कृतबुद्धिं
निवासाय
तत्रैव
स
मुनिस्तदा ।
भरतं
कैकयीपुत्रमातिथ्येन
न्यमन्त्रयत् ॥ १ ॥
अब्रवीद्भरतस्त्वेनं
नन्विदं
भवता
कृतम् ।
पाद्यमर्घ्यं
तथातिथ्यं
वने
यदुपपद्यते ॥ २ ॥
अथोवाच
भरद्वाजो
भरतं
प्रहसन्निव ।
जाने
त्वां
प्रीतिसंयुक्तं
तुष्येस्त्वं
येन
केनचित् ॥ ३ ॥
सेनायास्तु
तवैतस्याः
कर्तुमिच्छामि
भोजनम् ।
मम
प्रीतिर्यथारूपा
त्वमर्हो
मनुजाधिप ॥ ४ ॥
किमर्थं
चापि
निक्षिप्य
दूरे
बलमिहागतः ।
कस्मान्नेहोपयातोसि
सबलः
पुरुषर्षभ ॥ ५ ॥
भरतः
प्रत्युवाचेदं
प्राञ्जलिस्तं
तपोधनम् ।
ससैन्यो
नोपयातोऽस्मि
भगवन्
भगवद्भयात् ॥ ६ ॥
राज्ञा
च
भगवन्
नित्यं
राजपुत्रेण
वा
सदा ।
यत्नतः
परिहर्त्तव्या
विषयेषु
तपस्विनः ॥ ७ ॥
वाजिमुख्या
मनुष्याश्च
मत्ताश्च
वरवारणाः ।
प्रच्छाद्य
भगवन्
भूमिं
महतीमनुयान्ति
माम् ॥ ८ ॥
ते
वृक्षानुदकं
भूमिमाश्रमेषूटजांस्तथा ।
न
हिंस्युरिति
तेनाहमेक
एव
समागतः ॥ ९ ॥
आनीयतामितः
सेनेत्याज्ञप्तः
परमर्षिणा ।
ततस्तु
चक्रे
भरतः
सेनायाः
समुपागमम् ॥ १० ॥
अग्निशालां
प्रविश्याथ
पीत्वापः
परिमृज्य
च ।
आतिथ्यस्य
क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥ ११ ॥
आतिथ्यं
कर्तुमिच्छामि
तत्र
मे
संविधीयताम्\* ।
आह्वानमन्त्रमाह--आह्वय
इत्यादिना ॥ १२ ॥
आह्वये
लोकपालांस्त्रीन्
देवान्
शक्रमुखांस्तथा ।
आतिथ्यं
कर्तुमिच्छामि
तत्र
मे
संविधीयताम् ॥ १३ ॥
प्राक्स्रोतसश्च
या
नद्यः
प्रत्यक्स्रोतस
एव
च ।
पृथिव्यामन्तरिक्षे
च
समायान्त्वद्य
सर्वशः ॥ १४ ॥
अन्याः
स्रवन्तु
मैरेयं
सुरामन्याः
सुनिष्ठिताम् ।
अपराश्चोदकं
शीतमिक्षुकाण्डरसोपमम् ॥ १५ ॥
आह्वये
देवगन्धर्वान्
विश्वावसुहहाहुहून् ।
तथैवाप्सरसो
देवीर्गन्धर्व्वीश्चापि
सर्वशः ॥ १६ ॥
घृताचीमथ
विश्वाचीं
मिश्रकेशीमलम्बुसाम् ।
नागदन्तां
च
हेमां
च
हिमामद्रिकृतस्थलाम् ॥ १७ ॥
शक्रं
याश्चोपतिष्ठन्ति
ब्रह्माणं
याश्च
योषितः ।
सर्वास्तुम्बुरुणा
सार्द्धमाह्वये
सपरिच्छदाः ॥ १८ ॥
वनं
कुरुषु
यद्दिव्यं
वासोभूषणपत्त्रवत् ।
दिव्यनारीफलं
शश्वत्तत्कौबेरमिहैतु
च ॥ १९ ॥
इह
मे
भगवान्
सोमो
विधत्तामन्नमुत्तमम् ।
भक्ष्यं
भोज्यं
च
चोष्यं
च
लेह्यं
च
विविधं
बहु ॥ २० ॥
विचित्राणि
च
माल्यानि
पादपप्रच्युतानि
च ।
सुरादीनि
च
पेयानि
मांसानि
विविधानि
च ॥ २१ ॥
एवं
समाधिना
युक्तस्तेजसाऽप्रतिमेन
च ।
शीक्षास्वरसमायुक्तं
तपसा
चाब्रवीन्मुनिः ॥ २२ ॥
मनसा
ध्यायतस्तस्य
प्राङ्मुखस्य
कृताञ्जलेः ।
आजग्मुस्तानि
सर्वाणि
दैवतानि
पृथक्पृथक् ॥ २३ ॥
मलयं
दर्दुरं
चैव
ततः
स्वेदनुदो़ऽनिलः ।
उपस्पृश्य
ववौ
युक्त्या
सुप्रियात्मा
सुखः
शिवः ॥ २४ ॥
दिव्यदुन्दुभिघोषश्च
दिक्षु
सर्वासु
शुश्रुवे\* ।
पुष्पवृष्टयोऽभ्यवर्त्तन्त,
आसन्नित्यर्थः ॥ २५ ॥
प्रववुश्चोत्तमा
वाताननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वा
वीणाः
प्रमुमुचुः
स्वरान् ॥ २६ ॥
स
शब्दो
द्यां
च
भूमिं
च
प्राणिनां
श्रवणानि
च ।
विवेशोच्चारितः
श्लक्ष्णः
समो
लयगुणान्वितः ॥ २७ ॥
तस्मिन्नुपरते
शब्दे
दिव्ये
श्रोतृसुखे
नृणाम् ।
ददर्श
भारतं
सैन्यं
विधानं
विश्वकर्मणः ॥ २८ ॥
बभूव
हि
समा
भूमिः
समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना
नीलवैडूर्य्यसन्निभैः ॥ २९ ॥
तस्मिन्
बिल्वाः
कपित्थाश्च
पनसा
बीजपूरकाः ।
आमलक्यो
बभूवुश्च
चूताश्च
फलभूषणाः ॥ ३० ॥
उत्तरेभ्यः
कुरुभ्यश्च
वनं
दिव्योपभोगवत् ।
आजगाम
नदी
दिव्या
तीजैर्बहुभिर्वृता ॥ ३१ ॥
चतुःशालानि
शुभ्राणि
शालाश्च
गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि
शुभानि
च ॥ ३२ ॥
सितमेघनिभं
चापि
राजवेश्मसु
तोरणम् ।
दिव्यमाल्यकृताकारं
दिव्यगन्धसमुक्षितम् ॥ ३३ ॥
दिव्यैः
सर्वरसैर्युक्तं
दिव्यभोजनवस्त्रवत् ।
उपकल्पितसर्वान्नं
धौतनिर्मलभाजनम् ॥ ३४ ॥
प्रविवेश
महाबाहुरनुज्ञातो
महर्षिणा ।
वेश्म
तद्रत्नसम्पूर्णं
भरतः
केकयीसुतः ॥ ३५ ॥
अनुजग्मुश्च
तं
सर्वे
मन्त्रिणः
सपुरोहिताः ।
बभूवुश्च
मुदा
युक्ता
दृष्ट्वा
तं
वेश्मसंविधिम् ॥ ३६ ॥
तत्र
राजासनं
दिव्यं
व्यजनं
छत्रमेव
च ।
भरतो
मन्त्रिभिः
सार्द्धमभ्यवर्त्तत
राजवत् ॥ ३७ ॥
आसनं
पूजयामास
रामायाभिप्रणम्य
च ।
वालव्यजनमादाय
न्यषीदत्
सचिवासने ॥ ३८ ॥
आनुपूर्व्यानिषेदुश्च
सर्वे
मन्त्रिपुरोहिताः ।
ततः
सेनापतिः
पश्चात्
प्रशास्ता
च
निषेदतुः ॥ ३९ ॥
ततस्तत्र
मुहूर्त्तेन
नद्यः
पायसकर्दमाः ।
उपातिष्ठन्त
भरतं
भरद्वाजस्य
शासनात् ॥ ४० ॥
तासामुभयतःकूलं
पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा
दिव्या
ब्रह्मणस्तु
प्रसादजाः ॥ ४१ ॥
तेनैव
च
मुहूर्त्तेन
दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा
ब्रह्मणा
प्रहिताः
स्त्रियः ॥ ४२ ॥
सुवर्णमणिमुक्तेन
प्रवालेन
च
शोभिताः ।
आगुर्विंशतिसाहस्राः
कुबेरप्रहिताः
स्त्रियः ॥ ४३ ॥
याभिर्गृहीतपुरुषः
सोन्माद
इव
लक्ष्यते ।
आगुर्विंशतिसाहस्रा
नन्दनादप्सरोगणाः ॥ ४४ ॥
नारदस्तुम्बुरुर्गोपः
प्रवराः
सूर्य्यवर्चसः ।
एते
गन्धर्वराजानो
भरतस्याग्रतो
जगुः ॥ ४५ ॥
अलम्बुसा
मिश्रकेशी
पुण्डरीकाथ
वामना ।
उपानृत्यंस्तु
भरत
भरद्वाजस्य
शासनात् ॥ ४६ ॥
यानि
माल्यानि
देवेषु
यानि
चैत्ररथे
वने ।
प्रयागे
तान्यदृश्यन्त
भरद्वाजस्य
तेजसा ॥ ४७ ॥
बिल्वा
मार्दङ्गिका
आसन्
शम्याग्राहा
विभीतकाः ।
अश्वत्थानर्त्तकाश्चासन्
भरद्वाजस्य
शासनात् ॥ ४८ ॥
ततः
सरलतालाश्च
तिलका
नक्तमालकाः ।
प्रहृष्टास्तत्र
सम्पेतुः
कुब्जा
भूत्वाथ
वामनाः ॥ ४९ ॥
शिंशुपामलकीजम्ब्वो
याश्चान्याः
काननेषु
ताः ।
मालती
मल्लिका
जातिर्याश्चान्याः
कानने
लताः ॥ ५० ॥
सुराः
सुरापाः
पिबत
पायसं
च
बुभुक्षिताः ।
मांसानि
च
सुमेध्यानि
भक्ष्यन्तां
यावदिच्छथ ॥ ५१ ॥
उच्छाद्य
स्नापयन्ति
स्म
नदीतीरेषु
वल्गुषु ।
अप्येकमेकं
पुरुषं
प्रमदाः
सप्त
चाष्ट
च ॥ ५२ ॥
संवाहन्त्यः
समापेतुर्नार्यो
रुचिरलोचनाः ।
परिमृज्य
तथान्योन्यं
पाययन्ति
वराङ्गनाः ॥ ५३ ॥
हयान्
गजान्
खरानुष्ट्रांस्तथैव
सुरभेः
सुतान् ।
अभोजयन्
वाहनपास्तेषां
भोज्यं
यथाविधि ॥ ५४ ॥
इक्षूंश्च
मधुलाजांश्च
भोजयन्ति
स्म
वाहनान् ।
इक्ष्वाकुवरयोधानां
चोदयन्तो
महाबलाः ॥ ५५ ॥
नाश्वबन्धोऽश्वमाजानान्न
गजं
कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता
नमूः
सा
तत्र
सम्बभौ ॥ ५६ ॥
तर्पिताः
सर्वकामैस्ते
रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः
सैन्या
वाचमुदैरयन् ॥ ५७ ॥
नैवायोध्यां
गमिष्यामो
न
गमिष्याम
दण्डकान् ।
कुशलं
भरतस्यास्तु
रामस्यास्तु
तथा
सुखम् ॥ ५८ ॥
इति
पादातयोधाश्च
हस्त्यश्वारोह
बन्धकाः ।
अनाथास्तं
विधिं
लब्ध्वा
वाचमेतामुदैरयन् ॥ ५९ ॥
सम्प्रहृष्टा
विनेदुस्ते
नरास्तत्र
सहस्रशः ।
भरतस्यानुयातारः
स्वर्गोयमिति
चाब्रुवन् ॥ ६० ॥
नृत्यन्ति
स्म
हसन्ति
स्म
गायन्ति
स्म
च
सैनिकाः ।
समन्तात्
परिधावन्ति
माल्योपेताः
सहस्रशः ॥ ६१ ॥
ततो
भुक्तवतां
तेषां
तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य
भक्ष्यांस्तानभवद्भक्षणे
मतिः ॥ ६२ ॥
प्रेष्याश्चेष्ट्यश्च
वध्वश्च
बलस्थाश्च
सहस्रशः ।
बभूवुस्ते
भृशं
दृप्ताः
सर्वे
चाहतवाससः ॥ ६३ ॥
कुञ्जराश्च
खरोष्ट्राश्च
गोश्वाश्च
मृगपक्षिणः ।
बभूवुः
सुभृतास्तत्र
नान्यो
ह्यन्यमकल्पयत् ॥ ६४ ॥
नाशुक्लवासास्तत्रासीत्
क्षुधितो
मलिनोऽपि
वा ।
रजसा
ध्वस्तकेशो
वा
नरः
कश्चिददृश्यत ॥ ६५ ॥
आजैश्चापि
च
वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूहसंसिद्धैः
सूपैर्गन्धरसान्वितैः ॥ ६६ ॥
पुष्पध्वजवतीः
पूर्णाः
शुक्लस्यान्नस्य
चाभितः ।
ददृशुर्विस्मितास्तत्र
नरा
लौहीः
सहस्रशः ॥ ६७ ॥
बभूवुर्वनपार्श्वेषु
कूपाः
पायसकर्दमाः ।
ताश्च
कामदुघा
गावो
द्रुमाश्चासन्
मधुस्रुतः ॥ ६८ ॥
वाप्यो
मैरेयपूर्णाश्च
मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि
मार्गमायूरकौक्कुटैः ॥ ६९ ॥
पात्रीणां
च
सहस्राणि
स्थालीनां
नियुतानि
च ।
न्यर्बुदानि
च
पात्राणि
शातकुम्भमयानि
च ॥ ७० ॥
स्थाल्यः
कुम्भ्यः
करम्भ्यश्च
दधिपूर्णाः
सुसंस्कृताः ।
यौवनस्थस्य
गौरस्य
कपित्थस्य
सुगन्धिनः ॥ ७१ ॥
ह्रदाः
पूर्णा
रसालस्य
दघ्नः
श्वेतस्य
चापरे ।
बभूवुः
पायसस्यान्ये
शर्करायाश्च
सञ्चयाः ॥ ७२ ॥
कल्कांश्चूर्णकषायांश्च
स्नानानि
विविधानि
च ।
ददृशुर्भाजनस्थानि
तीर्थेषु
सरितां
नराः ॥ ७३ ॥
शुक्लानंशुमतश्चापि
दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च
समुद्गेष्ववतिष्ठतः ॥ ७४ ॥
दर्पणान्
परिमृष्टांश्च
वाससां
चापि
सञ्चयान् ।
पादुकोपानहश्चैव
युग्मानि
च
सहस्रशः ॥ ७५ ॥
आञ्जनीः
कङ्कतान्
कूर्चान्
शस्त्राणि
च
धनूंषि
च ।
मर्मत्राणानि
चित्राणि
शयनान्यासनानि
च ॥ ७६ ॥
प्रतिपानह्रदान्
पूर्णान्
खरोष्ट्रगजवाजिनाम् ।
अवगाह्य
सुतीर्थांश्च
ह्रदान्
सोत्पलपुष्करान् ॥ ७७ ॥
आकाशवर्णप्रतिमान्
स्वच्छतोयान्
सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च
मृदून्
यवससञ्चयान् ॥ ७८ ॥
निर्वापार्थान्
पशूनां
ते
ददृशुस्तत्र
सर्वशः ।
व्यस्मयन्त
मनुष्यास्ते
स्वप्नकल्पं
तदद्भुतम् ॥ ७९ ॥
दृष्ट्वातिथ्यं
कृतं
तादृक्
भरतस्य
महर्षिणा ।
इत्येवं
रममाणानां
देवानामिव
नन्दने ॥ ८० ॥
भरद्वाजाश्रमे
रम्ये
सा
रात्रिर्व्यत्यवर्त्तत ।
प्रतिजग्मुश्च
ता
नद्यो
गन्धर्वाश्च
यथागतम् ॥ ८१ ॥
भरद्वाजमनुज्ञाप्य
ताश्च
सर्वा
वराङ्गनाः ।
तथैव
मत्ता
मदिरोत्कटा
नरास्तथैव
दिव्यागुरुचन्दनोक्षिताः ॥ ८२ ॥
तथैव
दिव्या
विविधाः
स्रगुत्तमाः
पृथक्
प्रकीर्णा
मनुजैः
प्रमर्दिताः ॥ ८३ ॥