सुसंरब्धं
तु
सौमित्रिं
लक्ष्मणं
क्रोधमूर्च्छितम् ।
रामस्तु
परिसान्त्व्याथ
वचनं
चेदमब्रवीत् ॥ १ ॥
किमत्र
धनुषा
कार्यमसिना
वा
सचर्मणा ।
महेष्वासे
महाप्राज्ञे
भरते
स्वयमागते ॥ २ ॥
पितुः
सत्यं
प्रतिश्रुत्य
हत्वा
भरतमागतम् ।
किं
करिष्यामि
राज्येन
सापवादेन
लक्ष्मण ॥ ३ ॥
यद्द्रव्यं
बान्धवानां
वा
मित्राणां
वा
क्षये
भवेत् ।
नाहं
तत्
प्रतिगृह्णीयां
भक्षान्
विषकृतानिव ॥ ४ ॥
धर्ममर्थं
च
कामं
च
पृथिवीं
चापि
लक्ष्मण ।
इच्छामि
भवतामर्थे
एतत्
प्रतिश्रृणोमि
ते ॥ ५ ॥
भ्रातॄणां
सङ्ग्रहार्थं
च
सुखार्थं
चापि
लक्ष्मण ।
राज्यमप्यहमिच्छामि
सत्येनायुधमालभे ॥ ६ ॥
नेयं
मम
मही
सौम्य
दुर्ल्लभा
सागराम्बरा ।
नहीच्छेयमधर्मेण
शक्रत्वमपि
लक्ष्मण ॥ ७ ॥
यद्विना
भरतं
त्वां
च
शत्रुघ्नं
चापि
मानद ।
भवेन्मम
सुखं
किञ्चिद्भस्म
तत्
कुरुतां
शिखी ॥ ८ ॥
मन्येऽहमागतोऽयोध्यां
भरतो
भ्रातृवत्सलः ।
मम
प्राणात्
प्रियतरः
कुलधर्ममनुस्मरन् ॥ ९ ॥
श्रुत्वा
प्रव्राजितं
मां
हि
जटावल्कलधारिणम् ।
जानक्या
सहितं
वीर
त्वया
च
पुरुषर्षभ ॥ १० ॥
स्नेहेनाक्रान्तहृदयः
शोकेनाकुलितेन्द्रियः ।
द्रष्टुमभ्यागतो
ह्येष
भरतो
नान्यथा
गतः ॥ ११ ॥
अम्बां
च
कैकयीं
रुष्य
परुषं
चाप्रियं
वदन् ।
प्रसाद्य
पितरं
श्रीमान्
राज्यं
मे
दातुमागतः ॥ १२ ॥
प्राप्तकालं
यदेषोऽस्मान्
भरतो
द्रष्टुमिच्छति ।
अस्मासु
मनसाप्येष
नाप्रियं
किञ्चिदाचरेत् ॥ १३ ॥
विप्रियं
कृतपूर्वं
ते
भरतेन
कदा
नु
किम् ।
ईदृशं
वा
भयं
तेऽद्य
भरतं
योऽत्र
शङ्कसे ॥ १४ ॥
नहि
ते
निष्ठुरं
वाच्यो
भरतो
नाप्रियं
वचः ।
अहं
ह्यप्रियमुक्तः
स्यां
भरतस्याप्रिये
कृते ॥ १५ ॥
कथं
नु
पुत्राः
पितरं
हन्युः
कस्याञ्चिदापदि ।
भ्राता
वा
भ्रातरं
हन्यात्
सौमित्रे
प्राणमात्मनः ॥ १६ ॥
यदि
राज्यस्य
हेतोस्त्वमिमां
वाचं
प्रभाषसे ।
वक्ष्यामि
भरतं
दृष्ट्वा
राज्यमस्मै
प्रदीयताम् ॥ १७ ॥
उच्यमानोऽपि
भरतो
मया
लक्ष्मण
तत्त्वतः ।
राज्यमस्मै
प्रयच्छेति
बाढमित्येव
वक्ष्यति ॥ १८ ॥
तथोक्तो
धर्मशीलेन
भ्रात्रा
तस्य
हिते
रतः ।
लक्ष्मणः
प्रविवेशेव
स्वानि
गात्राणि
लज्जया ॥ १९ ॥
तद्वाक्यं
लक्ष्मणः
श्रुत्वा
व्रीडितः
प्रत्युवाच
ह ।
त्वां
मन्ये
द्रष्टुमायातः
पिता
दशरथः
स्वयम् ॥ २० ॥
व्रीडितं
लक्ष्मणं
दृष्ट्वा
राघवः
प्रत्युवाच
ह ।
एष
मन्ये
महाबाहुरिहास्मान्
द्रष्टुमागतः ॥ २१ ॥
अथवा
नौ
ध्रुवं
मन्ये
मन्यमानः
सुखोचितौ ।
वनवासमनुध्याय
गृहाय
प्रतिनेष्यति ॥ २२ ॥
इमां
वाप्येष
वैदेहीमत्यन्तसुखसेविनीम् ।
पिता
मे
राघवः
श्रीमान्
वनादादाय
यास्यति ॥ २३ ॥
एतौ
तौ
सम्प्रकाशेते
गोत्रवन्तौ
मनोरमौ ।
वायुवेगसमौ
वीर
जवनौ
तुरगोत्तमौ ॥ २४ ॥
स
एष
सुमहाकायः
कम्पते
वाहिनीमुखे ।
नागः
शत्रुञ्जयो
नाम
वृद्धस्तातस्य
धीमतः ॥ २५ ॥
न
तु
पश्यामि
तच्छत्त्रं
पाण्डरं
लोकसत्कृतम् ।
पितुर्दिव्यं
महाबाहो
संशयो
भवतीह
मे ॥ २६ ॥
इतीव
रामो
धर्मात्मा
सौमित्रिं
तुमवाच
ह\* ।
प्रथममर्धमुत्तरार्धेन
योजनीयम् ॥ २७ ॥
अवतीर्य्य
तु
सालाग्रात्तस्मात्स
समितिञ्जयः ।
लक्ष्मणः
प्राञ्जलिर्भूत्वा
तस्थौ
रामस्य
पार्श्वतः ॥ २८ ॥
भरतेनापि
सन्दिष्टा
सम्मर्दो
न
भवेदिति ।
समन्तात्तस्य
शैलस्य
सेना
वासमकल्पयत् ॥ २९ ॥
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं
पर्वतस्य
सा ।
पार्श्वे
न्यविशदावृत्य
गजवाजिरथाकुला ॥ ३० ॥
सा
चित्रकूटे
भरतेन
सेना
धर्मं
पुरस्कृत्य
विधूय
दर्प्पम् ।
प्रसादनार्थं
रघुनन्दनस्य
विराजते
नीतिमता
प्रणीता ॥ ३१ ॥