निवेश्य
सेनां
तु
विभुः
पद्भ्यां
पादवतां
वरः ।
अभिगन्तुं
स
काकुत्स्थमियेष
गुरुवर्त्तकम् ॥ १ ॥
निविष्टमात्रे
सैन्ये
तु
यथोद्देशं
विनीतवत् ।
भरतो
भ्रातरं
वाक्यं
शत्रुघ्नमिदमब्रवीत् ॥ २ ॥
क्षिप्रं
वनमिदं
सौम्य
नरसङ्घैः
समन्ततः ।
लुब्धैश्च
सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥ ३ ॥
गुहो
ज्ञातिसहस्रेण
शरचापासिधारिणा ।
समन्वेषतु
काकुत्स्थावस्मिन्
परिवृतः
स्वयम् ॥ ४ ॥
अमात्यैः
सह
पौरैश्च
गुरुभिश्च
द्विजातिभिः ।
वनं
सर्वं
चरिष्यामि
पद्भ्यां
परिवृतः
स्वयम् ॥ ५ ॥
यावन्न
रामं
द्रक्ष्यामि
लक्ष्मणं
वा
महाबलम् ।
वैदेहीं
वा
महाभागां
न
मे
शान्तिर्भविष्यति ॥ ६ ॥
यावन्न
चन्द्रसङ्काशं
द्रक्ष्यामि
शुभमाननम् ।
भ्रातुः
पद्मपलाशाक्षं
न
मे
शान्तिर्भविष्यति ॥ ७ ॥
यावन्न
चरणौ
भ्रातुः
पार्थिवव्यञ्जनान्वितौ ।
शिरसा
धारयिष्यामि
न
मे
शान्तिर्भविष्यति ॥ ८ ॥
यावन्न
राज्ये
राज्यार्हः
पितृपैतामहे
स्थितः ।
अभिषेकजलक्लिन्नो
न
मे
शान्तिर्भविष्यति ॥ ९ ॥
सिद्धार्थः
खलु
सौमित्रिर्यश्चन्द्रविमलोपमम् ।
मुखं
पश्यति
रामस्य
राजीवाक्षं
महाद्युति ॥ १० ॥
कृतकत्या
महाभागा
वैदेही
जनकात्मजा ।
भर्तारं
सागरान्तायाः
पृथिव्या
याऽनुगच्छति ॥ ११ ॥
सुभगश्चित्रकूटोऽसौ
गिरिराजोपमो
गिरिः ।
यस्मिन्
वसति
काकुत्स्थः
कुबेर
इव
नन्दने ॥ १२ ॥
कृतकार्यमिदं
दुर्गं
वनं
व्यालनिषेवितम् ।
यदध्यास्ते
महातेजा
रामः
शस्त्रभृतां
वरः ॥ १३ ॥
एवमुक्त्वा
महातेजा
भरतः
पुरुषर्षभः ।
पद्भ्यामेव
महाबाहुः
प्रविवेश
महद्वनम् ॥ १४ ॥
स
तानि
द्रुमजालानि
जातानि
गिरिसानुषु ।
पुष्पिताग्राणि
मध्येन
जगाम
वदतां
वरः ॥ १५ ॥
रामाश्रमगतस्याग्नेर्ददर्श
ध्वजमुच्छ्रितम्\* ।
समीपत्वात्तन्मूलदर्शनमिति
न
पुनरुक्तिः ॥ १६ ॥
तं
दृष्ट्वा
भरतः
श्रीमान्
मुमोह
सहबान्धवः ।
अत्र
राम
इति
ज्ञात्वा
गतः
पारमिवाम्भसः ॥ १७ ॥
स
चित्रकूटे
तु
गिरौ
निशम्य
रामाश्रमं
पुण्यजनोपपन्नम् ।
गुहेन
सार्द्धं
त्वरितो
जगाम
पुनर्निवेश्यैव
चमूं
महात्मा ॥ १८ ॥