ततो
नान्दीमुखीं
रात्रिं
भरतं
सूतमागधाः ।
तुष्टुवुर्वाग्विशेषज्ञाः
स्तवैर्मङ्गलसंहितैः ॥ १ ॥
सुवर्णकोणाभिहतः
प्राणदद्यामदुन्दुभिः ।
दध्मुः
शङ्खांश्च
शतशो
नादांश्चोच्चावचस्वरान् ॥ २ ॥
स
तूर्यघोषः
सुमहान्
दिवमापूरयन्निव ।
भरतं
शोकसन्तप्तं
भूयः
शोकैररन्ध्रयत् ॥ ३ ॥
ततः
प्रबुद्धो
भरतस्तं
घोषं
सन्निवर्त्य
च ।
नाहं
राजेति
चाप्युक्त्वा
शत्रुघ्नमिदमब्रवीत् ॥ ४ ॥
पश्य
शत्रुघ्न
कैकेय्या
लोकस्यापकृतं
महत् ।
विसृज्य
मयि
दुःखानि
राजा
दशरथो
गतः ॥ ५ ॥
तस्यैषा
धर्मराजस्य
धर्ममूला
महात्मनः ।
परिभ्रमति
राजश्रीर्नौरिवाकर्णिका
जले ॥ ६ ॥
यो
हि
नः
सुमहान्नाथः
सोपि
प्रव्राजितो
वनम् ।
अनया
धर्ममुत्सृज्य
मात्रा
मे
राघवः
स्वयम् ॥ ७ ॥
इत्येवं
भरतं
प्रेक्ष्य
विलपन्तं
विचेतनम् ।
कृपणं
रुरुदुः
सर्वाः
सस्वरं
योषितस्तदा ॥ ८ ॥
तथा
तस्मिन्
विलपति
वसिष्ठो
राजधर्मवित् ।
सभामिक्ष्वाकुनाथस्य
प्रविवेश
महायशाः ॥ ९ ॥
शातकुम्भमयीं
रम्यां
मणिरत्नसमाकुलाम् ।
सुधर्मामिव
धर्मात्मा
सगणः
प्रत्यपद्यत ॥ १० ॥
स
काञ्चनमयं
पीठं
सुखास्तरणसंवृतम् ।
अध्यास्त
सर्ववेदज्ञो
दूताननुशशास
च ॥ ११ ॥
ब्राह्मणान्
क्षत्त्रियान्
वैश्यानमात्यान्
गणवल्लभान् ।
क्षिप्रमानयताव्यग्राः
कृत्यमात्ययिकं
हि
नः ॥ १२ ॥
सराजभृत्यं
शत्रुघ्नं
भरतं
च
यशस्विनम् ।
युधाजितं
सुमन्त्रं
च
ये
च
तत्र
हिता
जनाः ॥ १३ ॥
ततो
हलहलाशब्दः
सुमहान्
समपद्यत ।
रथैरश्वैर्गजैश्चापि
जनानामुपगच्छताम् ॥ १४ ॥
ततो
भरतमायान्तं
शतक्रतुमिवामराः ।
प्रत्यनन्दन्
प्रकृतयो
यथा
दशरथं
तथा ॥ १५ ॥
ह्रद
इव
तिमिनागसंवृतः
स्तिमितजलो
मणिशङ्खशर्करः ।
दशरथसुतशोभिता
सभा
सदशरथेव
बभौ
यथापुरा ॥ १६ ॥