अथ
भूमिप्रदेशज्ञाः
सूत्रकर्मविशारदाः ।
स्वकर्माभिरताः
शूराः
खनका
यन्त्रकास्तथा ॥ १ ॥
कर्मान्तिकाः
स्थपतयः
पुरुषा
यन्त्रकोविदाः ।
तथा
वर्द्धकयश्चैव
मार्गिणो
वृक्षतक्षकाः ॥ २ ॥
कूपकाराः
सुधाकारा
वंशकर्मकृतस्तथा ।
समर्था
ये
च
द्रष्टारः
पुरतस्ते
प्रतस्थिरे ॥ ३ ॥
स
तु
हर्षात्तमुद्देशं
जनौघो
विपुलः
प्रयान् ।
अशोभत
महावेगः
समुद्र
इव
पर्वणि ॥ ४ ॥
ते
स्ववारं
समास्थाय
वर्त्मकर्मणि
कोविदाः ।
करणैर्विविधोपेतैः
पुरस्तात्
सम्प्रतस्थिरे ॥ ५ ॥
लता
वल्लीश्च
गुल्मांश्च
स्थाणूनश्मन
एव
च ।
जनास्ते
चक्रिरे
मार्गं
छिन्दन्तो
विविधान्
द्रुमान् ॥ ६ ॥
अवृक्षेषु
च
देशेषु
केचिद्वृक्षानरोपयन् ।
केचित्
कुठारैष्टङ्कैश्च
दात्रैश्छिन्दन्
क्वचित्
क्वचित् ॥ ७ ॥
अपरे
वीरणस्तम्बान्
बलिनो
बलवत्तराः ।
विधमन्ति
स्म
दुर्गाणि
स्थलानि
च
ततस्ततः ॥ ८ ॥
अपरेऽपूरयन्
कूपान्
पांसुभिः
श्वभ्रमायतम् ।
निम्नभागांस्ततः
केचित्समांश्चक्रुः
समन्ततः ॥ ९ ॥
बबन्धुर्बन्धनीयांश्च
क्षोद्यान्
सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च
तांस्तान्
देशान्नरास्तदा ॥ १० ॥
अचिरेणैव
कालेन
परिवाहान्
बहूदकान् ।
चक्रुर्बहुविधाकारान्
सागरप्रतिमान्
बहून् ॥ ११ ॥
निर्जलेषु
च
देशेषु
खानयामासुरुत्तमान् ।
उदपानान्
बहुविधान्
वेदिकापरिमण्डितान् ॥ १२ ॥
ससुधाकुट्टिमतलः
प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्टद्विजगणः
पताकाभिरलङ्कृतः ॥ १३ ॥
चन्दनोदकसंसिक्तो
नानाकुसुमभूषितः ।
बह्वशोभत
सेनायाः
पन्थाः
सुरपथोपमः ॥ १४ ॥
आज्ञाप्याथ
यथाज्ञप्ति
युक्तास्तेऽधिकृता
नराः ।
रमणीयेषु
देशेषु
बहुस्वादुफलेषु
च ॥ १५ ॥
यो
निवेशस्त्वभिप्रेतो
भरतस्य
महात्मनः ।
भूयस्तं
शोभयामासुर्भूषाभिर्भूषणोपमम् ॥ १६ ॥
नक्षत्रेषु
प्रशस्तेषु
मुहूर्त्तेषु
च
तद्विदः ।
निवेशान्
स्थापयामासुर्भरतस्य
महात्मनः ॥ १७ ॥
बहुपांसुचयाश्चापि
परिखा
परिवारिताः ।
तत्रेन्द्रकीलप्रतिमाः
प्रतोलीवरशोभिताः ॥ १८ ॥
प्रासादमालावितताः
सौधप्राकारसंवृताः ।
पताका
शोभिताः
सर्वे
सुनिर्मितमहापथाः ॥ १९ ॥
विसर्पद्भिरिवाकाशे
विटङ्काग्रविमानकैः ।
समुच्छ्रितैर्निवेशास्ते
बभुः
शक्रपुरोपमाः ॥ २० ॥
जाह्नवीं
तु
समासाद्य
विविधद्रुमकाननाम् ।
शीतलामलपानीयां
महामीनसमाकुलाम् ॥ २१ ॥
सचन्द्रतारागणमण्डितं
यथा
नभः
क्षपायाममलं
विराजते ।
नरेन्द्रमार्गः
स
तथा
व्यराजत
क्रमेण
रम्यः
शुभशिल्पिनिर्मितः ॥ २२ ॥