तं
तु
रामः
समाज्ञाय
भ्रातरं
गुरुवत्सलम् ।
लक्ष्मणेन
सह
भ्रात्रा
प्रष्टुं
समुपचक्रमे ॥ १ ॥
किमेतदिच्छेयमहं
श्रोतुं
प्रव्याहृतं
त्वया ।
यस्मात्त्वमागतो
देशमिमं
चीरजटाजिनी ॥ २ ॥
किं
निमित्तमिमं
देशं
कृष्णाजिनजटाधरः ।
हित्वा
राज्यं
प्रविष्टस्त्वं
तत्सर्वं
वक्तुमर्हसि ॥ ३ ॥
इत्युक्तः
कैकयीपुत्रः
काकुत्स्थेन
महात्मना ।
प्रगृह्य
बलवद्भूयः
प्राञ्जलिर्वाक्यमब्रवीत् ॥ ४ ॥
आर्य्यं
तातः
परित्यज्य
कृत्वा
कर्म
सुदुष्करम् ।
गतः
स्वर्गं
महाबाहुः
पुत्रशोकाभिपीडितः ॥ ५ ॥
स्त्रिया
नियुक्तः
कैकेय्या
मम
मात्रा
परन्तप ।
चकार
सुमहत्पापमिदमात्मयशोहरम् ॥ ६ ॥
सा
राज्यफलमप्राप्य
विधवा
शोककर्शिता ।
पतिष्यति
महाघोरे
निरये
जननी
मम ॥ ७ ॥
तस्य
मे
दासभूतस्य
प्रसादं
कर्त्तुमर्हसि ।
अभिषिञ्चस्व
चाद्यैव
राज्येनप
मघवानिव ॥ ८ ॥
इमाः
प्रकृतयः
सर्वा
विधवा
मातरश्च
याः ।
त्वत्सकाशमनुप्राप्ताः
प्रसादं
कर्त्तुमर्हसि ॥ ९ ॥
तदानुपूर्व्या
युक्तं
च
युक्तं
चात्मनि
मानद ।
राज्यं
प्राप्नुहि
धर्मेण
सकामान्
सुहृदः
कुरु ॥ १० ॥
भवत्वविधवा
भूमिः
समग्रा
पतिना
त्वया ।
शशिना
विमलेनेव
शारदी
रजनी
यथा ॥ ११ ॥
एभिश्च
सचिवैः
सार्द्धं
शिरसा
याचितो
मया ।
भ्रातुः
शिष्यस्य
दासस्य
प्रसादं
कर्त्तुमर्हसि ॥ १२ ॥
तदिदं
शाश्वतं
पित्र्यं
सर्वं
प्रकृतिमण्डलम् ।
पूजितं
पुरुषव्याघ्र
नातिक्रमितुमर्हसि ॥ १३ ॥
एवमुक्त्वा
महाबाहुः
सबाष्पः
कैकयीसुतः ।
रामस्य
शिरसा
पादौ
जग्राह
विधिवत्पुनः ॥ १४ ॥
तं
मत्तमिव
मातङ्गं
निःश्वसन्तं
पुनःपुनः ।
भ्रातरं
भरतं
रामः
परिष्वज्येदमब्रवीत् ॥ १५ ॥
कुलीनः
सत्त्वसम्पन्नस्तेजस्वी
चरितव्रतः ।
राज्यहेतोः
कथं
पापमाचरेत्त्वद्विधो
जनः ॥ १६ ॥
न
दोषं
त्वयि
पश्यामि
सूक्ष्ममप्यरिसूदन ।
न
चापि
जननीं
बाल्यात्त्वं
विगर्हितुमर्हसि ॥ १७ ॥
कामकारो
महाप्राज्ञ
गुरूणां
सर्वदाऽनघ ।
उपपन्नेषु
दारेषु
पुत्रेषु
च
विधीयते ॥ १८ ॥
वयमस्य
यथा
लोके
सङ्ख्याताः
सौम्य
साधुभिः ।
भार्य्याः
पुत्राश्च
शिष्याश्च
त्वमनु
ज्ञातुमर्हसि ॥ १९ ॥
वने
वा
चीरवसनं
सौम्य
कृष्णाजिनाम्बरम् ।
राज्ये
वापि
महाराजो
मां
वासयितुमीश्वरः ॥ २० ॥
यावत्पितरि
धर्मज्ञे
गौरवं
लोकसत्कृतम् ।
तावद्धर्मभृतां
श्रेष्ठ
जनन्यामपि
गौरवम् ॥ २१ ॥
एताभ्यां
धर्मशीलाभ्यां
वनं
गच्छेति
राघव ।
मातापितृभ्यामुक्तोऽहं
कथमन्यत्
समाचरे ॥ २२ ॥
त्वया
राज्यमयोध्यायां
प्राप्तव्यं
लोकसत्कृतम् ।
वस्तव्यं
दण्डकारण्ये
मया
वल्कलवाससा ॥ २३ ॥
एवं
कृत्वा
महाराजो
विभागं
लोकसन्निधौ ।
व्यादिश्य
च
महातेजा
दिवं
दशरथो
गतः ॥ २४ ॥
स
च
प्रमाणं
धर्मात्मा
राजा
लोकगुरुस्तव ।
पित्रा
दत्तं
यथाभागमुपभोक्तुं
त्वमर्हसि ॥ २५ ॥
चतुर्दशसमाः
सौम्य
दण्डकारण्यमाश्रितः ।
उपभोक्ष्ये
त्वहं
दत्तं
भागं
पित्रा
महात्मना ॥ २६ ॥
यदब्रवीन्मां
नरलोकसत्कृतः
पिता
महात्मा
विबुधाधिपोपमः ।
तदेव
मन्ये
परमात्मनो
हितं
न
सर्वलोकेश्वरभावमप्यहम् ॥ २७ ॥