एवमुक्तस्तु
भरतो
निषादाधिपतिं
गुहम् ।
प्रत्युवाच
महाप्राज्ञो
वाक्यं
हेत्यर्थसंहितम् ॥ १ ॥
ऊर्जितः
खलु
ते
कामः
कृतो
मम
गुरोः
सखे ।
यो
मे
त्वमीदृशीं
सेनामेकोभ्यर्चितुमिच्छसि ॥ २ ॥
इत्युक्त्वा
तु
महातेजा
गुहं
वचनमुत्तमम् ।
अब्रवीद्भरतः
श्रीमान्
निषादाधिपतिं
पुनः ॥ ३ ॥
कतरेण
गमिष्यामि
भरद्वाजाश्रमं
गुह ।
गहनोऽयं
भृशं
देशो
गङ्गानूपो
दुरत्ययः ॥ ४ ॥
तस्य
तद्वचनं
श्रुत्वा
राजपुत्रस्य
धीमतः ।
अब्रवीत्
प्राञ्जलिर्वाक्यं
गुहो
गहनगोचरः ॥ ५ ॥
दाशास्त्वाऽनुगमिष्यन्ति
धन्विनः
सुसमाहिताः ।
अहं
त्वाऽनुगमिष्यामि
राजपुत्र
महायशः ॥ ६ ॥
कच्चिन्न
दुष्टो
व्रजसि
रामस्याक्लिष्टकर्मणः ।
इयं
ते
महती
सेना
शङ्कां
जनयतीव
मे ॥ ७ ॥
तमेवमभिभाषन्तमाकाश
इव
निर्मलः ।
भरतः
श्लक्ष्णया
वाचा
गुहं
वचनमब्रवीत् ॥ ८ ॥
माभूत्स
कालो
यत्कष्टं
न
मां
शङ्कितुमर्हसि ।
राघवः
स
हि
मे
भ्राता
ज्येष्ठः
पितृसमो
मतः ॥ ९ ॥
तं
निवर्त्तयितुं
यामि
काकुत्स्थं
वनवासिनम् ।
बुद्धिरन्या
न
ते
कार्या
गुह
सत्यं
ब्रवीमि
ते ॥ १० ॥
स
तु
संहृष्टवदनः
श्रुत्वा
भरतभाषितम् ।
पुनरेवाब्रवीद्वाक्यं
भरतं
प्रति
हर्षितः ॥ ११ ॥
धन्यस्त्वं
न
त्वया
तुल्यं
पश्यामि
जगतीतले ।
अयत्नादागतं
राज्यं
यस्त्वं
त्यक्तुमिहेच्छसि ॥ १२ ॥
शाश्वती
खलु
ते
कीर्त्तिर्लोकाननुचरिष्यति ।
यस्त्वं
कृच्छ्रगतं
रामं
प्रत्यानयितुमिच्छसि ॥ १३ ॥
एवं
सम्भाषमाणस्य
गुहस्य
भरतं
तदा ।
बभौ
नष्टप्रभः
सूर्यो
रजनी
चाभ्यवर्त्तत ॥ १४ ॥
सन्निवेश्य
स
तां
सेनां
गुहेन
परितोषितः ।
शत्रुघ्नेन
सह
श्रीमान्
शयनं
पुनरागमत् ॥ १५ ॥
रामचिन्तामयः
शोको
भरतस्य
महात्मनः ।
उपस्थितो
ह्यनर्हस्य
धर्मप्रेक्षस्य
तादृशः ॥ १६ ॥
अन्तर्दाहेन
दहनः
सन्तापयति
राघवम् ।
वनदाहाभिसन्तप्तं
गूढोग्निरिव
पादपम् ॥ १७ ॥
प्रसृतस्सर्वगात्रेभ्यः
स्वेदं
शोकाग्निसम्भवम् ।
यथा
सूर्यांशुसन्तप्तो
हिमवान्
प्रसृतो
हिमम् ॥ १८ ॥
ध्याननिर्दरशैलेन
विनिश्वसितधातुना ।
दैन्यपादपसङ्घेन
शोकायासाधिश्रृङ्गिणा ॥ १९ ॥
प्रमोहानन्तसत्त्वेन
सन्तापौषधिवेणुना
आक्रान्तो
दुःखशैलेन
महता
कैकयीसुतः ।
विनिःश्वसन्
वै
भृशदुर्मनास्ततः
प्रमूढसञ्ज्ञः
परमापदं
गतः ॥ २० ॥
शमं
न
लेभे
हृदयज्वरार्दितो
नरर्षभो
यूथगतो
यथर्षभः ।
गुहेन
सार्द्धं
भरतः
समागतो
महानुभावः
सजनः
समाहितः ॥ २१ ॥
सुदुर्मनास्तं
भरतं
तदा
पुनर्गुहः
समाश्वासयदग्रजं
प्रति ॥ २२ ॥