ततस्तां
रजनीं
व्युष्य
भरतः
सपरिच्छदः ।
कृतातिथ्यो
भरद्वाजं
कामादभिजगाम
ह ॥ १ ॥
तमृषिः
पुरुषव्याघ्रं
प्राञ्जलिं
प्रेक्ष्य
चागतम् ।
हुताग्निहोत्रो
भरतं
भरद्वाजोऽभ्यभाषत ॥ २ ॥
कच्चिदत्र
सुखा
रात्रिस्तवास्मद्विषये
गता ।
समग्रस्ते
जनः
कच्चिदातिथ्ये
शंस
मेऽनघ ॥ ३ ॥
तमुवाचाञ्जलिं
कृत्वा
भरतोऽभिप्रणम्य
च ।
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ ४ ॥
सुखोषितोऽस्मि
भगवन्
समग्रबलवाहनः ।
तर्पितः
सर्वकामैश्च
सामात्यो
बलवत्त्वया ॥ ५ ॥
अपेतक्लमसन्तापाः
सुभिक्षाः
सुप्रतिश्रयाः ।
अपि
प्रेष्यानुपादाय
सर्वे
स्म
सुसुखोषिताः ॥ ६ ॥
आमन्त्रयेऽहं
भगवन्
कामं
त्वामृषिसत्तम ।
समीपं
प्रस्थितं
भ्रातुर्मैत्रेणेक्षस्व
चक्षुषा ॥ ७ ॥
आश्रमं
तस्य
धर्मज्ञ
धार्मिकस्य
महात्मनः ।
आचक्ष्व
कतमो
मार्गः
कियानिति
च
शंस
मे ॥ ८ ॥
इति
पृष्टस्तु
भरतं
भ्रातृदर्शनलालसम् ।
प्रत्युवाच
महातेजा
भरद्वाजो
महातपाः ॥ ९ ॥
भरतार्द्धतृतीयेषु
योजनेष्वजने
वने ।
चित्रकूटो
गिरिस्तत्र
रम्यनिर्दरकाननः ॥ १० ॥
उत्तरं
पार्श्वमासाद्य
तस्य
मन्दाकिनी
नदी ।
पुष्पितद्रुमसञ्छन्ना
रम्यपुष्पितकानना ॥ ११ ॥
अनन्तरं
तत्सरितश्चित्रकूटश्च
पर्वतः ।
तयोः
पर्णकुटी
तात
तत्र
तौ
वसतो
ध्रुवम् ॥ १२ ॥
गजवाजिरथाकीर्णां
वाहिनीं
वाहिनीपते ।
वाहयस्व
महाभाग
ततो
द्रक्ष्यसि
राघवम् ॥ १३ ॥
प्रयाणमिति
तच्छ्रुत्वा
राजराजस्य
योषितः ।
हित्वा
यानानि
यानार्हा
ब्राह्मणं
पर्य्यवारयन् ॥ १४ ॥
वेपमाना
कृशा
दीना
सह
देव्या
सुमित्रया ।
कौसल्या
तत्र
जग्राह
कराभ्यां
चरणौ
मुनेः ॥ १५ ॥
असमृद्धेन
कामेन
सर्वलोकस्य
गर्हिता ।
कैकेयी
तस्य
जग्राह
चरणौ
सव्यपत्रपा ॥ १६ ॥
तं
प्रदक्षिणमागम्य
भगवन्तं
महामुनिम् ।
अदूराद्भरतस्यैव
तस्थौ
दीनमनास्तदा ॥ १७ ॥
ततः
पप्रच्छ
भरतं
भरद्वाजो
दृढव्रतः ।
विशेषं
ज्ञातुमिच्छामि
मातॄणां
तव
राघव ॥ १८ ॥
एवमुक्तस्तु
भरतो
भरद्वाजेन
धार्मिकः ।
उवाच
प्राञ्जलिर्भूत्वा
वाक्यं
वचनकोविदः ॥ १९ ॥
यामिमां
भगवन्
दीनां
शोकानशनकर्शिताम् ।
पितुर्हि
महिषीं
देवीं
देवतामिव
पश्यसि ॥ २० ॥
एषा
तं
पुरुषव्याघ्रं
सिंहविक्रान्तगामिनम् ।
कौसल्या
सुषुवे
रामं
धातारमदितिर्यथा ॥ २१ ॥
एतस्यास्तु
सुतौ
देव्याः
कुमारौ
देववर्णिनौ ।
उभौ
लक्ष्मणशत्रुघ्नौ
वीरौ
सत्यपराक्रमौ ॥ २२ ॥
यस्याः
कृते
नरव्याघ्रौ
जीवनाशमितो
गतौ ।
राजपुत्रविहीनश्च
स्वर्गं
दशरथो
गतः ॥ २३ ॥
क्रोधनामकृतप्रज्ञां
दृप्तां
सुभगमानिनीम् ।
ऐश्वर्यकामां
कैकेयीमनार्य्यामार्यरूपिणीम् ॥ २४ ॥
ममैतां
मातरं
विद्धि
नृशंसां
पापनिश्चयाम् ।
यतो
मूलं
हि
पश्यामि
व्यसनं
महदात्मनः ॥ २५ ॥
इत्युक्त्वा
नरशार्दूलो
बाष्पगद्गदया
गिरा ।
स
निशश्वास
ताम्राक्षो
नागः
क्रुद्ध
इव
श्वसन् ॥ २६ ॥
भरद्वाजो
महर्षिस्तं
ब्रुवन्तं
भरतं
तथा ।
प्रत्युवाच
महाबुद्धिरिदं
वचनमर्थवत् ॥ २७ ॥
न
दोषेणावगन्तव्या
कैकेयी
भरत
त्वया ।
रामप्रव्राजनं
ह्येतत्
सुखोदर्कं
भविष्यति ॥ २८ ॥
देवानां
दानवानां
च
ऋषीणां
भावितात्मनाम् ।
हितमेव
भविष्यद्धि
रामप्रव्राजनादिह ॥ २९ ॥
अभिवाद्य
तु
संसिद्धः
कृत्वा
चैनं
प्रदक्षिणम् ।
आमन्त्र्य
भरतः
सेन्यं
युज्यतामित्यचोदयत् ॥ ३० ॥
ततो
वाजिरथान्
युक्त्वा
दिव्यान्
हेमपरिष्कृतान् ।
अध्यारोहत्
प्रयाणार्थी
बहून्
बहुविधो
जनः ॥ ३१ ॥
गजकन्या
गजाश्चैव
हेमकक्ष्याः
पताकिनः ।
जीमूता
इव
घर्मान्ते
सघोषाः
सम्प्रतस्थिरे ॥ ३२ ॥
विविधान्यपि
यानानि
महान्ति
च
लघूनि
च ।
प्रययुः
सुमहार्हाणि
पादैरेव
पदातयः ॥ ३३ ॥
अथ
यानप्रवेकैस्तु
कौसल्याप्रमुखाः
स्त्रियः ।
रामदर्शनकाङ्क्षिण्यः
प्रययुर्मुदितास्तदा ॥ ३४ ॥
चन्द्रार्कतरुणाभासां
नियुक्तां
शिबिकां
शुभाम् ।
आस्थाय
प्रययौ
श्रीमान्
भरतः
सपरिच्छदः ॥ ३५ ॥
सा
प्रयाता
महासेना
गजवाजिरथाकुला ।
दक्षिणां
दिशमावृत्य
महामेघ
इवोत्थितः ॥ ३६ ॥
वनानि
तु
व्यतिक्रम्य
जुष्टानि
मृगपक्षिभिः ।
गङ्गायाः
परवेलायां
गिरिष्वपि
नदीषु
च ॥ ३७ ॥
सा
सम्प्रहृष्टद्विजवाजियोधा
वित्रासयन्ती
मृगपक्षिसङ्घान् ।
महद्वनं
तत्प्रतिगाहमाना
रराज
सेना
भरतस्य
तत्र ॥ ३८ ॥