तमेवं
शोकसन्तप्तं
भरतं
कैकयीसुतम् ।
उवाच
वदतां
श्रेष्ठो
वसिष्ठः
श्रेष्ठवागृषिः ॥ १ ॥
अलं
शोकेन
भद्रं
ते
राजपुत्र
महायशः ।
प्राप्तकालं
नरपतेः
कुरु
संयानमुत्तमम् ॥ २ ॥
वसिष्ठस्य
वचः
श्रुत्वा
भरतो
धारणां
गतः ।
प्रेतकार्याणि
सर्वाणि
कारयामास
धर्मवित् ॥ ३ ॥
उद्धृतं
तैलसंरोधात्
स
तु
भूमौ
निवेशितम् ।
आपीतवर्णवदनं
प्रसुप्तमिव
भूपतिम् ॥ ४ ॥
संवेश्म
शयने
चाग्र्ये
नानारत्नपरिष्कृते ।
ततो
दशरथं
पुत्रो
विललाप
सुदुःखितः ॥ ५ ॥
किं
ते
व्यवसितं
राजन्
प्रोषिते
मय्यनागते ।
विवास्य
रामं
धर्मज्ञं
लक्ष्मणं
च
महाबलम् ॥ ६ ॥
क्व
यास्यसि
महाराज
हित्वेमं
दुःखितं
जनम् ।
हीनं
पुरुषसिंहेन
रामेणाक्लिष्टकर्मणा ॥ ७ ॥
योगक्षेमं
तु
ते
राजन्
कोऽस्मिन्
कल्पयिता
पुरे ।
त्वयि
प्रयाते
स्वस्तात
रामे
च
वनमाश्रिते ॥ ८ ॥
विधवा
पृथिवी
राजंस्त्वया
हीना
न
राजते ।
हीनचन्द्रेव
रजनी
नगरी
प्रतिभाति
मा ॥ ९ ॥
एवं
विलपमानं
तं
भरतं
दीनमानसम् ।
अब्रवीद्वचनं
भूयो
वसिष्ठस्तु
महामुनिः ॥ १० ॥
प्रेतकार्याणि
यान्यस्य
कर्त्तव्यानि
विशांपतेः ।
तान्यव्यग्रं
महाबाहो
क्रियन्तामविचारितम् ॥ ११ ॥
तथेति
भरतो
वाक्यं
वसिष्ठस्याभिपूज्य
तत् ।
ऋत्विक्पुरोहिताचार्यांस्त्वरयामास
सर्वशः ॥ १२ ॥
ये
त्वग्नयो
नरेन्द्रस्य
चाग्न्यगाराद्बहिष्कृताः ।
ऋत्विग्भिर्याजकैश्चैव
आह्रियन्त
यथाविधि ॥ १३ ॥
शिबिकायामथारोप्य
राजानं
गतचेतसम् ।
वाष्पकण्ठा
विमनसस्तमूहुः
परिचारकाः ॥ १४ ॥
हिरण्यं
च
सुवर्णं
च
वासांसि
विविधानि
च ।
प्रकिरन्तो
जना
मार्गं
नृपतेरग्रतो
ययुः ॥ १५ ॥
चन्दनागरुनिर्यासान्
सरलं
पद्मकं
तथा ।
देवदारूणि
चाहृत्य
क्षेपयन्ति
तथा
परे ॥ १६ ॥
गन्धानुच्चावचांश्चान्यान्
तत्र
गत्वाथ
भूमिपम् ।
ततः
संवेशयामासुश्चितामध्ये
तमृत्विजः ॥ १७ ॥
तथा
हुताशनं
दत्त्वा
जेपुस्तस्य
तमृत्विजः ।
जगुश्च
ते
यथाशास्त्रं
तत्र
सामानि
सामगाः ॥ १८ ॥
शिबिकाभिश्च
यानैश्च
यथार्हं
तस्य
योषितः ।
नगरान्निर्ययुस्तत्र
वृद्धैः
परिवृतास्तदा ॥ १९ ॥
प्रसव्यं
चापि
तं
चक्रुर्ऋत्विजोऽग्निचितं
नृपम् ।
स्त्रियश्च
शोकसन्तप्ताः
कौसल्याप्रमुखास्तदा ॥ २० ॥
क्रौञ्चीनामिव
नारीणां
निनादस्तत्र
शुश्रुवे ।
आर्तानां
करुणं
काले
क्रोशन्तीनां
सहस्रशः ॥ २१ ॥
ततो
रुदन्त्यो
विवशा
विलप्य
च
पुनःपुनः ।
यानेभ्यः
सरयूतीरमवतेरुर्वराङ्गनाः ॥ २२ ॥
कृत्वोदकं
त
भरतेन
सार्द्धं
नृपाङ्गना
मन्त्रिपुरोहिताश्च ।
पुरं
प्रविश्याश्रुपरीतनेत्रा
भूमौ
दशाहं
व्यनयन्त
दुःखम् ॥ २३ ॥