भरद्वाजाश्रमं
दृष्ट्वा
क्रोशादेव
नरर्षभः ।
बलं
सर्वमवस्थाप्य
जगाम
सह
मन्त्रिभिः ॥ १ ॥
पद्भ्यामेव
हि
धर्मज्ञो
न्यस्तशस्त्रपरिच्छदः ।
वसानो
वाससी
क्षौमे
पुरोधाय
पुरोधसम् ॥ २ ॥
ततः
सन्दर्शने
तस्य
भरद्वाजस्य
राघवः ।
मन्त्रिणस्तानवस्थाप्य
जगामानुपुरोहितम् ॥ ३ ॥
वसिष्ठमथ
दृष्ट्वैव
भरद्वाजो
महातपाः ।
सञ्चचालासनात्तूर्णं
शिष्यानर्ध्यमिति
ब्रुवन् ॥ ४ ॥
अबुध्यत
महातेजाः
सुतं
दशरथस्य
तम्\* ।
वसिष्ठसाहचर्य्यादिति
भावः ॥ ५ ॥
ताभ्यामर्ध्यं
च
पाद्यं
च
दत्त्वा
पश्चात्
फलानि
च ।
आनुपूर्व्याच्च
धर्मज्ञः
पप्रच्छ
कुशलं
कुले ॥ ६ ॥
अयोध्यायां
बले
कोशे
मित्रेष्वपि
च
मन्त्रिषु ।
जानन्
दशरथं
वृत्तं
न
राजानमुदाहरत् ॥ ७ ॥
वसिष्ठो
भरतश्चैनं
पप्रच्छतुरनामयम् ।
शरीरेऽग्निषु
वृक्षेषु
शिष्येषु
मृगपक्षिषु ॥ ८ ॥
तथेति
तत्प्रतिज्ञाय
भरद्वाजो
महातपाः ।
भरतं
प्रत्युवाचेदं
राघवस्नेहबन्धनात् ॥ ९ ॥
किमिहागमने
कार्य्यं
तव
राज्यं
प्रशासतः ।
एतदाचक्ष्व
मे
सर्वं
नहि
मे
शुद्ध्यते
मनः ॥ १० ॥
सुषुवे
यममित्रघ्नं
कौसल्या
नन्दवर्द्धनम् ।
भ्रात्रा
सह
सभार्यो
यश्चिरं
प्रव्राजितो
वनम् ॥ ११ ॥
नियुक्तः
स्त्रीनियुक्तेन
पित्रा
योऽसौ
महायशाः ।
वनवासी
भवेतीह
समाः
किल
चतुर्दश ॥ १२ ॥
कच्चिन्न
तस्यापापस्य
पापं
कर्तुमिहेच्छसि ।
अकण्टकं
भोक्तुमना
राज्यं
तस्यानुजस्य
च ॥ १३ ॥
एवमुक्तो
भरद्वाजं
भरतः
प्रत्युवाच
ह ।
पर्य्यश्रुनयनो
दुःखाद्वाचा
संसज्जमानया ॥ १४ ॥
हतोऽस्मि
यदि
मामेवं
भगवानपि
मन्यते ।
मत्तो
न
दोषमाशङ्के
नैवं
मामनुशाधि
हि ॥ १५ ॥
न
चैत
दिष्टं
माता
मे
यदवोचन्मदन्तरे ।
नाहमेतेन
तुष्टश्च
न
तद्वचनमाददे ॥ १६ ॥
अहं
तु
तं
नरव्याघ्रमुपयातः
प्रसादकः ।
प्रतिनेतुमयोध्यां
च
पादौ
तस्याभिवन्दितुम् ॥ १७ ॥
त्वं
मामेवङ्गतं
मत्वा
प्रसादं
कर्तुमर्हसि ।
शंस
मे
भगवन्
रामः
क्व
सम्प्रति
महीपतिः ॥ १८ ॥
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो
भगवांस्ततः ।
उवाच
तं
भरद्वाजः
प्रसादाद्भरतं
वचः ॥ १९ ॥
त्वय्येतत्पुरुषव्याघ्र
युक्तं
राघववंशजे ।
गुरुवृत्तिर्दमश्चैव
साधूनां
चानुयायिता ॥ २० ॥
जाने
चैतन्मनःस्थं
ते
दृढीकरणमस्त्विति ।
अपृच्छं
त्वां
तथात्यर्थं
कीर्त्तिं
समभिवर्द्धयन् ॥ २१ ॥
जाने
च
रामं
धर्म्मज्ञं
ससीतं
सहलक्ष्मणम् ।
असौ
वसति
ते
भ्राता
चित्रकूटे
महागिरौ ॥ २२ ॥
श्वस्तु
गन्तासि
तं
देशं
वसाद्य
सह
मन्त्रिभिः ।
एतं
मे
कुरु
सुप्राज्ञ
कामं
कामार्थकोविद ॥ २३ ॥
ततस्तथेत्येवमुदारदर्शनः
प्रतीतरूपो
भरतोऽब्रवीद्वचः ।
चकार
बुद्धिं
च
तदा
तदाश्रमे
निशानिवासाय
नराधिपात्मजः ॥ २४ ॥