ततः
समुत्थितः
काल्यमास्थाय
स्यन्दनोत्तमम् ।
प्रययौ
भरतः
शीघ्रं
रामदर्शनकाङ्क्षया ॥ १ ॥
अग्रतः
प्रययुस्तस्य
सर्वे
मन्त्रिपुरोधसः ।
अधिरुह्य
हयैर्युक्तान्
रथान्
सूर्यरथोपमान् ॥ २ ॥
नवनागसहस्राणि
कल्पितानि
यथाविधि ।
अन्वयुर्भरतं
यान्तमिक्ष्वाकुकुलनन्दनम् ॥ ३ ॥
षष्टीरथसहस्राणि
धन्विनो
विविधायुधाः ।
अन्वयुर्भरतं
यान्तं
राजपुत्रं
यशस्विनम् ॥ ४ ॥
शतं
सहस्राण्यश्वानां
समारूढानि
राघवम् ।
अन्वयुर्भरतं
यान्तं
सत्यसन्धं
जितेन्द्रियम् ॥ ५ ॥
कैकेयी
च
सुमित्रा
च
कौसल्या
च
यशस्विनी ।
रामानयनसंहृष्टा
ययुर्यानेन
भास्वता ॥ ६ ॥
प्रयाताश्चार्यसङ्घाता
रामं
द्रष्टुं
सलक्ष्मणम् ।
तस्यैव
च
कथाश्चित्राः
कुर्वाणा
हृष्टमानसाः ॥ ७ ॥
मेघश्यामं
महाबाहुं
स्थिरसत्त्वं
दृढव्रतम् ।
कदा
द्रक्ष्यामहे
रामं
जगतः
शोकनाशनम् ॥ ८ ॥
दृष्ट
एव
हि
नः
शोकमपनेष्यति
राघवः ।
तमः
सर्वस्य
लोकस्य
समुद्यन्निव
भास्करः ॥ ९ ॥
इत्येवं
कथयन्तस्ते
सम्प्रहृष्टाः
कथाः
शुभाः ।
परिष्वजानाश्चान्योन्यं
ययुर्नागरिका
जनाः ॥ १० ॥
ये
च
तत्रापरे
सर्वे
सम्मता
ये
च
नैगमाः ।
रामं
प्रति
ययुर्हृष्टाः
सर्वाः
प्रकृतयस्तथा ॥ ११ ॥
मणिकाराश्च
ये
केचित्
कुम्भकाराश्च
शोभनाः ।
सूत्रकर्मकृतश्चैव
ये
च
शस्त्रोपजीविनः ॥ १२ ॥
मायूरकाः
क्राकचिका
रोचका
वेधकास्तथा ।
दन्तकाराः
सुधाकारास्तथा
गन्धोपजीविनः ॥ १३ ॥
सुवर्णकाराः
प्रख्यातास्तथा
कम्बलधावकाः ।
स्नापकोच्छादका
वैद्या
धूपकाः
शौण्डिकास्तथा ॥ १४ ॥
रजकास्तुन्नवायाश्च
ग्रामघोषमहत्तराः ।
शैलूषाश्च
सह
स्त्रीभिर्ययुः
कैवर्त्तकास्तथा ॥ १५ ॥
समाहिता
वेदविदो
ब्राह्मणा
वृत्तसम्मताः ।
गोरथैर्भरतं
यान्तमनुजग्मुः
सहस्रशः ॥ १६ ॥
सुवेषाः
शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।
सर्वे
ते
विविधैर्यानैः
शनैर्भरतमन्वयुः ॥ १७ ॥
प्रहृष्टमुदिता
सेना
सान्वयात्कैकयीसुतम् ।
भ्रातुरानयने
यान्तं
भरतं
भ्रातृवत्सलम् ॥ १८ ॥
ते
गत्वा
दूरमध्वानं
रथयानाश्वकुञ्जरैः ।
समासेदुस्ततो
गङ्गां
श्रृङ्गिबेरपुरं
प्रति ॥ १९ ॥
यत्र
रामसखो
वीरो
गुहो
ज्ञातिगणैर्वृतः ।
निवसत्यप्रमादेन
देशं
तं
परिपालयन् ॥ २० ॥
उपेत्य
तीरं
गङ्गायाश्चक्रवाकैरलङ्कृतम् ।
व्यवातिष्ठत
सा
सेना
भरतस्यानुयायिनी ॥ २१ ॥
निरीक्ष्यानुगतां
सेनां
तां
च
गङ्गां
शिवोदकाम् ।
भरतः
सचिवान्
सर्वानब्रवीद्वाक्यकोविदः ॥ २२ ॥
निवेशयत
मे
सैन्यमभिप्रायेण
सर्वतः ।
विश्रान्ताः
प्रतरिष्यामः
श्व
इदानीमिमां
नदीम् ॥ २३ ॥
दातुं
च
तावदिच्छामि
स्वर्गतस्य
महीपतेः ।
और्ध्वदेहनिमित्तार्थमवतीर्योदकं
नदीम् ॥ २४ ॥
तस्यैवं
ब्रुवतोऽमात्यास्तथेत्युक्त्वा
समाहिताः ।
न्यवेशयंस्तां
छन्देन
स्वेन
स्वेन
पृथक्पृथक् ॥ २५ ॥
निवेश्य
गङ्गमनु
तां
महानदीं
चमूं
विधानैः
परिबर्हशोभिनीम् ।
उवास
रामस्य
तदा
महात्मनो
विचिन्तयानो
भरतो
निवर्त्तनम् ॥ २६ ॥