रामस्य
वचनं
श्रुत्वा
भरतः
प्रत्युवाच
ह ।
किं
मे
धर्माद्विहीनस्य
राजधर्मः
करिष्यति ॥ १ ॥
शाश्वतोऽयं
सदा
धर्म्मः
स्थितोऽस्मासु
नरर्षभ ।
ज्येष्ठपुत्रे
स्थिते
राजन्न
कनीयान्
नृपो
भवेत् ॥ २ ॥
स
समृद्धां
मया
सार्द्धमयोध्यां
गच्छ
राघव ।
अभिषेचय
चात्मानं
कुलस्यास्य
भवाय
नः ॥ ३ ॥
राजानं
मानुषं
प्राहुर्देवत्वे
स
मतो
मम ।
यस्य
धर्मार्थसहितं
वृत्तमाहुरमानुषम् ॥ ४ ॥
केकयस्थे
च
मयि
तु
त्वयि
चारण्यमाश्रिते ।
दिवमार्यो
गतो
राजा
यायजूकः
सतां
मतः ॥ ५ ॥
निष्क्रान्तमात्रे
भवति
सहसीते
सलक्ष्मणे ।
दुःखशोकाभिभूतस्तु
राजा
त्रिदिवमभ्यगात् ॥ ६ ॥
उत्तिष्ठ
पुरुषव्याघ्र
क्रियतामुदकं
पितुः ।
अहं
चायं
च
शत्रुघ्नः
पूर्वमेव
कृतोदकौ ॥ ७ ॥
प्रियेण
खलु
दत्तं
हि
पितृलोकेषु
राघव ।
अक्षय्यं
भवतीत्याहुर्भवांश्चैव
पितुः
प्रियः ॥ ८ ॥
त्वामेव
शोचंस्तव
दर्शनेप्सुस्त्वय्येव
सक्तामनिवर्त्य
बुद्धिम् ।
त्वया
विहीनस्तव
शोकरुग्णस्त्वां
संस्मरन्नस्तमितः
पिता
ते ॥ ९ ॥