अथ
यात्रां
समीहन्तं
शत्रुध्नो
लक्ष्मणानुजः ।
भरतं
शोकसन्तप्तमिदं
वचनमब्रवीत् ॥ १ ॥
गतिर्यः
सर्वभूतानां
दुःखे
किं
पुनरात्मनः ।
स
रामः
सत्त्वसम्पन्नः
स्त्रिया
प्रव्राजितो
वनम् ॥ २ ॥
बलवान्
वीर्यसम्पन्नो
लक्ष्मणो
नाम
योऽप्यसौ ।
किं
न
मोचयते
रामं
कृत्वा
स्म
पितृनिग्रहम् ॥ ३ ॥
पूर्वमेव
तु
निग्राह्यः
समवेक्ष्य
नयानयौ ।
उत्पथं
यः
समारूढो
नार्या
राजा
वशं
गतः ॥ ४ ॥
इति
सम्भाषमाणे
तु
शत्रुघ्ने
लक्ष्मणानुजे ।
प्राग्द्वारेऽभूत्तदा
कुब्जा
सर्वाभरणभूषिता ॥ ५ ॥
लिप्ता
चन्दनसारेण
राजवस्त्राणि
बिभ्रती ।
विविधं
विविधैस्तैस्तैर्भूषणैश्च
विभूषिता ॥ ६ ॥
मेखलादामभिश्चित्रैरन्यैश्च
शुभभूषणैः ।
बभासे
बहुभिर्बद्धा
रज्जुबद्धेव
वानरी ॥ ७ ॥
तां
समीक्ष्य
तदा
द्वास्स्थाः
सुभृशं
पापकारिणीम् ।
गृहीत्वाऽकरुणां
कुब्जां
शत्रुघ्नाय
न्यवेदयन् ॥ ८ ॥
यस्याः
कृते
वने
रामो
न्यस्तदेहश्च
वः
पिता ।
सेयं
पापा
नृशंसा
च
तस्याः
कुरु
यथामति ॥ ९ ॥
शत्रुघ्नश्च
तदाज्ञाय
वचनं
भृशदुःखितः ।
अन्तःपुरचरान्
सर्वानित्युवाच
धृतव्रतः ॥ १० ॥
तीव्रमुत्पादितं
दुःखं
भ्रातॄणां
मे
तथा
पितुः ।
यया
सेयं
नृशंसस्य
कर्मणः
फलमश्नुताम् ॥ ११ ॥
एवमुक्ता
तु
तेनाशु
सखीजनसमावृता ।
गृहीता
बलवत्
कुब्जा
सा
तद्गृहमनादयत् ॥ १२ ॥
ततः
सुभृशसन्तप्तस्तस्याः
सर्वः
सखीजनः ।
क्रुद्धमाज्ञाय
शत्रुघ्नं
विपलायत
सर्वशः ॥ १३ ॥
आमन्त्रयत
कृत्स्नश्च
तस्याः
सर्वः
सखीजनः ।
यथायं
समुपक्रान्तो
निश्शेषान्नः
करिष्यति ॥ १४ ॥
सानुक्रोशां
वदान्यां
च
धर्मज्ञां
च
यशस्विनीम् ।
कौसल्यां
शरणं
याम
सा
हि
नोऽस्तु
ध्रुवा
गतिः ॥ १५ ॥
स
च
रोषेण
ताम्राक्षः
क्षत्रुघ्नः
शत्रुतापनः ।
विचकर्ष
तदा
कुब्जां
क्रोशन्तीं
धरणीतले ॥ १६ ॥
तस्या
ह्याकृष्यमाणाया
मन्थरायास्ततस्ततः ।
चित्रं
बहुविधं
भाण्डं
पृथिव्यां
तद्व्यशीर्यत ॥ १७ ॥
तेन
भाण्डेन
संस्तीर्णं
श्रीमद्राजनिवेशनम् ।
अशोभत
तदा
भूयः
शारदं
गगनं
यथा ॥ १८ ॥
स
बली
बलवत्क्रोधाद्गृहीत्वा
पुरुषर्षभः ।
कैकेयीमभिनिर्भर्त्स्य
बभाषे
परुषं
वचः ॥ १९ ॥
तैर्वाक्यैः
परुषैर्दुःखैः
कैकेयी
भृशदुःखिता ।
शत्रुघ्नभयसन्त्रस्ता
पुत्रं
शरणमागता ॥ २० ॥
तां
प्रेक्ष्य
भरतः
क्रुद्धं
शत्रुघ्नमिदमब्रवीत् ।
अवध्याः
सर्वभूतानां
प्रमदाः
क्षम्यतामिति ॥ २१ ॥
हन्यामहमिमां
पापां
कैकेयीं
दुष्टचारिणीम् ।
यदि
मां
धार्मिको
रामो
नासूयेन्मातृघातकम् ॥ २२ ॥
इमामपि
हतां
कुब्जां
यदि
जानाति
राघवः ।
त्वां
च
मां
च
हि
धर्मात्मा
नाभिभाषिष्यते
ध्रुवम् ॥ २३ ॥
भरतस्य
वचः
श्रुत्वा
शत्रुघ्नो
लक्ष्मणानुजः ।
न्यवर्त्तत
ततो
रोषात्तां
मुमोच
च
मन्थराम् ॥ २४ ॥
सा
पादमूले
कैकेय्या
मन्थरा
निपपात
ह ।
निश्वसन्ती
सुदुःखार्त्ता
कृपणं
विललाप
च ॥ २५ ॥
शत्रुघ्नविक्षेपविमूढसञ्ज्ञां
समीक्ष्य
कुब्जां
भरतस्य
माता ।
शनैः
समाश्वासयदार्त्तरूपां
क्रौञ्चीं
विलग्नामिव
वीक्षमाणाम् ॥ २६ ॥