तां
तथा
दर्शयित्वा
तु
मैथिलीं
गिरिनिम्नगाम् ।
निषसाद
गिरिप्रस्थे
सीतां
मांसेन
छन्दयन् ॥ १ ॥
इदं
मेध्यमिदं
स्वादु
निष्टप्तमिदमग्निना ।
एवमास्ते
स
धर्मात्मा
सीतया
सह
राघवः ॥ २ ॥
तथा
तत्रासतस्तस्य
भरतस्योपयायिनः ।
सैन्यरेणुश्च
शब्दश्च
प्रादुरास्तां
नभस्स्पृशौ ॥ ३ ॥
एतस्मिन्नन्तरे
त्रस्ताः
शब्देन
महता
ततः ।
अर्दिता
यूथपा
मत्ताः
सयूथा
दुद्रुवुर्दिशः ॥ ४ ॥
स
तं
सैन्यसमुद्धूतं
शब्दं
शुश्राव
राघवः ।
तांश्च
विप्रद्रुतान्
सर्वान्
यूथपानन्ववैक्षत ॥ ५ ॥
तांश्च
विद्रवतो
दृष्ट्वा
तं
च
श्रुत्वा
च
निस्वनम् ।
उवाच
रामः
सौमित्रिं
लक्ष्मणं
दीप्ततेजसम् ॥ ६ ॥
हन्त
लक्ष्मण
पश्येह
सुमित्रा
सुप्रजास्त्वया ।
भीमस्तनितगम्भीरस्तुमुलः
श्रूयते
स्वनः ॥ ७ ॥
गजयूथानि
वाऽरण्ये
महिषा
वा
महावने ।
वित्रासिता
मृगाः
सिंहैः
सहसा
प्रद्रुता
दिशः ॥ ८ ॥
राजा
वा
राजमात्रो
वा
मृगयामटते
वने ।
अन्यद्वा
श्वापदं
किञ्चित्
सौमित्रे
ज्ञातुमर्हसि ॥ ९ ॥
सुदुश्चरो
गिरिश्चायं
पक्षिणामपि
लक्ष्मण ।
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ १० ॥
स
लक्ष्मणः
सन्त्वरितः
सालमारुह्य
पुष्पितम् ।
प्रेक्षमाणो
दिशः
सर्वाः
पूर्वां
दिशमुदैक्षत ॥ ११ ॥
उदङ्मुखः
प्रेक्षमाणो
ददर्श
महतीं
चमूम् ।
रथाश्वगजसम्बाधां
यत्तैर्युक्तां
पदातिभिः ॥ १२ ॥
तामश्वगजसम्पूर्णां
रथध्वजविभूषिताम् ।
शशंस
सेनां
रामाय
वचनं
चेदमब्रीत् ॥ १३ ॥
अग्निं
संशमयत्वार्यः
सीता
च
भजतां
गुहाम् ।
सज्यं
कुरुष्व
चापं
च
शरांश्च
कवचं
तथा ॥ १४ ॥
तं
रामः
पुरुषव्याघ्रो
लक्ष्मणं
प्रत्युवाच
ह ।
अङ्गावेक्षस्व
सौमित्रे
कस्येमां
मन्यसे
चमूम् ॥ १५ ॥
एवमुक्तस्तु
रामेण
लक्ष्मणो
वाक्यमब्रवीत् ।
दिधक्षन्निव
तां
सेनां
रुषितः
पावको
यथा ॥ १६ ॥
सम्पन्नं
राज्यमिच्छंस्तु
व्यक्तं
प्राप्याभिषेचनम् ।
आवां
हन्तुं
समभ्येति
कैकेय्या
भरतः
सुतः ॥ १७ ॥
एष
वै
सुमहान्
श्रीमान्
विटपी
सम्प्रकाशते ।
विराजत्युद्गतस्कन्धः
कोविदारध्वजो
रथे ॥ १८ ॥
भजन्त्येते
यथा
काममश्वानारुह्य
शीघ्रगान् ।
एते
भ्राजन्ति
संहृष्टा
गजानारुह्य
सादिनः ॥ १९ ॥
गृहीतधनुषौ
चावां
गिरिं
वीरश्रयावहै ।
अथवेहैव
तिष्ठावः
सन्नद्धावुद्यतायुधौ ॥ २० ॥
अपि
नौ
वशमागच्छेत्
कोविदारध्वजो
दणे ।
अपि
द्रक्ष्यामि
भरतं
यत्कृते
व्यसनं
महत् ॥ २१ ॥
त्वया
राघव
सम्प्राप्तं
सीतया
च
मया
तथा ।
यन्निमित्तं
भवान्
राज्याच्च्युतो
राघव
शाश्वतात् ॥ २२ ॥
सम्प्राप्तोऽयमरिर्वीर
भरतो
वध्य
एव
मे ।
भरतस्य
वधे
दोषं
नाहं
पश्यामि
राघव ॥ २३ ॥
पूर्वापकारिणां
त्यागे
न
ह्यधर्मो
विधीयते ।
पूर्वापकारी
भरतस्त्यक्तधर्मश्च
राघव ॥ २४ ॥
एतस्मिन्निहते
कृत्स्नामनुशाधि
वसुन्धराम् ।
अद्य
पुत्रं
हतं
सङ्ख्ये
कैकेयी
राज्यकामुका ॥ २५ ॥
मया
पश्येत्
सुदुःखार्त्ता
हस्तिभग्नमिव
द्रुमम् ।
कैकेयीं
च
वधिष्यामि
सानुबन्धां
सबान्धवाम् ॥ २६ ॥
कलुषेणाद्य
महता
मेदिनी
परिमुच्यताम् ।
अद्येमं
संयतं
क्रोधमसत्कारं
च
मानद ॥ २७ ॥
मोक्ष्यामि
शत्रुसैन्येषु
कक्षेष्विव
हुताशनम् ।
अद्यैतच्चित्रकूटस्य
काननं
निशितैः
शरैः ॥ २८ ॥
भिन्दन्
शत्रुशरीराणि
करिष्ये
शोणितोक्षितम् ।
शरैर्निर्भिन्नहृदयान्
कुञ्जरांस्तुरगांस्तथा ॥ २९ ॥
श्वापदाः
परिकर्षन्तु
नरांश्च
निहतान्
मया ।
शराणां
धनुषश्चाहमनृणोऽस्मि
महामृधे ॥ ३० ॥
ससैन्यं
भरतं
हत्वा
भविष्यामि
न
संशयः ॥ ३१ ॥