निविष्टायां
तु
सेनायामुत्सुको
भरतस्तदा ।
जगाम
भ्रातरं
द्रष्टुं
शत्रुध्नमनुदर्शयन् ॥ १ ॥
ऋषिं
वसिष्ठं
सन्दिश्य
मातॄर्मे
शीघ्रमानय ।
इति
त्वरितमग्रे
स
जगाम
गुरुवत्सलः ॥ २ ॥
सुमन्त्रस्त्वपि
शत्रुघ्नमदूरादन्वपद्यत ।
रामदर्शनजस्तर्षो
भरतस्येव
तस्य
च ॥ ३ ॥
गच्छन्नेवाथ
भरतस्तापसालयसंस्थिताम् ।
भ्रातुः
पर्णकुटीं
श्रीमानुटजं
च
ददर्श
ह ॥ ४ ॥
शालायास्त्वग्रतस्तस्या
ददर्श
भरतस्तदा ।
काष्ठानि
चावभग्नानि
पुष्पाण्युपचितानि
च ॥ ५ ॥
सलक्ष्मणस्य
रामस्य
ददर्शाश्रममीयुषः ।
कृतं
वृक्षेष्वभिज्ञानं
कुशचीरैः
क्वचित्
क्वचित् ॥ ६ ॥
ददर्श
च
वने
तस्मिन्
महतः
सञ्चयान्
कृतान् ।
मृगाणां
महिषाणां
च
करीषैः
शीतकारणात् ॥ ७ ॥
गच्छन्नेव
महाबाहुर्द्युतिमान्
भरतस्तदा ।
शत्रुघ्नं
चाब्रवीद्धृष्टस्तानमात्यांश्च
सर्वशः ॥ ८ ॥
मन्ये
प्राप्ताः
स्म
तं
देशं
भरद्वाजो
यमब्रवीत् ।
नातिदूरे
हि
मन्येऽहं
नदीं
मन्दाकिनीमितः ॥ ९ ॥
उच्चैर्बद्धानि
चीराणि
लक्ष्मणेन
भवेदयम् ।
अभिज्ञानकृतः
पन्था
विकाले
गन्तुमिच्छता ॥ १० ॥
इदं
चोदात्तदन्तानां
कुञ्जराणां
तरस्विनाम् ।
शैलपार्श्वे
परिक्रान्तमन्योन्यमभिगर्जताम् ॥ ११ ॥
यमेवाधातुमिच्छन्ति
तापसाः
सततं
वने ।
तस्यासौ
दृश्यते
धूमः
सङ्कुलः
कृष्णवर्त्मनः ॥ १२ ॥
अत्राहं
पुरुषव्याघ्रं
गुरुसंस्कारकारिणम् ।
आर्यं
द्रक्ष्यामि
संहृष्टो
महर्षिमिव
राघवम् ॥ १३ ॥
अथ
गत्वा
मुहूर्तं
तु
चित्रकूटं
स
राघवः ।
मन्दाकिनीमनुप्राप्तस्तं
जनं
चेदमब्रवीत् ॥ १४ ॥
जगत्यां
पुरुषव्याघ्र
आस्ते
वीरासने
रतः ।
जनेन्द्रो
निर्जनं
प्राप्य
धिङ्मे
जन्म
सजीवितम् ॥ १५ ॥
मत्कृते
व्यसनं
प्राप्तो
लोकनाथो
महाद्युतिः ।
सर्वान्
कामान्
परित्यज्य
वने
वसति
राघवः ॥ १६ ॥
इति
लोकसमाक्रुष्टः
पादेष्वद्य
प्रसादयन् ।
रामस्य
निपतिष्यामि
सीताया
लक्ष्मणस्य
च ॥ १७ ॥
एवं
स
विलपंस्तस्मिन्
वने
दशरथात्मजः ।
ददर्श
महतीं
पुण्यां
पर्णशालां
मनोरमाम् ॥ १८ ॥
सालतालाश्वकर्णानां
पर्णैर्बहुभिरावृताम् ।
विशालां
मृदुभिस्तीर्णां
कुशैर्वेदिमिवाध्वरे ॥ १९ ॥
शक्रायुधनिकाशैश्च
कार्मुकैर्भारसाधनैः ।
रुक्मपृष्टष्ठैर्महासारैः
शोभितां
शत्रुबाधकैः ॥ २० ॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः
शरैः ।
शोभितां
दीप्तवदनैः
सर्प्पैर्भोगवतीमिव ॥ २१ ॥
महारजतवासोभ्यामसिभ्यां
च
विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां
चर्मभ्यां
चापि
शोभिताम् ॥ २२ ॥
गोधाङ्गुलित्रैरासक्तैश्चित्रैः
काञ्चनभूषितैः ।
अरिसङ्घैरनाधृष्यां
मृगैः
सिंहगुहामिव ॥ २३ ॥
प्रागुदक्प्रवणां
वेदिं
विशालां
दीप्तपावकाम् ।
ददर्श
भरतस्तत्र
पुण्यां
रामनिवेशने ॥ २४ ॥
निरीक्ष्य
स
मुहूर्त्तं
तु
ददर्श
भरतो
गुरम् ।
उटजे
राममासीनं
जटामण्डलधारिणम् ॥ २५ ॥
तं
तु
कृष्णाजिनधरं
चीरवल्कलवाससम् ।
ददर्श
राममासीनमभितः
पावकोपमम् ॥ २६ ॥
सिंहस्कन्धं
महाबाहुं
पुण्डरीकनिभेक्षणम् ।
पृथिव्याः
सागरान्ताया
भर्त्तारं
धर्मचारिणम् ॥ २७ ॥
उपविष्टं
महाबाहुं
ब्रह्माणमिव
शाश्वतम् ।
स्थण्डिले
दर्भसंस्तीर्णे
सीतया
लक्ष्मणेन
च ॥ २८ ॥
तं
दृष्ट्वा
भरतः
श्रीमान्
दुःखशोकपरिप्लुतः ।
अभ्यधावत
धर्मात्मा
भरतः
कैकयीसुतः ॥ २९ ॥
दृष्ट्वैव
विललापार्त्तो
बाष्पसन्दिग्धया
गिरा ।
अशक्नुवन्
धारयितुं
धैर्याद्वचनमब्रवीत् ॥ ३० ॥
यः
संसदि
प्रकृतिभिर्भवेद्युक्त
उपासितुम् ।
वन्यैर्मृगैरुपासीनः
सोऽयमास्ते
ममाग्रजः ॥ ३१ ॥
वासोभिर्बहुसाहस्रैर्यो
महात्मा
पुरोचितः ।
मृगाजिने
सोऽयमिह
प्रवस्ते
धर्ममाचरन् ॥ ३२ ॥
अधारयद्यो
विविधाश्चित्राः
सुमनसस्तदा
सोऽयं
जटाभारमिमं
वहते
राघवः
कथम् ।
यस्य
यज्ञैर्यथोद्दिष्टैर्युक्तो
धर्मस्य
सञ्चयः ॥ ३३ ॥
शरीरक्लेशसम्भूतं
स
धर्मं
परिमार्गते ।
चन्दनेन
महार्हेण
यस्याङ्गमुपसेवितम् ॥ ३४ ॥
मलेन
तस्याङ्गमिदं
कथमार्यस्य
सेव्यते ।
मन्निमित्तमिदं
दुःखं
प्राप्तो
रामः
सुखोचितः ॥ ३५ ॥
धिग्जीवितं
नृशंसस्य
मम
लोकविगर्हितम् ।
इत्येवं
विलपन्
दीनः
प्रस्विन्नमुखपङ्कजः ॥ ३६ ॥
पादावप्राप्य
रामस्य
पपात
भरतो
रुदन् ।
दुःखाभितप्तो
भरतो
राजपुत्रो
महाबलः ॥ ३७ ॥
उक्त्वार्येति
सकृद्दीनं
पुनर्नोवाच
किञ्चन ।
बाष्पापिहितकण्ठश्च
प्रेक्ष्य
रामं
यशस्विनम् ॥ ३८ ॥
आर्येत्येवाथ
सङ्क्रुश्य
व्याहर्त्तुं
नाशकत्तदा ।
शत्रुघ्नश्चापि
रामस्य
ववन्दे
चरणौ
रुदन् ॥ ३९ ॥
तावुभौ
स
समालिङ्ग्य
रामश्चाश्रूण्यवर्त्तयत् ।
ततः
सुमन्त्रेण
गुहेन
चैव
समीयतू
राजसुतावरण्ये ॥ ४० ॥
दिवाकरश्चैव
निशाकरश्च
यथाम्बरे
शुक्रबृहस्पतिभ्याम् ।
तान्
पार्थिवान्
वारणयूथपाभान्
समागतांस्तत्र
महत्यरण्ये ॥ ४१ ॥
वनौकसस्तेऽपि
समीक्ष्य
सर्वेप्यश्रूण्यमुञ्चन्
प्रविहाय
हर्षम् ॥ ४२ ॥