जटिलं
चीरवसनं
प्राञ्जलिं
पतितं
भुवि ।
ददर्श
रामो
दुर्दर्शं
युगान्ते
भास्करं
यथा ॥ १ ॥
कथञ्चिदभिविज्ञाय
विवर्णवदनं
कृशम् ।
भ्रातरं
भरतं
रामः
परिजग्राह
बाहुना ॥ २ ॥
आघ्राय
रामस्तं
मूर्ध्नि
परिष्वज्य
च
राघवः ।
अङ्के
भरतमारोप्य
पर्यपृच्छत्
समाहितः ॥ ३ ॥
क्व
नु
तेऽभूत्
पिता
तात
यदरण्यं
त्वमागतः ।
न
हि
त्वं
जीवतस्तस्य
वनमागन्तुमर्हसि ॥ ४ ॥
चिरस्य
बत
पश्यामि
दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्येऽस्मिन्
किं
तात
वनमागतः ॥ ५ ॥
कच्चिद्धारयते
तात
राजा
यत्त्वमिहागतः ।
कच्चिन्न
दीनः
सहसा
राजा
लोकान्तरं
गतः ॥ ६ ॥
कच्चित्
सौम्य
न
ते
राज्यं
भ्रष्टं
बालस्य
शाश्वतम् ।
कच्चिच्छुश्रूषसे
तात
पितरं
सत्यविक्रमम् ॥ ७ ॥
कच्चिद्दशरथो
राजा
कुशली
सत्यसङ्गरः ।
राजसूयाश्वमेधानामाहर्त्ता
धर्मनिश्चयः ॥ ८ ॥
स
कच्चिद्
ब्राह्मणो
विद्वान्
धर्मनित्यो
महाद्युतिः ।
इक्ष्वाकूणामुपाध्यायो
यथावत्तात
पूज्यते ॥ ९ ॥
सा
तात
कच्चित्कौसल्या
सुमित्रा
च
प्रजावती ।
सुखिनी
कच्चिदार्य्या
च
देवी
नन्दति
कैकयी ॥ १० ॥
कच्चिद्विनयसम्पन्नः
कुलपुत्रो
बहुश्रुतः ।
अनसूयुरनुद्रष्टा
सत्कृतस्ते
पुरोहितः ॥ ११ ॥
कच्चिदग्निषु
ते
युक्तो
विधिज्ञो
मतिमानृजुः ।
हुतं
च
होष्यमाणं
च
काले
वेदयते
सदा ॥ १२ ॥
कच्चिद्देवान्
पितॄन्
मातॄर्गुरून्
पितृसमानपि ।
वृद्धांश्च
तत
वैद्यांश्च
ब्राह्मणांश्चाभिमन्यसे ॥ १३ ॥
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।
सुधन्वानमुपाध्यायं
कच्चित्त्वं
तात
मन्यसे ॥ १४ ॥
कच्चिदात्मसमाः
शूराः
श्रुतवन्तो
जितेन्द्रियाः ।
कुलीनाश्चेङ्गितज्ञाश्च
कृतास्ते
तात
मन्त्रिणः ॥ १५ ॥
मन्त्रो
विजयमूलं
हि
राज्ञां
भवति
राघव ।
सुसंवृतो
मन्त्रधरैरमात्यैः
शास्त्रकोविदैः ॥ १६ ॥
कच्चिन्निद्रावशं
नैषीः
कच्चित्काले
प्रबुध्यसे ।
कच्चिच्चापररात्रेषु
चिन्तयस्यर्थनैपुणम् ॥ १७ ॥
कच्चिन्मन्त्रयसे
नैकः
कच्चिन्न
बहुभिः
सह ।
कच्चित्ते
मन्त्रितो
मन्त्रो
राष्ट्रं
न
परिधावति ॥ १८ ॥
कच्चिदर्थं
विनिश्चित्य
लघुमूलं
महोदयम् ।
क्षिप्रमारभसे
कर्त्तुं
न
दीर्घयसि
राघव ॥ १९ ॥
कच्चित्ते
सुकृतान्येव
कृतरूपाणि
वा
पुनः ।
विदुस्ते
सर्वकार्याणि
न
कर्त्तव्यानि
पार्थिवाः ॥ २० ॥
कच्चिन्न
तर्कैर्युक्त्या
वा
ये
चाप्यपरिकीर्तिताः ।
त्वया
वा
वाऽमात्यैर्बुध्यते
तात
मन्त्रितम् ॥ २१ ॥
कच्चित्
सहस्रान्
मूर्खाणामेकमिच्छसि
पण्डितम् ।
पण्डितो
ह्यर्थकृच्छ्रेषु
कुर्य्यान्निःश्रेयसं
महत् ॥ २२ ॥
सहस्राण्यपि
मूर्खाणां
यद्युपास्ते
महीपतिः ।
अथवाप्ययुतान्येव
नास्ति
तेषु
सहायता ॥ २३ ॥
एकोप्यमात्यो
मेधावी
शूरो
दक्षो
विचक्षणः ।
राजानं
राजमात्रं
वा
प्रापयेन्महतीं
श्रियम् ॥ २४ ॥
कच्चिन्मुख्या
महत्स्वेव
मध्यमेषु
च
मध्यमाः ।
जघन्यास्तु
जघन्येषु
भृत्याः
कर्मसु
योजिताः ॥ २५ ॥
अमात्यानुपधातीतान्
पितृपैतामहाञ्छुचीन् ।
श्रेष्ठान्
श्रेष्ठेषु
कच्चित्त्वं
नियोजयसि
कर्मसु ॥ २६ ॥
कच्चिन्नोग्रेण
दण्डेन
भृशमुद्वेजितप्रजम् ।
राष्ट्रं
तवानुजानन्ति
मन्त्रिणः
कैकयीसुत ॥ २७ ॥
कच्चित्त्वां
नावजानन्ति
याजकाः
पतितं
यथा ।
उग्रप्रतिग्रहीतारं
कामयानमिव
स्त्रियः ॥ २८ ॥
उपायकुशलं
वैद्यं
भृत्यसन्दूषणे
रतम् ।
शूरमैश्वर्यकामं
च
यो
न
हन्ति
स
वध्यते ॥ २९ ॥
कच्चिद्धृष्टश्च
शूरश्च
मतिमान्
धृतिमाञ्छुचिः ।
कुलीनश्चानुरक्तश्च
दक्षः
सेनापतिः
कृतः ॥ ३० ॥
बलवन्तश्च
कच्चित्ते
मुख्या
युद्धविशारदाः ।
दृष्टापदाना
विक्रान्तास्त्वया
सत्कृत्य
मानिताः ॥ ३१ ॥
कच्चिद्बलस्य
भक्तं
च
वेतनं
च
यथोचितम् ।
सम्प्राप्तकालं
दातव्यं
ददासि
न
विलम्बसे ॥ ३२ ॥
कालातिक्रमणाच्चैव
भक्तवेतनयोर्भृताः ।
भर्त्तुः
कुप्यन्ति
दुष्यन्ति
सोऽनर्थः
सुमहान्
स्मृतः ॥ ३३ ॥
कच्चित्
सर्वेऽनुरक्तास्त्वां
कुलपुत्राः
प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु
सन्त्यजन्ति
समाहिताः ॥ ३४ ॥
कच्चिज्जानपदो
विद्वान्
दक्षिणः
प्रतिभानवान् ।
यथोक्तवादी
दूतस्ते
कृतो
भरत
पण्डितः ॥ ३५ ॥
कच्चिदष्टादशान्येषु
स्वपक्षे
दश
पञ्च
च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि
तीर्थानि
चारकैः ॥ ३६ ॥
कच्चिद्व्यपास्तानहितान्
प्रतियातांश्च
सर्वदा ।
दुर्बलाननवज्ञाय
वर्त्तसे
रिपुसूदन ॥ ३७ ॥
कच्चिन्न
लोकायतिकान्
ब्राह्मणांस्तात
सेवसे ।
अनर्थकुशला
ह्येते
बालाः
पण्डितमानिनः ॥ ३८ ॥
धर्मशास्त्रेषु
मुख्येषु
विद्यमानेषु
दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं
प्राप्य
निरर्थं
प्रवदन्ति
ते ॥ ३९ ॥
वीरैरध्युषितां
पूर्वमस्माकं
तात
पूर्वकैः ।
सत्यनामां
दृढद्वारां
हस्त्यश्वरथसङ्कुलाम् ॥ ४० ॥
ब्राह्मणैः
क्षत्त्रियैर्वैश्यैः
स्वकर्मनिरतैः
सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः
सहस्रशः ॥ ४१ ॥
प्रासादैर्विविधाकारैर्वृतां
वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां
स्फीतामयोध्यां
परिरक्षसि ॥ ४२ ॥
कच्चिच्चित्यशतैर्जुष्टः
सुनिविष्टजनाकुलः ।
देवस्थानैः
प्रपाभिश्च
तटाकैश्चोपशोभितः ॥ ४३ ॥
प्रहृष्टनरनारीकः
समाजोत्सवशोभितः ।
सुकृष्टसीमा
पशुमान्
हिंसाभिः
परिवर्जितः ॥ ४४ ॥
अदेवमातृको
रम्यः
श्वापदैः
परिवर्जितः ।
परित्यक्तो
भयैः
सर्वैः
खनिभिश्चोपशोभितः ॥ ४५ ॥
विवर्जितो
नरैः
पापैर्मम
पूर्वैः
सुरक्षितः ।
कच्चिज्जनपदः
स्फीतः
सुखं
वसति
राघव ॥ ४६ ॥
कच्चित्ते
दयिताः
सर्वे
कृषिगोरक्षजीविनः ।
वार्त्तायां
संश्रितस्तात
लोको
हि
सुखमेधते ॥ ४७ ॥
तेषां
गुप्तिपरीहारैः
कच्चित्ते
भरणं
कृतम् ।
रक्ष्या
हि
राज्ञा
धर्मेण
सर्वे
विषयवासिनः ॥ ४८ ॥
कच्चित्
स्त्रियः
सान्त्वयसि
कच्चित्ताश्च
सुरक्षिताः ।
कच्चिन्न
श्रद्दधास्यासां
कच्चिद्
गुह्यं
न
भाषसे ॥ ४९ ॥
कच्चिन्नागवनं
गुप्तं
कच्चित्ते
सन्ति
धेनुकाः ।
कच्चिन्न
गणिकाश्वानां
कुञ्जराणां
च
तृप्यसि ॥ ५० ॥
कच्चिद्दर्शयसे
नित्यं
मनुष्याणां
विभूषितम् ।
उत्थायोत्थाय
पूर्वाह्णे
राजपुत्र
महापथे ॥ ५१ ॥
कच्चिन्न
सर्वे
कर्मान्ताः
प्रत्यक्षास्तेऽविशङ्कया ।
सर्वे
वा
पुनरुत्सृष्टा
मध्यमेवात्र
कारणम् ॥ ५२ ॥
कच्चित्
सर्वाणि
दुर्गाणि
धनधान्यायुधोदकैः ।
यन्त्रैश्च
परिपूर्णानि
तथा
शिल्पिधनुर्द्धरै ॥ ५३ ॥
आयस्ते
विपुलः
कच्चित्
कच्चिदल्पतरो
व्ययः ।
अपात्रेषु
न
ते
कच्चित्कोशो
गच्छति
राघव ॥ ५४ ॥
देवतार्थे
च
पित्रर्थे
ब्राह्मणाभ्यागतेषु
च ।
योधेषु
मित्रवर्गेषु
कच्चिद्गच्छति
ते
व्ययः ॥ ५५ ॥
कच्चिदार्य्यो
विशुद्धात्माऽऽक्षारितश्चोरकर्मणा ।
अपृष्टः
शास्त्रकुशलैर्न
लोभाद्वध्यते
शुचिः ॥ ५६ ॥
गृहीतश्चैव
पृष्टश्च
काले
दृष्टः
सकारणः ।
कच्चिन्न
मुच्यते
चोरो
धनलोभान्नरर्षभ ॥ ५७ ॥
व्यसने
कच्चिदाढ्यस्य
दुर्गतस्य
च
राघव ।
अर्थं
विरागाः
पश्यन्ति
तवामात्या
बहुश्रुताः ॥ ५८ ॥
यानि
मिथ्याभिशस्तानां
पतन्त्यस्राणि
राघव ।
तानि
पुत्रपशून्
घ्नन्ति
प्रीत्यर्थमनुशासतः ॥ ५९ ॥
कच्चिद्
वृद्धांश्च
बालांश्च
वैद्यमुख्यांश्च
राघव ।
दानेन
मनसा
वाचा
त्रिभिरेतैर्बुभूषसे ॥ ६० ॥
कच्चिद्गुरूंश्च
वृद्धांश्च
तापसान्
देवतातिथीन् ।
चैत्यांश्च
सर्वान्
सिद्धार्थान्
ब्राह्मणांश्च
नमस्यसि ॥ ६१ ॥
कच्चिदर्थेन
वा
धर्ममर्थं
धर्मेण
वा
पुनः ।
उभौ
वा
प्रीतिलोभेन
कामेन
च
न
बाधसे ॥ ६२ ॥
कच्चिदर्थं
च
धर्मं
च
कामं
च
जयतां
वर ।
विभज्य
काले
कालज्ञ
सर्वान्
वरद
सेवसे ॥ ६३ ॥
कच्चित्ते
ब्राह्मणाः
शर्म
सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते
महाप्राज्ञ
पौरजानपदैः
सह ॥ ६४ ॥
नास्तिक्यमनृतं
क्रोधं
प्रमादं
दीर्घसूत्रताम् ।
अदर्शनं
ज्ञानवतामालस्यं
पञ्चवृत्तिताम् ॥ ६५ ॥
एकचिन्तनमर्थानामनर्थज्ञैश्च
मन्त्रणम् ।
निश्चितानामनारम्भं
मन्त्रस्यापरिरक्षणम् ॥ ६६ ॥
मङ्गलस्याप्रयोगं
च
प्रत्युत्थानं
च
सर्वतः ।
कच्चित्त्वं
वर्जयस्येतान्
राजदोषांश्चतुर्दश ॥ ६७ ॥
दश
पञ्च
चतुर्वर्गान्
सप्तवर्गं
च
तत्त्वतः ।
अष्टवर्गं
त्रिवर्गं
च
विद्यास्तिस्रश्च
राघव ॥ ६८ ॥
इन्द्रियाणां
जयं
बुद्ध्वा
षाङ्गुण्यं
दैवमानुषम् ।
कृत्यं
विंशतिवर्गञ्च
तथा
प्रकृतिमण्डलम् ॥ ६९ ॥
यात्रादण्डविधानञ्च
द्वियोनी
सन्धिविग्रहौ ।
कच्चिदेतान्
महाप्राज्ञ
यथावदनुमन्यसे ॥ ७० ॥
मन्त्रिभिस्त्वं
यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव
वा ।
कच्चित्
समस्तैर्व्यस्तैश्च
मन्त्र
मन्त्रयसे
मिथः ॥ ७१ ॥
कच्चित्ते
सफला
वेदाः
कच्चित्ते
सफलाः
क्रियाः ।
कच्चित्ते
सफला
दाराः
कच्चित्ते
सफलं
श्रुतम् ॥ ७२ ॥
कच्चिदेषैव
ते
बुद्धिर्यथोक्ता
मम
राघव ।
आयुष्या
च
यशस्या
च
धर्मकामार्थसंहिता ॥ ७३ ॥
यां
वृत्तिं
वर्त्तते
तातो
यां
च
नः
प्रपितामहाः ।
तां
वृत्तिं
वर्त्तसे
कच्चिद्या
च
सत्पथगा
शुभा ॥ ७४ ॥
कच्चित्
स्वादु
कृतं
भोज्यमेको
नाश्नासि
राघव ।
कच्चिदाशंसमानेभ्यो
मित्रेभ्यः
सम्प्रयच्छसि ॥ ७५ ॥
राजा
तु
धर्मेण
हि
पालयित्वा
महामतिर्दण्डधरः
प्रजानाम् ।
अवाप्य
कृत्स्नां
वसुधां
यथावदितश्च्युतः
स्वर्गमुपैति
विद्वान् ॥ ७६ ॥