ततः
प्रभातसमये
दिवसे
च
चतुर्दशे ।
समेत्य
राजकर्त्तारो
भरतं
वाक्यमब्रुवन् ॥ १ ॥
गतो
दशरथः
स्वर्गं
यो
नो
गुरुतरो
गुरुः ।
रामं
प्रव्राज्य
वै
ज्येष्ठं
लक्ष्मणं
च
महाबलम् ॥ २ ॥
त्वमद्य
भव
नो
राजा
राजपुत्र
महायशः ।
सङ्गत्या
नापराध्नोति
राज्यमेतदनायकम् ॥ ३ ॥
आभिषेचनिकं
सर्वमिदमादाय
राघव ।
प्रतीक्षते
त्वां
स्वजनः
श्रेणयश्च
नृपात्मज ॥ ४ ॥
राज्यं
गृहाण
भरत
पितृपैतामहं
ध्रुवम् ।
अभिषेचय
चात्मानं
पाहि
चास्मान्नरर्षभ ॥ ५ ॥
आभिषेचनिकं
भाण्डं
कृत्वा
सर्वं
प्रदक्षिणम् ।
भरतस्तं
जनं
सर्वं
प्रत्युवाच
धृतव्रतः ॥ ६ ॥
ज्येष्ठस्य
राजता
नित्यमुचिता
हि
कुलस्य
नः ।
नैवं
भवन्तो
मां
वक्तुमर्हन्ति
कुशला
जनाः ॥ ७ ॥
रामः
पूर्वो
हि
नो
भ्राता
भविष्यति
महीपतिः ।
अहं
त्वरण्ये
वत्स्यामि
वर्षाणि
नव
पञ्च
च ॥ ८ ॥
युज्यतां
महती
सेना
चतुरङ्गमहाबला ।
आनयिष्याम्यहं
ज्येष्ठं
भ्रातरं
राघवं
वनात् ॥ ९ ॥
आभिषेचनिकं
चैव
सर्वमेतदुपस्कृतम् ।
पुरस्कृत्य
गमिष्यामि
रामहेतोर्वनं
प्रति ॥ १० ॥
तत्रैव
तं
नरव्याघ्रमभिषिच्य
पुरस्कृतम् ।
आनेष्यामि
तु
वै
रामं
हव्यवाहमिवाध्वरात् ॥ ११ ॥
न
सकामां
करिष्यामि
स्वामिमां
मातृगन्धिनीम् ।
वने
वत्स्याम्यहं
दुर्गे
रामो
राजा
भविष्यति ॥ १२ ॥
क्रियतां
शिल्पिभिः
पन्थाः
समानि
विषमाणि
च ।
रक्षिणश्चानुसंयान्तु
पथि
दुर्गविचारकाः ॥ १३ ॥
एवं
सम्भाषमाणं
तं
रामहेतोर्नृपात्मजम् ।
प्रत्युवाच
जनः
सर्वः
श्रीमद्वाक्यमनुत्तमम् ॥ १४ ॥
एवं
ते
भाषमाणस्य
पद्मा
श्रीरुपतिष्ठताम् ।
यस्त्वं
ज्येष्ठे
नृपसुते
पृथिवीं
दातुमिच्छसि ॥ १५ ॥
अनुत्तमं
तद्वचनं
नृपात्मजप्रभाषितं
संश्रवणे
निशम्य
च ।
प्रहर्षजास्तं
प्रति
बाष्पबिन्दवो
निपेतुरार्यानननेत्रसम्भवाः ॥ १६ ॥
ऊचुस्ते
वचनमिदं
निशम्य
हृष्टाः
सामात्याः
सपरिषदो
वियातशोकाः ।
पन्थानं
नरवर
भक्तिमान्
जनश्च
व्यादिष्टास्तव
वचनाच्च
शिल्पिवर्गः ॥ १७ ॥