तया
महत्या
यायिन्या
ध्वजिन्या
वनवासिनः ।
अर्द्दिता
यूथपा
मत्ताः
सयूथाः
सम्प्रदुद्रुवुः ॥ १ ॥
ऋक्षाः
पृषतसङ्घाश्च
रुरवश्च
समतन्तः ।
दृश्यन्ते
वनराजीषु
गिरिष्वपि
नदीषु
च ॥ २ ॥
स
सम्प्रतस्थे
धर्मात्मा
प्रीतो
दशरथात्मजः ।
वृतो
महत्या
नादिन्या
सेनया
चतुरङ्गया ॥ ३ ॥
सागरौघनिभा
सेना
भरतस्य
महात्मनः ।
महीं
सञ्छादयामास
प्रावृषि
द्यामिवाम्बुदः ॥ ४ ॥
अनालक्ष्याचिरं
कालं
तस्मिन्
काले
बभूव
भूः\* ।
चिरकालमित्यनेन
कदाचिल्लक्ष्यत
इति
गम्यते ॥ ५ ॥
स
यात्वा
दूरमध्वानं
सुपरिश्रान्तवाहनः ।
उवाच
भरतः
श्रीमान्
वसिष्ठं
मन्त्रिणां
वरम् ॥ ६ ॥
यादृशं
लक्ष्यते
रूपं
यथा
चैव
श्रुतं
मया ।
व्यक्तं
प्राप्ताः
स्म
तं
देशं
भरद्वाजो
यमब्रवीत् ॥ ७ ॥
अयं
गिरिश्चित्रकूट
इयं
मन्दाकिनी
नदी ।
एतत्
प्रकाशते
दूरान्नीलमेघनिभं
वनम् ॥ ८ ॥
गिरेः
सानूनि
रम्याणि
चित्रकूटस्य
सम्प्रति ।
वारणैरवमृद्यन्ते
मामकैः
पर्वतोपमैः ॥ ९ ॥
मुञ्चन्ति
कुसुमान्येते
नगाः
पर्वतसानुषु ।
नीला
इवातपापाये
तोयं
तोयधरा
घनाः ॥ १० ॥
किन्नराचरितं
देशं
पश्य
शत्रुघ्न
पर्वतम् ।
मृगैः
समन्तादाकीर्णं
मकरैरिव
सागरम् ॥ ११ ॥
एते
मृगगणा
भान्ति
शीघ्रवेगाः
प्रचोदिताः ।
वायुप्रविद्धा
शरदि
मेघराजिरिवाम्बरे ॥ १२ ॥
कुर्वन्ति
कुसुमापीडान्
शिरस्सु
सुरभीनमी ।
मेघप्रकाशैः
फलकैर्दाक्षिणात्या
यथा
नराः ॥ १३ ॥
निष्कूजमिव
भूत्वेदं
वनं
घोरप्रदर्शनम् ।
अयोध्येव
जनाकीर्णा
सम्प्रति
प्रतिभाति
मा ॥ १४ ॥
खुरैरुदीरितो
रेणुर्दिवं
प्रच्छाद्य
तिष्ठति ।
तं
वहत्यनिलः
शीघ्रं
कुर्वन्निव
मम
प्रियम् ॥ १५ ॥
स्यन्दनांस्तुरगोपेतान्
सूतमुख्यैरधिष्ठितान् ।
एतान्
सम्पततः
शीघ्रं
पश्य
शत्रुघ्न
कानने ॥ १६ ॥
एतान्
वित्रासितान्
पश्य
बर्हिणः
प्रियदर्शनान् ।
एतमाविशतः
शीघ्रमधिवासं
पतत्त्रिणः ॥ १७ ॥
अतिमात्रमयं
देशो
मनोज्ञः
प्रतिभाति
मा ।
तापसानां
निवासोऽयं
व्यक्तं
स्वर्गपथो
यथा ॥ १८ ॥
मृगा
मृगीभिः
सहिता
बहवः
पृषता
वने ।
मनोज्ञरूपा
लक्ष्यन्ते
कुसुमैरिव
चित्रिताः ॥ १९ ॥
साधुसैन्याः
प्रतिष्ठन्तां
विचिन्वन्तु
च
कानने ।
यथा
तौ
पुरुषव्याघ्रौ
दृश्येते
रामलक्ष्मणौ ॥ २० ॥
भरतस्य
वचः
श्रुत्वा
पुरुषाः
शस्त्रपाणयः ।
विविशुस्तद्वनं
शूरा
धूमं
च
ददृशुस्ततः ॥ २१ ॥
ते
समालोक्य
धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये
भवत्याग्निर्व्यक्तमत्रैव
राघवौ ॥ २२ ॥
अथ
नात्र
नरव्याघ्रौ
राजपुत्रौ
परन्तपौ ।
मन्ये
रामोपमाः
सन्ति
व्यक्तमत्र
तपस्विनः ॥ २३ ॥
तच्छ्रुत्वा
भरतस्तेषां
वचनं
साधुसम्मतम् ।
सैन्यानुवाच
सर्वांस्तानमित्रबलमर्दनः ॥ २४ ॥
यत्ता
भवन्तस्तिष्ठन्तु
नेतो
गन्तव्यमग्रतः ।
अहमेव
गमिष्यामि
सुमन्त्रो
गुरुरेव
च ॥ २५ ॥
एवमुक्तास्ततः
सर्वे
तत्र
तस्थुः
समन्ततः ।
भरतो
यत्र
धूमाग्रं
तत्र
दृष्टिं
समादधात् ॥ २६ ॥
व्यवस्थिता
या
भरतेन
सा
चमूर्निरीक्षमाणापि
च
धूममग्रतः ।
बभूव
हृष्टा
नचिरेण
जानती
प्रियस्य
रामस्य
समागमं
तदा ॥ २७ ॥