यार्योऽनुमते
गतः ॥ ५३ ॥
ब्राह्मणायोद्यतां
पूजां
विहन्तु
कलुषेन्द्रियः ।
बालवत्सां
च
गां
दोग्धु
यस्यार्योऽनुमते
गतः ॥ ५४ ॥
तृष्णार्तं
सति
पानीये
विप्रलम्भेन
योजयेत् ।
लभेत
तस्य
यत्पापं
यस्यार्योऽनुमते
गतः ॥ ५५ ॥
भक्त्या
विवदमानेषु
मार्गमाश्रित्य
पश्यतः ।
तस्य
पापेन
युज्येत
यस्यार्योऽनुमते
गतः ॥ ५६ ॥
विहीनां
पतिपुत्राभ्यां
कौसल्यां
पार्थिवात्मजः ।
एवमाश्वासयन्नेव
दुःखार्त्तो
निपपात
ह ॥ ५७ ॥
तथा
तु
शपथैः
कष्टैः
शपमानमचेतनम् ।
भरतं
शोकसन्तप्तं
कौसल्या
वाक्यमब्रवीत् ॥ ५८ ॥
मम
दुःखमिदं
पुत्र
भूयः
समुपजायते ।
शपथैः
शपमानो
हि
प्राणानुपरुणत्सि
मे ॥ ५९ ॥
दिष्ट्या
न
चलितो
धर्मादात्मा
ते
सहलक्ष्मणः ।
वत्स
सत्यप्रतिज्ञो
मे
सतां
लोकानवाप्स्यसि ॥ ६० ॥
इत्युक्त्वा
चाङ्कमानीय
भरतं
भ्रातृवत्सलम् ।
परिष्वज्य
महाबाहुं
रुरोद
भृशदुःखिता ॥ ६१ ॥
एवं
विलपमानस्य
दुःखार्त्तस्य
महात्मनः ।
मोहाच्च
शोकसंरोधाद्बभूव
लुलितं
मनः ॥ ६२ ॥
लालप्यमानस्य
विचेतनस्य
प्रणष्टबुद्धेः
पतितस्य
भूमौ ।
मुहुर्मुहुर्निश्वसतश्च
धर्मं
सा
तस्य
शोकेन
जगाम
रात्रिः ॥ ६३ ॥