ततो
दशाहेऽतिगते
कृतशौचो
नृपात्मजः ।
द्वादशेऽहनि
सम्प्राप्ते
श्राद्धकर्माण्यकारयत् ॥ १ ॥
ब्राह्मणेभ्यो
ददौ
रत्नं
धनमन्नं
च
पुष्कलम् ।
वासांसि
च
महार्हाणि
रत्नानि
विविधानि
च ॥ २ ॥
दासीदासं
च
यानं
च
वेश्मानि
सुमहान्ति
च ।
ब्राह्मणेभ्यो
ददौ
पुत्रो
राज्ञस्तस्यौर्द्ध्वदैहिकम् ॥ ३ ॥
विललाप
महाबाहुर्भरतः
शोकमूर्च्छितः ।
शब्दापिहितकण्ठस्तु
शोधनार्थमुपागतः ॥ ४ ॥
चितामूले
पितुर्वाक्यमिदमाह
सुदुःखितः ।
तात
यस्मिन्निसृष्टोऽहं
त्वया
भ्रातरि
राघवे ॥ ५ ॥
तस्मिन्वनं
प्रव्रजिते
शून्ये
त्यक्तोऽस्म्यहं
त्वया ।
यस्या
गतिरनाथायाः
पुत्रः
प्रव्राजितो
वनम् ॥ ६ ॥
तामम्बां
तात
कौसल्यां
त्यक्त्वा
त्वं
क्व
गतो
नृप ।
दृष्ट्वा
भस्मारुणं
तच्च
दग्धास्थिस्थानमण्डलम् ॥ ७ ॥
पितुः
शरीरनिर्वाणं
निष्टनन्
विषसाद
सः ।
स
तु
दृष्ट्वा
रुदन्
दीनः
पपात
धरणीतले ॥ ८ ॥
उत्थाप्यमानः
शक्रस्य
यन्त्रध्वज
इव
च्युतः ।
अभिपेतुस्ततः
सर्वे
तस्यामात्याः
शुचिव्रतम् ॥ ९ ॥
अन्तकाले
निपतितं
ययातिमृषयो
यथा ।
शत्रुघ्नश्चापि
भरतं
दृष्ट्वा
शोकपरिप्लुतम् ॥ १० ॥
विसञ्ज्ञो
न्यपतद्भूमौ
भूमिपालमनुस्मरन् ।
उन्मत्त
इव
निश्चेता
विललाप
सुदुःखितः ॥ ११ ॥
स्मृत्वा
पितुर्गुणाङ्गानि
तानितानि
तदातदा ।
मन्थराप्रभवस्तीव्रः
कैकेयीग्राहसङ्कुलः ॥ १२ ॥
वरदानमयोक्षोभ्योऽमज्जयच्छोकसागरः ।
सुकुमारं
च
बालं
च
सततं
लालितं
त्वया ॥ १३ ॥
क्व
तात
भरतं
हित्वा
विलपन्तं
गतो
भवान् ।
ननु
भोज्येषु
पानेषु
वस्त्रेष्वाभरणेषु
च ॥ १४ ॥
प्रवारयसि
नः
सर्वांस्तन्नः
कोऽन्यः
करिष्यति ।
अवदारणकाले
तु
पृथिवी
नावदीर्यते ॥ १५ ॥
या
विहीना
त्वया
राज्ञा
धर्मज्ञेन
महात्मना ।
पितरि
स्वर्गमापन्ने
रामे
चारण्यमाश्रिते ॥ १६ ॥
किं
मे
जीवितसामर्थ्यं
प्रवेक्ष्यामि
हुताशनम् ।
हीनो
भ्रात्रा
च
पित्रा
च
शून्यामिक्ष्वाकुपालिताम् ॥ १७ ॥
अयोध्यां
न
प्रवेक्ष्यामि
प्रवेक्ष्यामि
तपोवनम् ।
तयोर्विलपितं
श्रुत्वा
व्यसनं
चान्ववेक्ष्य
तत् ॥ १८ ॥
भृशमार्त्ततरा
भूयः
सर्व
एवानुगामिनः ।
ततो
विषण्णौ
विश्रान्तौ
शत्रुघ्नभरतावुभौ ॥ १९ ॥
धरण्यां
संव्यचेष्टेतां
भग्नश्रृङ्गाविवर्षभौ ।
ततः
प्रकृतिमान्
वैद्यः
पितुरेषां
पुरोहितः ॥ २० ॥
वसिष्ठो
भरतं
वाक्यमुत्थाप्य
तमुवाच
ह ।
त्रयोदशोऽयं
दिवसः
पितुर्वृत्तस्य
ते
विभो ॥ २१ ॥
सावशेषास्थिनिचये
किमिह
त्वं
विलम्बसे ।
त्रीणि
द्वन्द्वानि
भूतेषु
प्रवृत्तान्यविशेषतः ॥ २२ ॥
तेषु
चापरिहार्येषु
नैवं
भवितुमर्हसि ।
सुमन्त्रश्चापि
शत्रुघ्नमुत्थाप्याभिप्रसाद्य
च ॥ २३ ॥
श्रावयामास
तत्त्वज्ञः
सर्वभूतभवाभवौ ।
उत्थितौ
च
नरव्याघ्रौ
प्रकाशेते
यशस्विनौ ॥ २४ ॥
वर्षातपपरिक्लिन्नौ
पृथगिन्द्रध्वजाविव ।
अश्रूणि
परिमृद्नन्तौ
रक्ताक्षौ
दीनभाषिणौ ॥ २५ ॥
अमात्यास्त्वरयन्ति
स्म
तनयौ
चापराः
क्रियाः ॥ २६ ॥