तच्छ्रुत्वा
निपुणं
सर्वं
भरतः
सह
मन्त्रिभिः ।
इङ्गुदीमूलमागम्य
रामशय्यामवेक्ष्य
ताम् ॥ १ ॥
अब्रवीज्जननीः
सर्वा
इह
तेन
महात्मना ।
शर्वरी
शयिता
भूमाविदमस्य
विमर्दितम् ॥ २ ॥
महाभागकुलीनेन
महाभागेन
धीमता ।
जातो
दशरथे
नोर्व्यां
न
रामः
स्वप्तुमर्हति ॥ ३ ॥
अजिनोत्तरसंस्तीर्णे
वरास्तरणसञ्चये ।
शयित्वा
पुरुषव्याघ्रः
कथं
शेते
महीतले ॥ ४ ॥
प्रासादाग्रविमानेषु
वलभीषु
च
सर्वदा ।
हैमराजतभौमेषु
वरास्तरणशालिषु ॥ ५ ॥
पुष्पसञ्चयचित्रेषु
चन्दनागरुगन्धिषु ।
पाण्डराभ्रप्रकाशेषु
शुकसङ्घरुतेषु
च ॥ ६ ॥
प्रासादवरवर्य्येषु
शीतवत्सु
सुगन्धिषु ।
उषित्वा
मेरुकल्पेषु
कृतकाञ्चनभित्तिषु ॥ ७ ॥
गीतवादित्रनिर्घोषैर्वराभरणनिस्वनैः ।
मृदङ्गवरशब्दैश्च
सततं
प्रतिबोधितः ॥ ८ ॥
वन्दिभिर्वन्दितः
काले
बहुभिः
सूतमागधैः ।
गाथाभिरनुरूपाभिस्तुतिभिश्च
परन्तपः ॥ ९ ॥
अश्रद्धेयमिदं
लोके
न
सत्यं
प्रतिभाति
मा ।
मुह्यते
खलु
मे
भावः
स्वप्नोऽयमिति
मे
मतिः ॥ १० ॥
न
नूनं
दैवतं
किञ्चित्
कालेन
बलवत्तरम् ।
यत्र
दाशरथी
रामो
भूमावेव
शयीत
सः ॥ ११ ॥
विदेहराजस्य
सुता
सीता
च
प्रियदर्शना ।
दयिता
शयिता
भूमौ
स्नुषा
दशरथस्य
च ॥ १२ ॥
इयं
शय्या
मम
भ्रातुरिदं
हि
परिवर्त्तितम् ।
स्थण्डिले
कठिने
सर्वं
गात्रैर्विमृदितं
तृणम् ॥ १३ ॥
मन्ये
साभरणा
सुप्ता
सीतास्मिन्
शयनोत्तमे ।
तत्रतत्र
हि
दृश्यन्ते
सक्ताः
कनकबिन्दवः ॥ १४ ॥
उत्तरीयमिहासक्तं
सुव्यक्तं
सीतया
तदा ।
तथा
ह्येते
प्रकाशन्ते
सक्ताः
कौशेयतन्तवः ॥ १५ ॥
मन्ये
भर्त्तुः
सुखा
शय्या
येन
बाला
तपस्विनी ।
सुकुमारी
सती
दुःखं
न
विजानाति
मैथिली ॥ १६ ॥
हा
हन्तास्मि
नृशंसोऽहं
यत्
सभार्यः
कृते
मम ।
ईदृशीं
राघवः
शय्यामधिशेते
ह्यनाथवत् ॥ १७ ॥
सार्वभौमकुले
जातः
सर्वलोकस्य
सम्मतः ।
सर्वलोकप्रियस्त्यक्त्वा
राज्यं
सुखमनुत्तमम् ॥ १८ ॥
कथमिन्दीवरश्यामो
रक्ताक्षः
प्रियदर्शनः ।
सुखभागी
न
दुःखार्हः
शयितो
भुवि
राघवः ॥ १९ ॥
धन्यः
खलु
महाभागो
लक्ष्मणः
शुभलक्षणः ।
भ्रातरं
विषमे
काले
यो
राममनुवर्त्तते ॥ २० ॥
सिद्धार्था
खलु
वैदेही
पतिं
यानुगता
वनम् ।
वयं
संशयिताः
सर्वे
हीनास्तेन
महात्मना ॥ २१ ॥
अकर्णधारा
पृथिवी
शून्येव
प्रतिभाति
मा ।
गते
दशरथे
स्वर्गं
रामे
चारण्यमाश्रिते ॥ २२ ॥
न
च
प्रार्थयते
कश्चिन्मनसापि
वसुन्धराम् ।
वनेऽपि
वसतस्तस्य
बाहुवीर्याभिरक्षिताम् ॥ २३ ॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।
अपावृतपुरद्वारां
राजधानीमरक्षिताम् ॥ २४ ॥
अप्रहृष्टबलां
न्यूनां
विषमस्थामनावृताम् ।
शत्रवो
नाभिमन्यन्ते
भक्षान्
विषकृतानिव ॥ २५ ॥
अद्यप्रभृति
भूमौ
तु
शयिष्येऽहं
तृणेषु
वा ।
फलमूलाशनो
नित्यं
जटाचीराणि
धारयन् ॥ २६ ॥
तस्यार्थमुत्तरं
कालं
निवत्स्यामि
सुखं
वने ।
तं
प्रतिश्रवमामुच्य
नास्य
मिथ्या
भविष्यति ॥ २७ ॥
वसन्तं
भ्रातुरर्थाय
शत्रुध्नो
माऽनुवत्स्यति ।
लक्ष्मणेन
सह
त्वार्यो
ह्ययोध्यां
पालयिष्यति ॥ २८ ॥
अभिषेक्ष्यन्ति
काकुत्स्थमयोध्यायां
द्विजातयः ।
अपि
मे
देवताः
कुर्युरिमं
सत्यं
मनोरथम् ॥ २९ ॥
प्रसाद्यमानः
शिरसा
मया
स्वयं
बहुप्रकारं
यदि
नाभिपत्स्यते ।
ततोऽनुवत्स्यामि
चिराय
राघवं
वने
वसन्नार्हति
मामुपेक्षितुम् ॥ ३० ॥