अथ
शैलाद्विनिष्क्रम्य
मैथिलीं
कोसलेश्वरः ।
अदर्शयच्छुभजलां
रम्यां
मन्दाकिनीं
नदीम् ॥ १ ॥
अब्रवीच्च
वरारोहां
चारुचन्द्रनिभाननाम् ।
विदेहराजस्य
सुतां
रामो
राजीवलोचनः ॥ २ ॥
विचित्रपुलिनां
रम्यां
हंससारससेविताम् ।
कमलैरुपसम्पन्नां
पश्य
मन्दाकिनीं
नदीम् ॥ ३ ॥
नानाविधैस्तीररुहैर्वृतां
पुष्पफलद्रुमैः ।
राजन्तीं
राजराजस्य
नलिनीमिव
सर्वतः ॥ ४ ॥
मृगयूथनिपीतानि
कलुषाम्भांसि
साम्प्रतम् ।
तीर्थानि
रमणीयानि
रतिं
सञ्जनयन्ति
मे ॥ ५ ॥
जटाजिनधराः
काले
वल्कलोत्तरवाससः ।
ऋषयस्त्ववगाहन्ते
नदीं
मन्दाकिनीं
प्रिये ॥ ६ ॥
आदित्यमुपतिष्ठन्ते
नियमादूर्द्ध्वबाहवः ।
एते
परे
विशालाक्षि
मुनयः
संशितव्रताः ॥ ७ ॥
मारुतोद्धूतशिखरैः
प्रनृत्त
इव
पर्वतः ।
पादपैः
पत्त्रपुष्पाणि
सृजद्भिरभितो
नदीम् ॥ ८ ॥
क्वचिन्मणिनिकाशोदां
क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां
पश्य
मन्दाकिनीं
नदीम् ॥ ९ ॥
निर्द्धूतान्
वायुना
पश्य
विततान्
पुष्पसञ्चयान् ।
पोप्लूयमानानपरान्
पश्य
त्वं
जलमध्यगान् ॥ १० ॥
तांश्चातिवल्गुवचसो
रथाङ्गाह्वयना
द्विजाः ।
अधिरोहन्ति
कल्याणि
विकूजन्तः
शुभा
गिरः ॥ ११ ॥
दर्शनं
चित्र
कूटस्य
मन्दाकिन्याश्च
शोभने ।
अधिकं
पुरवासाच्च
मन्ये
च
तव
दर्शनात् ॥ १२ ॥
विधूतकलुषैः
सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां
विगाहस्व
मया
सह ॥ १३ ॥
सखीवच्च
विगाहस्व
सीते
मन्दाकिनीं
नदीम् ।
कमलान्यवमज्जन्ती
पुष्कराणि
च
भामिनि ॥ १४ ॥
त्वं
पौरजनवद्व्यालानयोध्यामिव
पर्वतम् ।
मन्यस्व
वनिते
नित्यं
सरयूवदिमां
नदीम् ॥ १५ ॥
लक्ष्मणश्चापि
धर्मात्मा
मन्निदेशे
व्यवस्थितः ।
त्वं
चानुकूला
वैदेहि
प्रीतिं
जनयथो
मम ॥ १६ ॥
उपस्पृशंस्त्रिषवणं
मधुमूलफलाशनः ।
नायोध्यायै
न
राज्याय
स्पृहयेऽद्य
त्वया
सह ॥ १७ ॥
इमां
हि
रम्यां
मृगयूथशालिनीं
निपीततोयां
गजसिंहवानरैः ।
सुपुष्पितैः
पुष्पधरैरलङ्कृतां
न
सोऽस्ति
यः
स्यादगतक्लमः
सुखी ॥ १८ ॥
इतीव
रामो
बहुसङ्गतं
वचः
प्रियासहायः
सरितं
प्रति
ब्रुवन् ।
चचार
रम्यं
नयनाञ्जनप्रभं
स
चित्रकूटं
रघुवंशवर्द्धनः ॥ १९ ॥