तामार्यगणसम्पूर्णां
भरतः
प्रग्रहां
सभाम् ।
ददर्श
बुद्धिसम्पन्नः
पूर्णचन्द्रो
निशामिव ॥ १ ॥
आसनानि
यथान्यायमार्याणां
विशतां
तदा ।
वस्त्राङ्गरागप्रभया
द्योतिता
सा
सभोत्तमा ॥ २ ॥
सा
विद्वज्जनसम्पूर्णा
सभा
सुरुचिरा
तदा ।
अदृश्यत
घनापाये
पूर्णचन्द्रेव
शर्वरी ॥ ३ ॥
राज्ञस्तु
प्रकृतीः
सर्वाः
समग्राः
प्रेक्ष्य
धर्मवित् ।
इदं
पुरोहितो
वाक्यं
भरतं
मृदु
चाब्रवीत् ॥ ४ ॥
तात
राजा
दशरथः
स्वर्गतो
धर्ममाचरन् ।
धनधान्यवतीं
स्फीतां
प्रदापय
पृथिवीं
तव ॥ ५ ॥
रामस्तथा
सत्यधृतिः
सतां
धर्ममनुस्मरन् ।
नाजहात्
पितुरादेशं
शशी
ज्योत्स्नामिवोदितः ॥ ६ ॥
पित्राभ्रात्रा
च
ते
दत्तं
राज्यं
निहतकण्टकम् ।
तद्भुङ्क्ष्व
मुदितामात्यः
क्षिप्रमेवाभिषेचय ॥ ७ ॥
उदीच्याश्च
प्रतीच्याश्च
दाक्षिणात्याश्च
केवलाः ।
कोट्यापरान्ताः
सामुद्रा
रत्नान्यभिहरन्तु
ते ॥ ८ ॥
तच्छ्रुत्वा
भरतो
वाक्यं
शोकेनाभिपरिप्लुतः ।
जगाम
मनसा
रामं
धर्मज्ञो
धर्मकाङ्क्षया ॥ ९ ॥
स
बाष्पकलया
वाचा
कलहंसस्वरो
युवा ।
विललाप
सभामध्ये
जगर्हे
च
पुरोहितम् ॥ १० ॥
चरितब्रह्मचर्यस्य
विद्यास्नातस्य
धीमतः ।
धर्मे
प्रयतमानस्य
को
राज्यं
मद्विधो
हरेत् ॥ ११ ॥
कथं
दशरथाज्जातो
भवेद्राज्यापहारकः ।
राज्यं
चाहं
च
रामस्य
धर्मं
वक्तुमिहार्हसि ॥ १२ ॥
ज्येष्ठः
श्रेष्ठश्च
धर्मात्मा
दिलीपनहुषोपमः ।
लब्धुमर्हति
काकुत्स्थो
राज्यं
दशरथो
यथा ॥ १३ ॥
अनार्यजुष्टमस्वर्ग्यं
कुर्यां
पापमहं
यदि ।
इक्ष्वाकूणामहं
लोके
भवेयं
कुलपांसनः ॥ १४ ॥
यद्धि
मात्रा
कृतं
पापं
नाहं
तदपि
रोचये ।
इहस्थो
वनदुर्गस्थं
नमस्यामि
कृताञ्जलिः ॥ १५ ॥
राममेवानुगच्छामि
राजा
स
द्विपदां
वरः ।
त्रयाणामपि
लोकानां
राज्यमर्हति
राघवः ॥ १६ ॥
तद्वाक्यं
धर्मसंयुक्तं
श्रुत्वा
सर्वे
सभासदः ।
हर्षान्मुमुचुरश्रूणि
रामे
निहितचेतसः ॥ १७ ॥
यदि
त्वार्यं
न
शक्ष्यामि
विनिवर्त्तयितुं
वनात् ।
वने
तत्रैव
वत्स्यामि
यथार्थो
लक्ष्मणस्तथा ॥ १८ ॥
सर्वोपायं
तु
वर्त्तिष्ये
विनिवर्त्तयितुं
बलात् ।
समक्षमार्यमिश्राणां
साधूनां
गुणवर्त्तिनाम् ॥ १९ ॥
विष्टिकर्मान्तिकाः
सर्वे
मार्गशोधकरक्षकाः ।
प्रस्थापिता
मया
पूर्वं
यात्रापि
मम
रोचते ॥ २० ॥
एवमुक्त्वा
तु
धर्मात्मा
भरतो
भ्रातृवत्सलः ।
समीपस्थमुवाचेदं
सुमन्त्रं
मन्त्रकोविदम् ॥ २१ ॥
तूर्णमुत्थाय
गच्छ
त्वं
सुमन्त्र
मम
शासनात् ।
यात्रामाज्ञापय
क्षिप्रं
बलं
चैव
समानय ॥ २२ ॥
एवमुक्तः
सुमन्त्रस्तु
भरतेन
महात्मना ।
हृष्टस्तदादिशत्
सर्वं
यथासन्दिष्टमिष्टवत् ॥ २३ ॥
ताः
प्रहृष्टाः
प्रकृतयो
बलाध्यक्षा
बलस्य
च ।
श्रुत्वा
यात्रां
समाज्ञप्तां
राघवस्य
निवर्त्तने ॥ २४ ॥
ततो
योधाङ्गनाः
सर्वा
भर्तॄन्
सर्वान्
गृहेगृहे ।
यात्रागमनमाज्ञाय
त्वरयन्ति
स्म
हर्षिताः ॥ २५ ॥
ते
हयैर्गोरथैः
शीघ्रैः
स्यन्दनैश्च
महाजवैः ।
सहयोधैर्बलाध्यक्षा
बलं
सर्वमचोदयन् ॥ २६ ॥
सज्जं
तु
तद्बलं
दृष्ट्वा
भरतो
गुरुसन्निधौ ।
रथं
मे
त्वरयस्वेति
सुमन्त्रं
पार्श्वतोऽब्रवीत् ॥ २७ ॥
भरतस्य
तु
तस्याज्ञां
प्रतिगृह्य
च
हर्षितः ।
रथं
गृहीत्वा
प्रययौ
युक्तं
परमवाजिभिः ॥ २८ ॥
स
राघवः
सत्यधृतिः
प्रतापवान्
ब्रुवन्
सुयुक्तं
दृढसत्यविक्रमः ।
गुरुं
महारण्यगतं
यशस्विनं
प्रसादयिष्यन्
भरतोऽब्रवीत्तदा ॥ २९ ॥
तूर्णं
समुत्थाय
सुमन्त्र
गच्छ
बलस्य
योगाय
बलप्रधानान् ।
आनेतुमिच्छामि
हि
तं
वनस्थं
प्रसाद्य
रामं
जगतो
हिताय ॥ ३० ॥
स
सूतपुत्रो
भरतेन
सम्यगाज्ञापितः
संपरिपूर्णकामः ।
शशास
सर्वान्
प्रकृतिप्रधानान्
बलस्य
मुख्यांश्च
सुहृज्जनं
च ॥ ३१ ॥
ततः
समुत्थाय
कुलेकुले
ते
राजन्यवैश्या
वृषलाश्च
विप्राः ।
अयूयुजन्नुष्ट्ररथान्
खरांश्च
नागान्
हयांश्चैव
कुलप्रसूतान् ॥ ३२ ॥